अजोऽपि सन्नव्ययात्मा...
भगवद्गीतायाः श्लोकः ४.६
श्लोकः सम्पादयतु
- अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
- प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षष्टः(६) श्लोकः ।
पदच्छेदः सम्पादयतु
अजः अपि सन् अव्ययात्मा भूतानाम् ईश्वरः अपि सन् प्रकृतिं स्वाम् अधिष्ठष्ठाय सम्भवामि आत्ममायया ॥ ६ ॥
अन्वयः सम्पादयतु
अजः अपि अव्ययात्मा सन् भूतानाम् ईश्वरः सन् स्वां प्रकृतिम् अधिष्ठाय आत्ममायया सम्भवामि ।
शब्दार्थः सम्पादयतु
- अजः = जन्मरहितः
- अव्ययात्मा = अविनाशी
- सन् अपि = भवन् अपि
- भूतानाम् = प्राणिनाम्
- ईश्वरः = प्रभुः
- सन् अपि = भवन् अपि
- स्वाम् = स्वकीयाम्
- प्रकृतिम् = शक्तिम्
- अधिष्ठाय =अवलम्ब्य
- आत्ममायया = स्वमायया
- सम्भवामि = उद्भवामि ।
अर्थः सम्पादयतु
अहम् अविनाशी, जन्मरहितः, समस्तप्राणिनां स्वामी च सन् अपि स्वकीयां शक्तिम् अवलम्ब्य योगमायया आत्मानं सृजामि ।
शाङ्करभाष्यम् सम्पादयतु
कथं तर्हि तव न्त्येश्वरस्य धर्माधर्माभावेऽपि जन्मेत्युच्यते-अजोऽपीति। अजोऽपि जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथा भूतानांतब्रह्मादिस्तम्बपर्यन्तानामीशवर ईशनशीलोऽपि सन् प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वं जगद्वर्तते यया मोहितं ,त् स्वमात्मानं वासुदेवं
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये अजोऽपि सन्नव्ययात्मा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च