महासंस्थानम्,आदिचञ्चनगिरि:

पूर्वेतिहासः सम्पादयतु

आदिचुञ्चनगिरिक्षेत्रस्य २०००वर्षाणां प्राचीनः इतिहासः अस्ति । आध्यात्मिकशक्त्याधारिता प्राचीनवैदिकपरम्परा अत्र दृश्यते । तन्नाम प्रकृतेः आराधना अत्र मौल्यं प्राप्तवती अस्ति । यज्ञाः, प्रार्थनाः च दैवीवातावरणनिर्माणे कारणीभूताः सन्ति ।अस्मिन् क्षेत्रे शिवः तपः आचरितवान् इति प्रतीतिः अस्ति ।

क्षेत्रस्य इतिहासः सम्पादयतु

अत्र आदिचुञ्चनगिरिः (Adichunchanagiri) कर्णाटकराज्यस्य मण्ड्यमण्डलस्य नागमङ्गलोपमण्डले स्थितं किञ्चन क्षेत्रम् । अत्र भगवान् परमेश्वरः आगत्य वासं कृत्वा चुञ्चनामाङ्कितस्य कञ्चनामाङ्कितस्य च राक्षसयोः वधं कृतवान् । अतः एषः गिरिः चुञ्चगिरिः इति प्रसिद्धः अस्ति । अस्य औन्नत्यं १९६० मीटर्मितम् । अन्या कथा एवमस्ति । शिवकपालदुत्पन्नाय नाथसम्प्रदायस्य सिद्धयोगिने स्वयं शिवः दर्शनं दत्त्वा स्वपीठेन साकं प्रतिनिधिरूपेण कञ्चित् सिद्धयोगिनं तत्र नियुक्तवान् । स्वयं पञ्चप्राणानां द्योतकरूपेण पञ्चलिङ्गाकृतिकः पञ्चलिङ्गेश्वरः सन् अत्र स्थितवान् । तानि पञ्चलिङ्गानि गङ्गाधरेश्वरस्वामी, चन्द्रमौळीश्वरस्वामी, मल्लेश्वरस्वामी, सिद्धेश्वरस्वामी, सोमेश्वरस्वामी इति नाम्ना प्रसिद्धानि सन्ति । गङ्गाधरेश्वरस्वामी अत्र प्रमुखदेवता अस्ति । अतः एतत् क्षेत्रं पञ्चलिङ्गेश्वरक्षेत्रम् इति प्रसिद्धम् अस्ति ।

क्षेत्रदेवतारूपेण आदिशक्तिरूपिणी देवी अत्र स्थापिता अस्ति । अत्रत्यानि पुण्यतीर्थानि गविसिद्धेश्वरः, चेळूरुकम्ब, गळिगे कल्लूरु, कत्तलुसोमेश्वरः, नागचावडिभैरवमन्दिरं च । अन्नदानार्थं प्रसिद्धम् अय्यनमठम् अथवा अन्नदानीमठम् अस्मिन् क्षेत्रे अस्ति । अत्र प्रतिदिनं २०,००० अपेक्षया अधिकजनाः भोजनं कुर्वन्ति । कालभैरवेश्वरस्वामी एतस्य क्षेत्रस्य क्षेत्रपालकः अस्ति ।

बिन्दुसरोवरः सम्पादयतु

पर्वतस्य मध्यभागे नैसर्गिकरूपेण निर्मितः कश्चन सरोवरः अस्ति । तस्य नाम बिन्दुसरोवरः इति । शतशः पादपरिमितोन्नते पर्वते शिवः वसति । अधः एषः सरोवरः अस्ति । शिवस्य जटया निर्गता जलधारा एषा इति विश्वासः । अतः अत्रत्यं जलम् अत्यन्तम् पवित्रम् इति सर्वेषां भावना अस्ति । जनाः पापपरिहारार्थं पुण्यसम्पादनार्थं च अत्र पुण्यस्नानं कुर्वन्ति । एतत् क्षेत्रं सुन्दरवनैः आवृत्तम् अस्ति । अत्रत्ये मयूरवने मयूराः स्वच्छन्दविहारं कुर्वन्ति ।

श्री आदिचुञ्चनगिरिमहासंस्थानमठम् सम्पादयतु

आदिचुञ्चनगिरिः श्री आदिचुञ्चनगिरिमहासंस्थानमठस्य कारणेन प्रसिद्धः जातः अस्ति । कर्णाटके गणनीयसंख्यायां दृश्यमानानाम् ’ओक्कलिग’बान्धवानां प्रमुखं धार्मिककेन्द्रम् अस्ति इदम् । एतस्य मठस्य एकसप्ततितमपीठाधीशरूपेण स्वर्गीयः जगद्गुरुः श्री श्री श्री बालगङ्गाधरनाथस्वामी कार्यं निरवहत् । श्री बालगङ्गाधरनाथस्वामी (१८जनवरी १९४५-१३ जनवरी २०१३) प्रमुखेषु धार्मिकगुरुषु अन्यतमः ।

कर्णाटके अत्यन्तं सुप्रसिद्धस्य आदिचुञ्चनगिरिमठस्य मठाधीशः बालगङ्गाधरनाथस्वामी सद्यः एव मकरसङ्क्रमणदिने विधिवशः अभवत् । संस्कृताभिमानिनः एतस्य महत् योगदानम् अस्ति कर्णाटकस्य शिक्षणक्षेत्रे । २०१० तमे वर्षे भारतस्य तृतीयश्रेष्ठेन नागरिकसम्मानेन पद्मविभूषणेन एषः सम्मानितः आसीत् ।

आदिचुञ्चनगिरिमठद्वारा बहवः विद्यालयाः, चिकित्सालयाः, परिसरसंरक्षणकेन्द्राणि, प्राणिसंरक्षणकेन्द्राणि, वेदाध्ययनकेन्द्राणि, कृषिसाहाय्यककेन्द्राणि प्रचलन्ति । धार्मिकसामाजिकक्षेत्रेषु बालगङ्गाधरवर्यः अत्यन्तं सक्रियः आसीत् ।

द्विसप्ततितमपीठाधीशरूपेण इदानीं श्री श्री श्री निर्मलानन्दस्वामी कार्यरतः अस्ति । एषः महोदयः तुमुकूरुमण्डलस्य गुब्बिइति उपमण्डलस्य चिरनहळ्ळि ग्रामे जन्म प्राप्तवान् । अस्य पूर्वाश्रमस्य नाम नागराजः। अस्य जन्म नवषष्टि-उत्तर- नवदशशततम वर्षस्य (20-7-1969)जुलै मासस्य विंशतितमे दिनांके अभवत् ।अयं तान्त्रिकविषये स्नातकविद्याभ्यासं मैसूरुनगरे समाप्य मद्रास्नगरे भारतीय प्रौद्यौगिकी संस्थायां(IIT) स्नातकोत्तरपदवीं प्राप्तवान् ।

मार्गः सम्पादयतु

नागमङ्गलतः २६ कि.मी.
मण्ड्यतः ६६ कि.मी.

बेळ्ळूरु-तुमकूरुमार्गः

बाह्यानुबन्धः सम्पादयतु

[वर्गः: मण्ड्यमण्डलस्य प्रेक्षणीयस्थानानि]]

"https://sa.wikipedia.org/w/index.php?title=आदिचुञ्चनगिरिः&oldid=479952" इत्यस्माद् प्रतिप्राप्तम्