आमलकी कश्चित् फलदः वृक्षः । २०-३०पादपरिमितः संवर्धते अयं वृक्षः । अयं पादपः भारतदेशस्य नित्यहरिद्वर्णारण्येषु, एशियाखण्डे यूरोदेशे आफ्रिकादेशे भारतस्य द्वीपदेशेषु च प्ररोहति । अस्य पुष्पाणि लघुघण्टा इव दृश्यते । अस्य आमलकम्, तिष्यफला, वयःस्था, अमृता, आमलकी, धात्री, पञ्चरसः इत्यादीनि नामानि सन्ति । अस्य फलं लघु गोलकं इव भवति यत् मुष्टौ सङ्गोपयितुं शक्यते । अस्य फलस्य रुचिः कशायः भवति । आङ्ग्लभाषाया Indian gooseberry इति ल्याटिन् भाषया Phyllanthus emblica इति कथयन्ति । अयम् आयुर्वेदीयम् औषधसस्यम् इति जगति प्रसिद्धः । प्रसिद्धस्य प्राचीनायुर्वेदवैद्यस्य चरकस्य मते शारीरिकावनतेः प्रतिरोधकेषु अवस्थास्थापकेषु औषधेषु धात्री प्रधाना भवति । माता इव इयं रक्षणं करोति इति अस्य धात्री इति नाम प्राप्तम् इति प्रतीतिः । अस्य फलानि पूर्णपक्वात् पूर्वम् एव उपयोगार्थं चिन्वन्ति । फलैः रक्तशोधकौषधं निर्मीयते । अतिसारस्य प्रमेहस्य दाहस्य आम्पपित्तस्य रक्तपित्तस्य मूलव्याधेः शमनार्थं वीर्यवर्धनार्थम् आयुवर्धनार्थं च धात्रिफलानि उपयुज्यन्ते । अधुनिकवैद्यकीयानुसारम् धात्रिफलेषु विटामिन् (जीवसत्त्वम्) - सी अधिकप्रमाणेन अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=आमलकः&oldid=485957" इत्यस्माद् प्रतिप्राप्तम्