वेदान्तः

(उत्तर-मीमांसा इत्यस्मात् पुनर्निर्दिष्टम्)

वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम् आधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वेदान्तमतानुसारं निःश्रेयस् परं प्रयोजनमस्ति । निःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति ।

ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।

सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विष्यति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुङ्क्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।

उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-

  1. शङ्कराचार्यस्य अद्वैतवादः
  2. रामानुजस्य विशिष्टाद्वैतवादः
  3. निम्बार्कस्य द्वैताद्वैतवादः
  4. मध्वाचार्यस्य द्वैतवादः
  5. वल्लभाचार्यस्य शुद्धाद्वैतवादः
  6. परब्रह्मस्वामिनारायणस्य अक्षरपुरुषोत्तमदर्शनम्

अथैषां क्रमेण स्वरुपनिरुपणं विधीयते-

अद्वैतवादः –अयं सिद्धान्तः आचार्यशङ्करेण प्रतिष्ठापितः । तन्मतेन जीवो ब्रह्मैवास्ति न च् ब्रह्मातिरिक्तः अतएव उभयोः द्वैतभावः स्वीकार्यो नास्ति । शांकरवेदान्ते त्रीणि प्रमुखानि तत्त्वानि स्वीकृतानि सन्ति जीवः जगत् आत्मा च । आत्मन एवापरा संज्ञा ब्रह्मेत्यस्ति । “ ब्रह्म सत्यं जगन्मिथ्या” इति सिद्धान्तः शाङ्करमायावादस्य मूलाधारो वर्तते । वेदान्ते ब्रह्मणः त्रीणि स्वरुपाणि स्वीकृतानि निर्गुणं ब्रह्म, सगुणं ब्रह्म, जीवशरीरस्थं ब्रह्म चेति । यद्यपि ब्रह्मणः किमपि स्वरूपं नास्ति, तथापि उपाधिभेदात् तस्य त्रैविध्यं वर्तते । तत् सत्स्वरुपं चित्स्वरुपम् आनन्दस्वरुपं चास्ति ।

दृश्यादृश्यजगतः कारणमात्रमपि ब्रह्मैवास्तो । तत् परिवर्तनशीलं चास्ति । मायया युक्तं ब्रह्मैव जगतः मूलकारणमस्ति । सृष्टेः सर्वेषु पदार्थेषु स्वसत्तां उपस्थाप्य अपि ब्रह्म तेभ्यः परे तिष्ठति । सृष्टिः मायायाः उपादानमस्ति । मायया आबद्धो जीवः ब्रह्मसाक्षात्कारं कर्तुं न क्षमते । रज्जौ सर्पस्य भ्रान्तिरत्रैव भवति । यथा रज्जुं विना सर्पस्य भ्रान्तिः सम्भवा नास्ति, तथा ब्रह्म विना जगतो भ्रान्तिरपि नैव सम्भवति । अतो ब्रह्मणः सत्ता अवश्यमेव स्वीकार्या । जीवब्रह्मणोर्मध्ये यद् अज्ञानं विद्यते तदेव ‘अविद्या’ इति संज्ञां लभते । ब्रह्म जीवजगतोरपेक्षया परे वर्तते, तदेव जगतः एकमात्रं कारणम् अस्ति ।

अस्या अद्भुतसृष्टेरधिष्ठानं ब्रह्मैवास्ति यतोहि सृष्टेः सत्ता तस्याः स्वकारणात् नास्ति । कारणन्तु ब्रह्मैवास्ति । तत् सदस्ति ज्ञानमस्ति श्रेयोऽस्ति अद्वैतम् अखण्डञ्चास्ति । तत् सूक्ष्मातिसूक्ष्मं तत्त्वं च विद्यते । तदेव सच्चिदानन्दमित्युच्यते । सर्वेषां सत्तात्मकपदार्थानां मूलाधारतया तद् ब्रह्मापि सत् अस्ति । चेतनमयत्वात् चित अस्ति । आनन्दभयत्वात् आनन्दोऽस्ति । तत् समभावेन सर्वत्र व्याप्तमस्ति । तद् अमृतम् अक्षरम् अध्यात्मं च वर्तते । संपूर्णं जगत् तेनैव भासते ।

माया ईश्वरस्य शक्तिविशेषो वर्तते । सा त्रिगुणात्मिका प्रकृतिरेवास्ति । तस्याः शुद्धं सत्त्वं च रुपं ईश्वरोऽस्ति । जीवो मलिनसत्त्वप्रधानो भवति । अनयोरुभयोः सम्बन्धात् जगतः प्रादुर्भावः सम्भवति । माया अनिर्वचनीया शक्तिरस्ति । स्ववस्वरुपे माया उपाधिपूर्णा भवति । ईश्वरेण सह सा सृष्टिकर्त्री अस्ति, किन्तु आवरण-विक्षेप-शक्तिभ्यां साऽपि ब्रह्मवत् सर्वत्र व्याप्ता वर्तते । माया स्वयं स्वतन्त्रा नास्ति किन्तु सा दृश्यरुपेण असद् रुपा विद्यते । चिदाभासेन सा अविद्यमानमपि विद्यमानमिव भासयति । तस्यां दुर्घटत्वशक्तिर्भवति । जगत् तस्या इन्द्रजाल मस्ति । सा वस्तुतः अचिन्त्यस्वरुपा वर्तते । ईश्वरोऽपि मायायाः सम्बन्धात् एव प्रकटीभवति । माया वस्तुतः एकं दीर्धस्वप्नमस्ति ।

अद्वैतमते ज्ञानं द्विधा विभाजितं वर्तते –अनात्मजडम आत्मेचेतनं च । ज्ञानस्य कृते ज्ञाता ज्ञेयश्य परमावश्कौ स्तः । अनात्मा आत्मा चैव उपनिषत्सु उच्च-निम्नं संज्ञया व्यवहृते । तत्रोल्लेखोस्ति । यत् ब्रह्ममूलम् उर्ध्वमस्ति तच्छाखाप्रशाखाश्च अधस्तिष्ठन्ति । अद्वैतमतानुसारं जगदपि द्विधा वर्गीक्रियते-जडजगत्, चेतनजगत् चेति । यद्यपि जगत् असत् अस्ति, तथापि व्यावहारिकसत्ताया तद् विद्यमानमस्ति । ब्रह्मजिज्ञासार्थं विवेक-विराग-षट्क् सम्पत्ति –शम-दम-उपरति-तितिक्षा –श्रद्धा –समाधीनाम् क्रमेणाश्यकता विनिर्दिष्टा । एभिरेवात्मज्ञानं भवति शरीरे चिदाभासयुक्तम् अन्तः करणं कूटस्थचैतन्यं आवरणशक्तिश्च विद्यन्ते । अहङ्कारवशात् जीवः आत्मानं कर्ता भोक्ता चावगच्छति । अहन्तां, ममता, परता च तस्मिन् प्रविष्टा भवति । मनुष्या अपि त्रिधा अर्गीकृताः पामरा विषयिणो मुमुक्षवश्चेति । कर्मणा मुक्तिर्जायते । सम्यग् दर्शनेन जीवजन्तूनां परमार्थं सत् विज्ञायते ।

जीवः चैतन्यस्वरुपः अधिष्ठानभूतः लिङ्गशरीरम् चिच्छायायाः एकत्रिकरणमात्रमस्ति । प्रत्यगात्मा आत्मनः आलोके एव दीप्तो भवति । आत्मनः प्रकाशेन प्रतिबिम्बितम् अन्तरिन्द्रियं अन्तः करणमित्युच्यते । अत्रैव अहंभावस्य अवस्थानं भवति । जीवस्य पूर्णरुपता देहेन्द्रियमनोबुद्धीनां संघाते दृश्यते । शरीराणि त्रीणि सन्ति –स्थूलशरीराणि, सूक्ष्मशरीराणि कारणशरीराणि चेति । तुरीया सुषुप्त्याख्या अवस्था अज्ञानेन जीवं विपरीतं भासयति । परिणामस्वरुपं अज्ञानी जीवः परमात्मानमेव लिङ्ग् देहमात्रं वाऽवगच्छति । किन्तु वस्तुत ईश्वरः आत्मा वा तस्मात् लिङ्गदेहात् नितान्तं पृथग्भूतो भवति । अस्य कृते विवेकस्य आवश्यकता वर्तते । विवेके सति जीवो ब्रह्मण् आत्मनोऽभेदताया ज्ञानं कर्त्तुं पार्यते । विवेकप्राप्त्यै उपायद्वयमाचष्टे –निदिध्यासनं समाधिश्च । विवेकादेव दुःखानाम् आत्यन्तिकी निवृत्तिर्जायते । तत्त्वमसीत्याकारकोऽनुभवोऽपि सम्भवति । यथोक्तमाचार्यशंकरेण-

दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत्

विशिष्टाद्वैतवादः –रामानुजमतानुसारं चेतनो जीवो जड जगच्चेति उभयमेव ब्रह्मणः प्रजायते । ब्रह्म तयोर्निमित्तं उपादानं चेति द्विविधं कारणं वर्तते । अतः केवलं ब्रह्मैव अद्वौत तत्त्वमस्ति । जीवो जगच्चेति उभावपि यद्यपि ब्रह्मणः समुत्पन्नौ तथापि असद्रूपौ न वर्तेते । उभौ ईश्वरतुल्यौ स्तः । यथा जीवात्मनः स्थूलशरीरं असत्यम् नास्ति । पुनरपि उभौ ब्रह्मणः उत्पन्नौ भूत्वापि तस्मात् भिन्नावेव स्तः । यथा शरीरम् आत्मा न भवितुम् अर्हति तथैव तावुभौ ब्रह्म न भवितुं शक्नुतः । स्पष्टमस्ति यत् ईश्वरो आत्मा वा अद्वैतरुपेण जीवजगतोर्द्वैतापेक्षया विशिष्यते । अतः अयं सिद्धान्तो विशिष्टाद्वैत इति कथ्यते । अत्र द्वैताद्वैतयोरुभयोश्चिन्तनयोः समावेशो दृश्यते । रामानुजाचार्यः शाङ्करमायावादं न स्वीकृतवान् अपितु भक्तिमार्गं सविशेषं प्रतिपादितवान् । अस्य परिणामोऽयमभवत् यत् अवैदिकस्य पाञ्चरात्रस्यापि वैदिकसाहित्ये प्रवेशः संजातः । रामानुजस्य विशिष्टाद्वैते ब्रह्म एकमेवास्त् । तद अनेकगुणैः परिपूर्णं वर्तते । तदेव ईश्वरः पुरुषोत्तमो वा । तस्य कुत्रापि अभावो नास्ति । तत् अद्वितीयं वर्तते, स्वलीलया एव च सृष्टिं करोति । तत् शून्येन सृष्टिं न करोति, सृष्टिस्तु तस्य स्वरुपभेदमात्रमस्ति । कारणस्वरुपेणैव तत् कार्यरुपमाप्नोति । आदावीश्वर एकमात्रं ब्रह्मरुपम् आसीत्, कालान्तरे तस्याङ्करुपेण प्रकृतेः जीवानां च आविर्भावः संजातः । प्रकृतिः जीवाश्च सर्वे ते मिथ्या नावर्तन्त् । ते ईश्वरमया ईश्वरानुशासिताश्चाभवन् । जीवः स्थूलतत्त्वमासीत्, प्रकृतिश्च सूक्ष्मम् । कल्पान्ते यदा स्थूलतत्त्वस्य लयःसूक्ष्मतत्त्वे भवति तदा तमस् मात्रम् अवशिष्टं भवति । तदेव ब्रह्मरुपं विज्ञेयं । तत् एकं भवति स्वेच्छया च अनेकं जायते ।

विशिष्टाद्वैतमतानुसारेण आराधनायाः कृते ईश्वरस्य पञ्च अवस्थाः भवन्ति-

  • परावस्था (वैकुण्ठे नारायणस्वरुपाः)
  • व्यूहावस्था (वासुदेवः संकर्षणः, प्रद्युम्नः, अनिरुद्धश्च)
  • विभवावस्था (नारायणावताररुपाः)
  • अर्न्तयामिन्नवस्था (योगादिसाधनैगम्याः)
  • अर्चावस्था (प्रतिमास्वरुपाः)

ईश्वरवत् जीवोऽपि पञ्चधा प्रतिपादितः –(१) नित्यो जीवः (जन्ममृत्योः परे स्थितः (२) मुक्तो जीवः (बन्धनहीनः ईश्वर सान्निध्यं गतः) (३) केवली जीवः (बन्धनमुक्तः ईश्वरत्वं गतः ) (४) मुमुक्षर्जीवः (मोक्षाय तत्परः) (५) बद्धो जीवः ( बन्धनयुक्तः) बद्धजीवस्य कृते ईश्वरप्राप्तेस्त्रय उपायाः सन्ति –(१) कर्म (२) ज्ञानं (३) भक्तिश्च । त्रयाणां द्विजातीनां कृते भक्तिर्विशिष्टाऽस्ति । शूद्रस्य कृते आत्मसमर्पणरुपायाः प्रपत्तेरेव औचित्यं प्रतिपादितम् ।

विशिष्टाद्वैतस्य सम्प्रदायाचार्याणां मतानुसारेण प्रमाणानि त्रीणि आसन्-प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, श्रुतिप्रमाणं चेति । जीवस्य प्रमेय ईश्वरः साध्योऽथवा लक्ष्यभूतोऽस्ति ईश्वर एव अन्तन्तः सर्वशक्तिमान् चास्ति । जीवः चेतनोवर्तते । अचेतनस्तु जडो भवति । आरम्भत एव त्रयाणां भेदः । अत्रापि मायायाः अथवा अविद्यायाः कारणता क्वापि नास्ति । अविद्या सर्वशक्तिमन्तं ब्रह्माणं कथं आवृणोतुं क्षमते । सा कथं सृष्टिञ्चापि कर्त्तुं क्षमते । सृष्टौ यत्किञ्चिदपि दृश्यमाणं भवति तद् ब्रह्म जीवजगतोर्मध्ये विद्यमानं स्वगतं स्वजातीयं विजातीयं च भेदमात्रं वर्तते । ब्रह्मण इच्छाशक्त्या सक्रियं सृष्टिचक्रं अविद्या कथमात्मनोऽनुकूलं ब्रह्मणः प्रतिकूलं च कर्तुं शक्नोति । प्रलये एकमात्रं ब्रह्मैव अवशिष्यते । प्रकृतिः तस्मिन्नेव अव्यक्तभावेन सुप्ता भवति । एवं चेत् ब्रह्म जीव-प्रकृतीनां पार्थक्यं नैव आभासते । इयमेव तस्य ब्रह्मणः कारणावस्था । कल्पान्ते सृष्टिरचनाकाले तस्य कार्यावस्था भवति । कार्यावस्थायां तद् ब्रह्म नानाभावेन नामरुपात्मकं भवति । विशिष्टाद्वैरमते ब्रह्म ईश्वरात् पृथक् न मन्यते । अत्र ब्रह्म चैतन्यमात्रमपि नास्ति । अस्मिन् ज्ञानं शक्तिः बलम् ऐश्वर्यं वीर्यं वात्सल्यं माधुर्यं च वर्तन्ते । ब्रह्मैव निमित्तं उपादानं च कारणमस्ति । जीवः स्वयं ब्रह्मरुपो भवति, किन्तु स आत्मनो ब्रह्मत्वज्ञानरहितो भवति । अयमेव विशिष्टाद्वैतमतस्य सारः ।

द्वैताद्वैतवादः-रामानुजमतमिव निम्बार्कमतेऽपि त्रीणि परमतत्त्वानि स्वीकृतानि-चित्तत्वम्, अचित तत्त्वम्, ईश्वर तत्त्वं च । चित्तस्य तात्पर्यं जीवेनैवास्ति । तत् च ज्ञानस्वरुपं । ज्ञानमयत्वाज्जीवो भोक्ताऽपि वर्तते । ज्ञानमस्य आश्रयो ज्ञाता चेति उभयरुपतामपि स आदत्ते । तस्य स्वरुपं ज्ञातव्यम् अस्ति । इन्द्रियाणां साहाय्यं विना जीवो विषयस्य ज्ञानं प्राप्तुम् अक्षयो भवति । जीवस्य एककाले ज्ञानरुपता ज्ञानाश्रयता च तथैव सिद्धा यथा सूर्यः स्वयं प्रकाशरुपोऽपि प्रकाशस्याश्रयो भवति । जीवस्य ज्ञानमपि द्विधा भवति-स्वरुपगतम् गुणगतं चेति । यद्यपि अभयोः प्रकारयोः ज्ञानाकारत्वेन अभिन्नता अस्ति तथापि धर्मधर्मिभाववशात् भिन्नताऽपि भासते । जीवः केवलं भोक्ता नास्ति सः स्वयं कर्त्तापि वर्तते । यतोहि कर्त्तव्यं विना भोक्तृत्वस्य सिद्धिर्न भवति । निम्बार्कमतानुसारेणा जीवः प्रत्येकदशायां कर्त्ता भवति । संसारिणि जीवे कर्त्तृत्वम् अनुभवसिद्धं भवति किन्तु मुक्तजीवे कर्त्तृत्वं संस्कारवशात् संभवति । “मुमुक्षर्ब्रह्मोपासीत्”। “शान्त उपासीत्” इत्यादि श्रुतिवचनानुसारेण जीवस्य मुक्तावस्थायामपि उपासनायाः क्रियारुपता सिद्यति । अचित जडं जगत् चास्ति, तस्य सृष्टिकर्त्री प्रकृतिरस्ति । कर्त्तृत्वाभिमानी आत्मा प्रकृतिगुणैः विमूढो भूत्वा जीवः सांसारिकतां प्रति प्रेरयति । इन्द्रियाधीशत्वाज्जीवः इन्द्रियाणां विषयान् भुंक्ते । जीवजगतोर्मध्ये इन्द्रियाणि कारणमात्राणि वर्तन्ते । यानि जगद्रूपिणि कर्मक्षेत्रे जीवं कर्त्तृत्वभोक्तृत्वयोरधिष्ठतारं कुर्वन्ति । जडं जगत् प्रकृत्या समुत्पन्नं भवति, अतः प्राकृतमुच्यते । प्राकृते जगति महत आरभ्य महाभूतपर्यन्तं सम्पूर्णा सृष्टिः समाहिताऽस्ति । प्रकृतिसाम्राज्यात् बहिर्भूतम् एकम् अप्राकृतं जगत् अन्यदप्यस्ति । तदस्ति स्वर्लोकः । जगतोऽतिरिक्तं कालोऽपि अचितो जडतत्त्वस्यान्तर्गतं समाहितो वर्तते । कालः अचेतनोऽस्ति, तथापि सम्पूर्णं चित् अचित् स्वसम्पृक्तं कुर्वाणोऽस्ति । जगन्नियामको भूत्वाऽपि काल ईश्वराधीनो विद्यते । स अखण्डो नित्यश्च भवति । कार्यरुपेण यद्यपि तस्य नित्यता न भासते तथापि औपाधिकं तदीयं कार्यत्वं मन्यते । निबार्क मते सगुणो ब्रह्मैव ईश्वरोऽभिमतः । सः सकलविद्यादिदोषरहितः अशेषकल्याणगुणानां निधानश्च कथितः ।ज्ञानं शक्तिः बलं ऐश्वर्यं, तेजः वीर्यं सौशील्यं वात्सल्यं कारुण्यं ईश्वरस्य नैष्ठिका गुणाः सन्ति । कल्याण्गुणास्तु अनन्ताः सन्ति, तेषु जगत् मोक्षश्च प्रधानभूतो वर्तेताम् । विश्वस्याधारभूतः परमात्मा सर्वव्यापकः, सर्वनियन्ता, निरतिशयः सूक्ष्मः, महान् चास्ति । सः अनन्तशक्तिसम्पन्नोऽस्ति । सः स्वेच्छया जगत् सृजति । चिदचिदीश्वराणां पारस्परिकं सम्बन्धं स्पष्टीकुर्वाणः प्रो. धर्मेन्द्रनाथः शास्त्री लिखति— “चिदचिदीश्वरेषु न तु सर्वथा तादात्म्यम् अभेदसम्बन्धो वाऽस्ति । यतो हि तादृशेऽभिमते तस्मिन् गुणस्वभावयोरन्तरं कथं भविष्यति ? एवमेव तेथां सम्बन्धः सर्वथा भेदसम्बन्धोऽपि नैव स्वीकर्त्तुं शक्यते, यतोहि यदि ईश्वरः जीवेभ्यः जडजगतश्च सर्वथा भिन्नोऽभविष्यत् तर्हि अनन्तः सर्वव्यापकश्च कथमभविष्यत् । तस्यां दशायां तु सः ससीमो भविष्यति । भेदस्य तात्पर्यमस्ति जीवजगतोः पृथक् सत्ता तु वर्तते, किन्तु ते उभे एव ईश्वराधीने स्तः । एवञ्चेत् परतन्त्रसत्ताभावोऽस्ति । अभेदस्यार्थोऽस्ति यत् तयोः ईश्वरात् पृथक् स्वतंत्रा सत्ता नास्ति । स्वतंत्रसत्ताभावस्तत्र दृश्यते । निम्बार्कमते प्रपत्तिरेव साधनाया मार्गोऽस्ति । यावत् ईश्वरं प्रति जीवस्य प्रपन्नभावो न भवति, तावत् जीवस्य यथार्थतः कल्याणं न सम्भवति । प्रपन्नभावे एव जीवो भगवदनुग्रहस्य भाजनं भवति । अनुग्रहे रागात्मिका भक्तिः उत्पद्यते । रागात्मिकाया भक्तेरुदयं विना भगवत्कृपा न संभवति । रागात्मिका भक्तिरेव प्रेमाभक्तिऽस्ति । भगवत्साक्षात्कार एव तस्याः परिणामो वर्तते । भगवत्साक्शात्कारस्य स्थितौ जीवः ईश्वरभावैः स्वतः व्याप्तो भवति । सर्वेभ्यः दुःखद्वन्द्वेभ्यश्च विमुच्यते । भगवत्तत्वावाप्तिरपि शरीरविच्छेदोपरन्तमेव जायते । एवं निम्बार्कमते विदेहमुक्तिरेव यथार्थमुक्तिरस्ति । जीवन्मुक्तेः परिकल्पना अत्र न विहिता ।

द्वैतवादः- माध्वसम्प्रदायः स्पष्टरुपेण द्वैतवादी अस्ति । सः अद्वैतवादस्य खण्डनं करोति । माध्वमतानुसारेण ब्रह्म, जीवः, जडश्चेति त्रयः स्वतंत्राः पदार्थाः सन्ति जीवो जडश्च ब्रह्मणो नैव उत्पद्यते । पदार्थमीमांसायाः क्षेत्रे माध्वमतेन दशपदार्थानां सत्ता अभिमता । ते दश् पदार्थाः एवमुक्ताः- (१) द्र्व्यम् (२) गुणाः, (३) कर्माणि, (४) सामान्यं (५) विशेषः (६) विशिष्टः, (७) अंशी, (८) शक्तिः (९) सादृश्यं (१०) अभावश्च । एषु द्रव्यं विंशतिधा अभिहितम्- (१) परमात्मा, (२) लक्ष्मीः (३) जीवः (४) अव्याकृत –आकाशः (५) प्रकृतिः(६) गुणत्रयम् (७) महत् तत्त्वं (८) अहंकारतत्त्वम् (९) बुद्धिः (१०) मनः (११) इन्द्रियं, (१२) मात्रा (१३) भूतानि (१४) ब्रह्माण्डम् (१५) अविद्या (१६) वर्णः (१७) अन्धकारः (१८) वासना (१९) कालः (२०) प्रतिबिम्बः । गुणेषु वैशेषिकोक्तेभ्यः चतुर्विंशतिगुणेभ्योऽतिरिक्तं शम-दम कृपा –तितिक्षासौन्दर्याणां गणनाऽपि कृता । कर्म त्रिविधम्ं निरुपितम् (१) विहितं कर्म (२) निषिद्धं कर्म (३) उदासीनं कर्म चेति । एषु उदासीनं कर्म परिस्पन्दात्मकम् अस्ति । यत्र उत्क्षेपणापक्षेपणयोरन्तर्भावो जायते । समान्यमपि द्विधा स्वीकृतम् –(१) नित्यानित्यभेदकम् (२) जात्युपाधिभेदकम् च । यः अभेदस्थितौ भेदव्यवहारस्य निर्वाहको भवति स विशेष इत्युच्यते । विशेषणेन संयुक्तः पदार्थो विशिष्टो भवति । अतएव नामरुपात्मकतया संसक्त् ईश्वरोऽपि विशिष्टो वर्तते । पदार्थः समग्ररुपेंऽशी उच्यते । शक्तिश्चतुर्धाऽस्ति – (१) अचिन्त्या शक्तिः (२) आधेया शक्तिः (३) सहजा शक्तिः (४) पद्शक्तिश्च । अचिन्त्या शक्तिः अघटितघटनायां निहिता भवति । आधेया शक्तिः अन्याहिता भवति । सहज शक्तिः कार्ये स्वभावतो विद्यमाना भवति । पदशक्तिश्च पदार्थे वाच्यवाचकसम्बन्धेन तिष्ठति ।

माध्वमते साधनायाः पञ्च अवयवाः सन्ति –(१) श्रवणं (२) मननं (३) ध्यानं (४) तारतम्यं (२) ईश्वरस्य जडापेक्षया भेदः (३) जीवस्य जडापेक्षया भेदः (४) जीवानां पारस्परिको भेदः (५) जडपदार्थानां पारस्परिको भेदः । उक्तानां पञ्चविधभेदानां परिज्ञानमेव मुक्तेः साधकमस्ति ।

मध्वाचार्येण उपासनापि द्विविधा प्रतिपादिता-(१) सततशास्त्राभ्यासरुपा (२) ध्यानरुपा च । उपासनायोगः अधिकारिभेदात् स्वीकृतः अस्ति । भगवदविषयिणि अखण्डस्मृतिरेव ध्यानमस्ति । साधनायाः क्रमे सर्वप्रथमम् अपरोक्षज्ञानेन परमा भक्तिर्जायते, पत्पश्चात् परमानुग्रहो भवति, तदनन्तरं मोक्षस्य लाभः संभवति । मोक्षोऽपि चतुर्धा मतः –(१) कर्मक्षयरुपः (२) उत्क्रान्तिरुपः (३) अविरादिमार्गरुपः (४) भोगरुपः । एत एव क्रमशः सालोक्यं, सामीप्यं सारुप्यं, सायुज्यं उच्यन्ते ।

शुद्धाद्वैतः-शुद्धाद्वैतस्य प्रवर्तक आचार्यो वल्लभाचार्य आसीत् । वल्लभाचार्यस्य मतेन ब्रह्म मायया निर्लिप्तमस्ति, अतएव च पूर्णतया विशुद्धं वर्तते । मायायाः सम्बन्धात् रहितं ब्रह्मैव एकमात्रम् अद्वैततत्त्वम् अस्ति । शुद्धे अद्वैतरुपे च ब्रह्मणः परिकल्पनया वल्लभाचार्यस्येदं मतं शुद्धाद्वैतम् इत्युच्यते । शुद्धाद्वैतमते जीवो जडश्च ब्रह्मणः भिन्नौ न स्तः, अतः उभयोः ब्रह्मरुपता सिद्ध्यति । जडजीवयोः ब्रह्मणा सह ऐक्यभावं स्वतः सारुप्यम् अस्ति, अतः तयोरैक्यमिदं शुद्धम् अद्वैतरुपमस्ति । तत्र मायायाः सम्पर्को न स्यात् । यतोहि मायायाः किमपि अस्तित्वं न भवति । ब्रह्मणो महिम्नैव यथा समानधर्मणां सत्ता पदार्थेषु दृष्टिभूता भवति, तथैव विरुद्धधर्माणां सत्ताऽपि प्रति भासते । संसारस्य सर्वेषु पदार्थेषु प्राणिषु च दृश्यमाणे साधर्म्यवैधर्म्ये ब्रह्मणो लीलायाः विकासस्य परिणाममात्रे स्तः । वल्लभमते ब्रह्मणः कोटित्रयं विनिर्दिष्टम्- (१) अधिदैविकं –परं ब्रह्म (२) आध्यात्मिकम्- अक्षरं ब्रह्म (३) आधिभौतिकम्- दृश्यमाणं जगत्

कार्यकारणयोः वस्तुतो भेदाभावात् कार्यरुपं जगत् कारणरुपाद् ब्रह्मणो भिन्नो नास्ति । इदमेव यथार्थं सत् वर्तते । यथा वेल्लितं वस्त्रं आस्तीर्णमपि तदेव भवति तथैव आविर्भावदशायां जगत्, तिरोभावस्वरुपे ब्रह्म च एकस्या एव सत्तायाः बोधकौ स्तः । जगतः आविर्भावस्तु तस्य ब्रह्मणो लीलामात्रम् अस्ति । ब्रह्म स्वेच्छया जगतः पालनं सहारं च करोति । अत्रापि ब्रह्मणो लीलैव एकमात्रं कारणं वर्तते । अस्मदेव कारणात् ब्रह्मारुपतया सदैव ब्रह्मापि नित्यमस्ति । अद्वैतवेदान्तिभिरिवान्यैरस्मदादिभिः जगत् मायिकं असत्यं वा नैवाभिमन्तुं शक्यते ।

वल्लभाचार्यस्य मते लीला विलासस्य् इच्छा अस्ति । एषा इच्छा ब्रह्मणः स्वाभाविको धर्मास्ति । अतएव एतन्निमित्तं किमपि कार्यव्यापारं ब्रह्मन आचरति । सर्ग-विसर्गादिवत् भक्तिरनुग्रहः पुष्टिर्वा ब्रह्मणो लीलैवास्ति । मर्यादावशात् ब्रह्म साधनपरतन्त्रं भवति । अतः आत्मनो मर्यादानां रक्षा तस्याभीष्टा भवति । पुष्टिमार्गे ब्रह्म साधनपरतन्त्रं नाभिमतम्, अपितु जीवानुग्रहनिमित्तमेव ब्रह्मणः सगुणावतारस्य समर्थनं विहितम् । अद्वयब्रह्मणो निर्गुणत्वेऽपि सगुणत्वाप्तौ सांसारिकजीवस्य कृते साधननिरपेक्षाया मुक्तेदर्शनमेकमात्रं कारणमस्ति । भगवत्शरणागतेः प्रपन्नभावस्य वा परिणामस्वरुपं जीवे ब्रह्मणः कारण्यम् उत्पद्यते ।

अक्षरं ब्रह्म क्षरपुरुषापेक्षया अर्थात् प्रकृत्यपेक्षया श्रेष्ठमस्ति, किन्तु परं ब्रह्म ततोऽपि श्रेष्ठं वर्तते । अक्षरब्रह्माणि आनन्दांशस्य किञ्चिन्पात्रे तिरोधानं भवति, पुरुषोत्तमस्तु आनन्देन परिपूर्णो भवति । क्षरातीतोऽक्षर उत्तमतया पुरुषोत्तम इति कथ्यते । एवं ब्रह्मण एव पुरुषोत्तमसंज्ञा जायते । सः पुरुषोत्तमः भक्तयैव गम्यः । क्षरपुरुषः (प्रकृतिरथवा जडं जगत । यद्यपि ब्रह्मरुपतया नित्यमस्ति तथापि विशुद्धज्ञानेनैव स बोध्यो भवति । यद्यपि ज्ञानी जनो ज्ञानबलेन अक्षरं ब्रह्मापि अधिगच्छति तथापि पुरुषोत्तमस्य परब्रह्मणः प्राप्तिस्तु अनन्य शरणागतिस्वरुपया भक्तयैव सम्भाव्यते ।

ब्रह्म स्वेच्छया जगदुत्पत्तेरन्तरं स्वकीयानाम् आनन्दादिगुणानां अंशान् तिरोहितान् विधाय स्वयं जीवरुपतां गृह्णाति । ब्रह्मणो जीवोत्पत्तिरग्निस्फुलिंगसदृशी अभिमता । यथा अग्निस्फुलिङ्गम् अग्निना उत्पन्नमपि अग्न्यपेक्षया भिन्नं प्रति भाति, तथैव ब्रह्मापेक्षया जीवः पृथक् विभाति किन्तु यथार्थतः यथा अग्निस्फुलिङ्गम् अग्नेः पृथक् न भवति तथैव जीवब्रह्मणोर्मध्येऽपि पार्थक्यं न भवति । वल्लभमतेन जीवो ज्ञाता ज्ञानम् अणुरुपं चास्ति । ब्रह्मणोऽविकृतात् संदशात् जडस्य निर्गमनं जायते, अविकृतचिदंशाच्च जीवस्य निर्गमनं सम्भवति । जडस्य निर्गमनकाले यथा चिदंशः आनन्दांशश्च तिरोदधतः तथैव जीवस्य निर्गमनकाले केवलम् आनन्दांश एव तिरोहितो भवति । इयमेव ब्रह्मणः सृष्टिप्रक्रिया सम्प्रोक्ता ।

वल्लभमतानुसारेण जगत् संसारश्च् पृथक्-पृथक् स्तः । ईश्वरेच्छायाः विकासेन संदशात् प्रादुर्भूतः पदार्थः जगदित्युत्यते, किन्तु पञ्चपर्वाया अविद्यायाः परिणामस्वरुपं जीवेन उपकल्पितानां मोहममतादिपदार्थानां संघातः “ संसारः” इति संज्ञां लभते ।अविद्यायाः सत्त्वादेव लोकस्य सत्त्वं सिद्ध्यति । ज्ञाने सति संसारो नश्यति, तथापि ब्रह्मरुपतया जगतः सत्त्वं सार्वकालिकं भवति । तस्य न कदापि विनाशो भवति । जगति विद्यमानो जीवो भक्तयैव केवलं ब्रह्माप्तुं क्षमते । भक्तयैव च भगवदनुग्रहः सम्भवति । श्रीमदभागवते प्रोक्तस्य “पोषणं तदुनग्रहः” इत्यस्य कथनस्यानुसारं भगवदनुग्रह एव पुष्टिसंज्ञकोऽस्ति । अस्यैव प्राधान्येन प्रतिपादनात् इदं मतं पुष्टिमार्गीय मित्यपि कथितम् । वल्लभाचार्यस्य पुष्टिमार्गे भक्तिद्विधा स्वीकृता-

  1. मर्यादाः भक्तिः
  2. पुष्टिभक्तिश्च

भगवच्चरणारविन्दयोर्भक्तिः मर्यादा भक्तिरस्ति किन्तु भगवन्मुखारविन्दस्य भक्तिः पुष्टिभक्तिः कथिता । मर्यादाभक्तौ फलाकांक्षा निगूढा भवति, किन्तु पुष्टिभक्तौ फलाकांक्षाया लेशोऽपि न भवति । मर्यादाभक्त्या सायुज्यं प्राप्यते, किन्तु पुष्टिभक्त्या ब्रह्मणोभेदताया याथार्थ्येन बोधो भवति । इदमेव पुष्टिमार्गस्य मूलभूतं रहस्यं भवति । भगवदनुग्रहस्य परिणामस्वरुपं स्व स्वरुपापत्तेः प्राप्तिरपि वल्लभमते मुक्तिरेवोद्दिष्टा ।

"https://sa.wikipedia.org/w/index.php?title=वेदान्तः&oldid=485142" इत्यस्माद् प्रतिप्राप्तम्