कानेरीगुहाः- बौद्धशिक्षणकेन्द्रम् क्रिस्ताब्दस्य द्वितीयशतकस्य मध्यभागे बौद्धभिक्षवः सन्यासिनः एताः गुहाः निर्मितवन्तः । तत्रैव ते तपः आचरितवन्तः, अध्ययनं योगं च कृतवन्तः । अत्र आहत्य १०९ गुहाः सन्ति । तृतीया गुहा ८६x४० पादचतुरस्रमिता विशिष्टा च अस्ति । विशिष्टं बौद्धशिक्षणकेन्द्रमेतत् आसीत् । एकादशशतकं यावत् अत्र गुहासु अध्ययनं प्रवर्तते स्म । अत्र स्थितानि शिल्पानि, प्राचीनभारतस्य शिल्पकलायाः उदाहरणानि सन्ति ।

मार्गः सम्पादयतु

मुम्बयीराष्ट्रियोद्यानतः ४ कि.मी । मुम्बयीतः ४५ कि.मी

चित्रशाला सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कान्हेरीगुहाः&oldid=376951" इत्यस्माद् प्रतिप्राप्तम्