कालमेघः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Acanthaceae
वंशः Andrographis
जातिः A. paniculata
द्विपदनाम
Andrographis paniculata
(Burm.f.) Wall. ex Nees[१]
कालमेघः

परिचयः सम्पादयतु

भूनिम्बूकः इत्यत्पि नामयुक्तम् एतत् सस्यं गुल्मरूपेण प्ररोहति । कालमेघः कश्चित् बहुवर्षीयः औषधीयः वृक्षकः अस्ति । अस्य वैज्ञानिकं नाम एंडोग्रेफिस पैनिकुलाटा इति । अस्य पत्रेभ्यः कालमेघी इति उपक्षारः प्राप्यते यः आयुर्वेदीयचिकित्साक्रमे उपयुज्यते । अयं गुल्मः श्रीलङ्कामूलनिवासी सत्यपि दक्षिणेशियाभागे सर्वत्र दृश्यते । अस्य देहदण्डः ऋजुः भवति यस्मिन् चतस्रः शाखाः निस्सरन्ति । पुनः एतासु शाखासु चतस्रः विशाखाः उद्भवन्ति । अस्य पत्राणि हरितानि सामान्याकारयुक्तानि भवन्ति । अस्मिन् सस्ये आगस्ट् मासे लघुलघु पुष्पाणि विकसन्ति यस्य वर्णः पाटलः भवति । अल्पप्रमाणस्य अयं गुल्मः वृक्षछायासु सम्यक् प्ररोहति । बीजानि प्राप्तुं फेब्रवरि मासे सस्यकर्तनं भवति । बीजानि औषधोत्पादनसमवायजनाः क्रीणन्ति ।

औषधीयगुणानि सम्पादयतु

भारतीयचिकित्सापद्धतौ कालमेघः कश्चित् दिव्यगुणकारी गुल्मः । भारते एतत् सस्यं पश्चिमवङ्गे, विहारे, उत्तरप्रदेशे च अधिकतया प्ररोहते । अस्य पत्रपुष्पफलकाण्डानां रुचिः तिक्ता भवति । अस्मात् सस्यात् एण्डोग्राफोलाइडस् इति कालमेगी प्रप्त्यते । अस्य पत्राणि ज्वरशमनकरीणि भवन्ति । जायण्डिस् शिरोवेदना इत्यादीनां प्रभावकारि औषधं भवति । क्रिमिनाशकत्वेन, रक्तशोधकत्वेन, विषनिवारकत्वेन च एतत् कार्यं करोति । उदरवेदनायाः चिकित्सायाम् अनिवार्यं सस्यम् एतत् ।

टिप्पणी सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कालमेघः&oldid=480125" इत्यस्माद् प्रतिप्राप्तम्