कूर्मः (Tortoise) प्राणिषु अन्यतमः। कशेरुकसहितः श्रेष्ठः जन्तुः । सरिस्रुपवर्गस्थः जन्तुः । अस्य गतिः सावधानगतिः । प्राणिप्रपञ्चे दीर्घायुश्यवान् एषः । प्रायशः अस्य आयुः १५० वर्षाणाम् अपेक्षया अधिकं भवति ।

कूर्मः

स्वरूपम् सम्पादयतु

कूर्मस्य शिरः, पादान् च विहाय अन्यभागेषु दृढः कवचः भवति । अस्य शरीरस्य उपरिभागाय “क्यारापेस्” इति, अधोभागाय "प्लास्ट्रान्" इति आङ्ग्ले व्यवहारः अस्ति । शिरसः पादानाञ्च आकुञ्चनप्रसारणाय देहस्यान्ते स्थलं भवति। अस्य आत्मसंरक्षणाय एषा व्यवस्था विद्यते। गजः अस्य उपरि स्वस्य सम्पूर्णं भारं स्थापयति चेत् अपि कूर्माय किमपि न भवति । अस्य कवचः तावान् दृढः भवति ।

विभागः सम्पादयतु

कूर्मेषु केचन भूमौ वासं कुर्वन्ति । अन्ये केचन जले वसन्ति । भूचराः कूर्माः गात्रे लघुकायाः भवन्ति । अधिकाधिकं चेत् पादपरिमिताः दीर्घकायाः भवन्ति । सस्याहारमेव आश्रिताः भवन्ति । जलचराः कूर्माः तटाके, समुद्रेषु च भवन्ति । तटाकादिशु विद्यमानाः कूर्माः प्रायशः भूचरसदृशाः भवन्ति गात्रे। समुद्रे विद्यमानाः ४,५, पादपरिमिताः भवन्ति । ५०किलो परिमिताः भवन्ति भारेण । एतेषां मत्स्य-मण्डूकादयः आहाराः भवन्ति । अस्य मुखे पुरतः दन्ताः न भवन्ति किन्तु हनुप्रदेशे तीक्ष्णाः दन्ताः भवन्ति । अहारजीर्णार्थं योग्याः उपयुक्ताश्च भवन्ति।

वंशाभिवृद्धिः सम्पादयतु

 
जननम्

कूर्माः अण्डजाः भवन्ति। भूचराः कूर्माः भूमौ खननं कृत्वा तस्मिन् अण्डान् स्थापयन्ति। जलचराः जलात् बहिरागत्य सिकतासु अण्डानि स्थापयन्ति । कूर्माः जलात् वर्षे द्विवारं, त्रिवारं बहिरागत्य अण्डानि स्थापयन्ति । प्रायशः त्रिषु मासेषु अण्डात् बहिरागच्छन्ति ।

वीथिका सम्पादयतु

बाह्यानुबन्धः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कूर्मः&oldid=409159" इत्यस्माद् प्रतिप्राप्तम्