कोडैक्यानल् (०४५४२) कोडैक्यानल् विहारधाम समुद्रस्तरतः ७ सहस्रपादपरिमितोन्नते प्रदेशे स्थितमस्ति । अतीवसुन्दरं गिरिधाम एतत् प्रकृतिप्रियाणाम् अतीवाकर्षकम् अस्ति। घण्टाद्वयं वाहनेन पर्वतारोहणं करणीयम् । मार्गे जलपाताः वनसौन्दर्यं, पर्वतश्रेणी, मेघानामलीला सर्वजनानां सन्तोषं जनयन्ति । नीलाकाशात् अधः स्थिताः पर्वताः अतीव मनोहराः सन्ति ।

कोडैक्यानल् सरोवरम् सम्पादयतु

 
कोडैक्यानल् सरोवरम्

कोडैक्यानल् प्रदेशे अनेकानि स्थलानि दर्शनीयानि सन्ति । कोडैक्यानल् सरोवरं अतीव प्रसिद्धम् अस्ति । नक्षत्राकारकः, २४ हेक्टरविशालः, शान्तः रमणीयः च अस्ति । अत्र नौकायानम्, अश्वारोहणं, सुन्दराणि उद्यानानि, सर्वतः उत्तमभूमार्गाः जनानां सन्तोषकारकाः विषयाः ।

कोकर्स् वाक् सम्पादयतु

 

कोडैक्यानल् सरोवरतः किलोमीटरदूरे कोकर्स् वाक् प्रदेशे ३००* ५ मीटरविशालः भूमार्गः वनमद्ये पर्वतशिखरतः अधः गच्छति । अत्र पादचारणम् अतीव सन्तोषाय भवति । सर्वतः सुन्दरम् वनम् अस्ति । लेफ्तिनन्ट् कोकरस् इति आङ्ग्लाधिकारी अत्र पादचारणं करोति स्म । अतः अस्य मार्गस्य ‘कोकरस् मार्ग’ इति नाम आगतम् । अस्मात् मार्गात् सुन्दरान् जलपातान्, प्रपातान्, वनसौन्दर्यं , पर्वताशिखरदर्शनं च कर्तुम् अतीव आनन्दः भवति । दूरदर्शकयन्त्रेण दर्शनम् अतीव मनोहरम् । तत्र तत्र दर्शन निस्थानानि निर्मितानि सन्ति । प्रपातानि दृष्ट्वा रुद्रभीकरदर्शनेन मानवः अत्र रोमाञ्चितः भवति ।

पिल्लर् राक्स् सम्पादयतु

 
पिल्लर् राक्स्

पल्लटराक् इति स्थलम् कोडैक्यानल् प्रदेशे अतीव रम्यम् । कोडैक्यानल् सरोवरतः ७ कि.मी दूरे स्थितः शिला विशेषः एषः ४०० पादपरिमितोन्नतः विशालः नैसर्गिकः रोमाञ्चकारि अस्ति । शिलास्तम्भान् एकत्र स्थापितवन्तः इव दृश्यमाना सुन्दरविशेषशिलारचना अत्र अस्ति।

डाक्टर्स् डिलैट् सम्पादयतु

 
डोल्फिन्स् नोस्

डाक्टर्स् डिलैट् इति स्थलम् पिल्लरराक् तः ३ कि.मी. दूरे अस्ति । एतत् अतीव सुन्दरं निसर्गवैभवदर्शकं स्थलम् अस्ति । इतः पर्वतारोहिभिः गम्यानि अनेकानि स्थानानि सन्ति । तेषु डाल्फिन्स् नोस् (८.कि.मी) गुण केवस् (४० कि.मी) ग्रीनव्यालीप्रपातम्, इत्यादीनि अतीवप्रसिध्दानि सन्ति । ग्रीनव्यालीप्रपातप्रदेशे प्रकृतिसौन्दर्यदर्शनाय, प्राणिपक्षिवीक्षणाय च अनुकूल्यम् अस्ति । दूरदर्शकयन्त्रैः अपि दर्शनाय अत्र व्यवस्था अस्ति । अस्मिन् प्रदेशे ‘कुरिञ्जि’नामकः पुष्पविशेषः द्वादशवर्षेषु एकवारं विकसति । प्रतिवर्षं मे मासे जनाः अत्र आगच्छन्ति । तदा शितलं वातावरणं सुन्दरपक्षिणां दर्शनम् अत्रत्यं वैशिष्ट्यं भवति । कोडैक्यानल् पर्वतसमीपे अनेकाः जलपाताः सन्ति । बेराशोलाफाल्स्, ग्लेनजलपातः फेरिफाल्स्, सिल्वरक्यस्केड् इत्यादीनि प्रसिद्धानि ।

सिल्वर् क्यास्केड् सम्पादयतु

सिल्वरक्यस्केड् जलपातस्थले धवलसूर्यकिरणैः जलपातजलम् अतिशुभ्रतया प्रकाशते । अतः सिल्वरकास्केड् इति नाम आगतम् ।

कोडैक्यानल् विशेषाः सम्पादयतु

एप्रिलमासतः जून्प्र्यन्तम् अथवा सप्तम्बर्-अक्टोबरमासयोः वा आगमनम् उक्तम् । मे मासः अपि अत्युत्तमः कालः । अत्र दिनसमयः अधिकः भवति । विलम्बेन सूर्यास्तः भवति । अतः एव नक्षत्रदर्शनालयः भौतशास्त्रप्रयोगालयः (१८९८), सेम्बगनूर वसुसङ्ग्रहालयः बेरिञ्जिम् सरोवरं (११ कि.मी ) पेरुमाळशृङ्गं, ब्रयण्ट् उद्यानम् इत्यादि अतीव सुन्दराणि आकर्षणीयानि च भवन्ति ।

मार्गः सम्पादयतु

वायुमार्गः सम्पादयतु

मधुरै-कोयम्बत्तूरुविमाननिस्थानतः १२० कि.मी भूमार्गः । पळनीतः ६० कि.मी । मधुरैतः १२० कि.मी चेन्नैतः ५३६ कि.मी ।

धूमशकटमार्गः सम्पादयतु

कोडैधूमशकटनिस्थानम् । ततः वाहनेन ८० कि.मी ।पळनीनिस्थानतः ६४ कि.मी । मधुरैनिस्थानतः १२० कि.मी ।

वसतिव्यवस्था सम्पादयतु

उपाहारगृहेषु कोडैक्यानाल् अथवा मधुरैनगरे कर्तुं शक्या अस्ति । मधुरैनगरतः एकदिनस्य प्रवासव्यवस्था अपि अस्ति । प्रवासोद्यमविभागतः कोडैक्यानल् दर्शनव्यवस्था उत्तमतया कृता भवति ।

"https://sa.wikipedia.org/w/index.php?title=कोडैक्यानल्&oldid=370431" इत्यस्माद् प्रतिप्राप्तम्