गोकाकजलपातः (Gokak Falls) कर्णाटकराज्ये बेळगावीमण्डले विद्यमानः कश्चन जलपातः । बेळगावीमण्डलकेन्द्रतः ७२ कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७ कि.मी.दूरे एव कर्णाटकस्य नयागरा इति कथ्यमाना गोकाकजलपातः दृश्यते । तत्र घटप्रभा नदी १८० मी. गहने कन्दरे पतति । एतस्याः वैशाल्यं १७६ मीटर्मितम् । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७ मी. दीर्घः दोलासेतुः निर्मितः । इतः वीक्षणाय अधिकं धैर्यम् आवश्यकं भवति यतः नद्याः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति । यः स्पृशति सः निमग्नः भवति एव । जूनमासतः अक्टोबरमासपर्यन्तं जलपातस्य वीक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति । बहुकालपर्यन्तम् एषः जलपातः अदृष्टः एव आसीत् । कयामल् नाम आङ्गलाधिकारी मृगयार्थम् आगतः जलपतनशब्दं श्रुत्वा अत्र अगतवान् । अतीवसुन्दरं जलपातं दृष्ट्वा बहुसन्तुष्टः अभवत् । घटप्रभानद्या निसर्गनिर्मितः जलपातः भारतीयनयागराजलपातः इति ख्यातः अस्ति । १७६ मीटरोन्नतप्रदेशात् १८० पादविस्तृतवक्रप्रदेशतः जलं पतति । त्रिकिलोमीटर्दूरतः एव जलपातशब्दश्रवणं भवति । पुरतः यदा सूर्यः आगच्छति तदा इन्द्रधनुषः निर्माणम् अतीव सुन्दरं भवति । जलधारासु वर्णविन्यासः अपूर्वः भवति । जलं कार्पासः इव अधः पतति । परितः वनप्रदेशः वृक्षाः सुन्दरवातावरणं च आकर्षकाणि सन्ति । वृक्षेषु पक्षिणां कलरवः सदा भवति । अत्रैव समीपे नदीतरणाय कृतः २०१ मीटरदीर्घः तोलनसेतुः अस्ति । क्रिस्ताब्दे १८८७ तमे वर्षे अयोरज्जुभिः निर्मिता इयं सेतुः इदानीमपि कार्यरता अस्ति । वर्षकाले एव जलपातदर्शनं मनोहरम् । प्रतिदिनं जनाः सहस्रशः आगच्छन्ति । जलबन्धकारणात् सर्वदा जलं भवति । तथापि विशेषतः ग्रीष्मकाले जलम् अल्पं पतति ।

गोकाकजलपातः

अस्य जलपातस्य विशेषः नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टिः अभवत् । शिलाः उपरितनेन भारेण भग्नाः भूत्वा ताः द्विधा विभक्ताः भवन्ति । एकः भागः अधः अपसरति । नद्याः जलम् उपरिष्टात् अधः अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपातः रचितः अस्ति । अतः एतस्य विशालता अधिका अस्ति ।

दोलासेतुः

मार्गः सम्पादयतु

धूमशकटमार्गः सम्पादयतु

पुणे-हुब्बळ्ळीमार्गे गोकाकधूमशकटनिस्थानम् अस्ति । ततः १५.कि.मी. ।

वाहनमार्गः सम्पादयतु

बेळगावीतः ५८ कि.मी. । बेङ्गळूरुतः ५३६ कि.मी. । बेळगावीतः प्रति पञ्चदशनिमेषेषु एकं वाहनं गच्छति । समीपस्थं विमाननिस्थानम् – बेळगावी

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोकाकजलपातः&oldid=480256" इत्यस्माद् प्रतिप्राप्तम्