चक्रम् (योगशास्त्रम्)
चक्रमिति परिकल्पना चक्रसदृश-आवर्तकं वदति । साम्प्रदायिकवैद्यशास्त्रदृष्ट्या एतानि मानवशरीरस्य उपरिविद्यमानस्तरयुगले विद्यन्ते इत्यभिप्रेतं वर्तते । चक्राणि “शक्तिकेन्द्राणि” । तानि दैहिकशरीरे विद्यमानबिन्दोः आरभ्य सूक्ष्मशरीरस्य स्तरेषु विस्तारं प्राप्य भ्रमणेन व्यजनाकाररचनां प्राप्नुवन्ति ।
शब्दव्युत्पत्तिः सम्पादयतु
चक्रपदं संस्कृते विभिन्नवस्तुनः अर्थं प्रतिपादयतीति भट्टाचार्यस्य तान्त्रिकेतिहासविमर्शाख्ये ग्रन्थे उल्लिखितं वर्तते ।
- शक्तेः अपरिमितभ्रमणं वदतीदं चक्रपदम् ।
- जनानामेकं वृत्तम् । धार्मिकप्रयोगेषु विभिन्नचक्रसाधनानि वर्तन्ते । अनुगामिनः धार्मिकसभां कुर्वन्ति धार्मिकं विधानं चानुतिष्ठन्ति । निरुत्तरतान्त्रिकदृष्ट्या पञ्चविधचक्राणि वर्तन्ते ।
- चक्रपदं यन्त्राणाम् अनुभाविरेखाचित्राणां वा अर्थं वदति इत्यपि दर्शितम् ।
- शरीरस्यान्तः विभिन्नमज्जातन्तुजालमपि चक्रपदवाच्यमेव ।
बौद्धधर्मसाहित्यक्षेत्रे संस्कृतपदमिदं चक्रं ( पालीभाषायाः चाक्क इति पदम् ) वृत्तस्य विभिन्नेष्वर्थेषु प्रयुक्तं वर्तते । अस्तित्वस्य चत्वारिवृत्तानि स्थितेः कल्पना वा इत्यपि उल्लेखो वर्तते । तत्र देवाः मानवाः वा स्वस्यापेक्षितं ज्ञानं प्राप्तुं शक्नुवन्ति ।
चक्रव्यावस्था सम्पादयतु
सूक्ष्मशरीरस्य परितः भ्रममाणान्येतान्यावर्तकानि शक्तेः स्वीकरणार्थं प्रेषणार्थं च विद्यमानान्येतानि नाभिकेन्द्रितबिन्दवः इति परिगण्यन्ते । सामान्येन सप्तचक्राणि अथवा शक्तिकेन्द्राणि ( प्रकाशचक्राणीति तेषां नामान्तरम् ) सूक्ष्मशरीरस्यान्तः विद्यन्ते इत्यभिप्रायः सर्वसम्मतः वर्तते । तथैवान्वेषितमप्यस्ति । विशेषतः चक्राणां विवरणं विधानद्वयोर्मध्ये एकया रीत्या क्रियते ।
- पुष्पसदृशम्
- चक्रसदृशम्
- प्रथमे विधाने निर्दिष्टायां सङ्ख्यायां पुष्पदलानि वृत्तस्यैकस्य परिधेः परितः दर्शयति ।
- द्वितीये विधाने निर्दिष्टायां सङ्ख्यायां चक्रस्य दण्डानि वृत्तमेकं समानांशेन विभागं कुर्वन्ति । एतस्यैव चक्रसदृशमिति व्यवहारः । प्रत्येकस्मिन्नपि चक्रे निर्दिष्टसङ्ख्यायां विभागाः अथवा दलानि भवन्ति ।
चक्रसम्बन्धीमूलविषयाः उपनिषत्सु प्राप्तुं शक्नुमः । तेषां कालनिर्णयस्तु क्लेशकरः एव । कुतश्चेत् प्रथमतया क्रिस्तपूर्व १२००-९०० समये एतेषां लेखनात् १००० वर्षात् प्रागेव जनानां मुखतःमुखं प्रति प्रसरितमासीदिति अभिप्रायः वर्तते एव ।
व्याख्यानानि सम्पादयतु
चक्राणि शक्तिकेन्द्राणि भूत्वा शक्तेः उत्पादनं सङ्ग्रहणं च कुर्वन्ति । बिन्दवः ब्रह्माण्डापेक्षया अधिकं शक्तिं कर्षन्ति । मुख्याः -
- नाड्यः
- इडा,
- पिङ्गलम्,
- सुषुम्ना ( Sypathetic, Parasympathetic and Central Nerve System ) इति ।
पृष्ठास्थिनः उपरि वक्राकारेण भ्रमन्ति । परस्परं तदा तदा घर्षणं प्राप्नुवन्ति च ।छेदनबिन्दौ तानि बलिष्ठशक्तिकेन्द्राणि रचयन्ति । एतान्येव चक्राणि । मानवशरीरे त्रीणि शक्तिकेन्द्राणि सन्ति । अधस्तात् अथवा प्राणिचक्राणि पादाङ्गुलीश्रोणीकुहरयोः मध्ये विद्यमानानि । प्राणिसाम्राज्ये अस्माकं विकसनमूलं सूचयन्ति । मानवचक्राणि पृष्ठास्थ्नि विद्यन्ते । श्रेष्ठचक्राणि अथवा दैविकचक्राणि पृष्ठवंशस्य उपरि, शिरसः मध्यभागे च स्थितानि । अनोडिय जुडिथमहोदयः चक्राणामेकमाधुनिकं व्याख्यानं दर्शयति – “चक्रमिति क्रियाशीलतायाः केन्द्रम् । जीवशक्तिं स्वीकृत्य, समीकृत्य प्रकटीकरोति । चक्रं च पृष्ठवंशादारभ्यविद्यमानमज्जातन्तुतः प्रसार्यमाण-ग्याङ्लियानामकजैविकशक्तिक्रियाशीलभ्रममाणमेकं वृत्तम् ।” इति । सामान्यतः अत्र षट्-चक्राणि प्रसिद्धानि । पृष्ठास्थिनः अधस्तादारभ्य ललाटस्य मध्यभागपर्यन्तं विद्यमानस्य शक्तेः स्तम्भपङ्क्तौ षट्-चक्राणि, अपि च सप्तमचक्रं दैहिकदेहात् बहिः विद्यते । षट्-चक्राणि ज्ञानस्य मूलस्थितिना सह वर्तन्ते ।
सुसान् शुम्ष्किमहोदयः एनमेवाभिप्रायमङ्गीकरोति । अस्माकं पृष्ठास्थ्नि विद्यमानानि चक्राणि स्वसन्निहितशरीरभागस्य कार्यस्योपरि प्रभावं जनयन्ति तेषु कार्यप्रवृत्तिं वा जनयन्तीति अभिप्रेतं वर्तते । शवपरीक्षाद्वाराऽपि चक्राणामस्तित्वं नैव ज्ञायते इत्यतः अधिकजनाः ‘चक्रमिति केवलं कल्पना एव न वास्तवमि’ति मन्वते । अथापि तेषामस्तित्वं सप्रमाणकं निश्चप्रचमुक्तमस्ति पौरात्यानां सम्प्रदाये ।
चक्राणि पृष्ठास्थानि विद्यमानानि शक्तिकेन्द्राणि पृष्ठवंशस्याधस्तादारभ्य मानवस्य मज्जातन्तुव्यवस्थायाः मुख्येषु भागेषु चलित्वा शिरसः उपरि ऊर्ध्वमुखेन चलन्ति । चक्राणि जीवभौतशास्त्रस्य शक्तयः अथवा मानवशरीरस्य प्राणबिन्दवः अथवा सम्पर्कबिन्दवः इति परिगण्यन्ते । “प्राणानि भवतां सुप्तशरीरस्य मूलानि शक्तिक्षेत्राणि च । समग्रचक्रव्यवस्था अत्यावश्यकी। जगति शक्तेः मूलं च ” इति शुम्ष्कि वदति ।
सप्तचक्राणि सम्पादयतु
सप्तचक्राणि यथा –
- मूलाधारचक्रम् ( पृष्ठवंशस्यान्तिमास्थि )
- स्वाधिष्ठानचक्रम् ( जननेन्द्रियसम्बन्धी तन्तुः )
- मणिपूरचक्रम् ( नाभिप्रदेशः )
- अनाहतचक्रम् ( हृदयप्रदेशः )
- विशुद्धिचक्रम् ( कण्ठप्रदेशः )
- आज्ञाचक्रम् ( पीनल्-नामकतन्तुः, तृतीयनत्रस्थानम् )
- सहस्रारचक्रम् ( शिरसः उपरिभागः, नवजातशिशोः शिरसः ‘मृदुभागः’ )
शिरसि कनिष्ठात् गरिष्ठपर्यन्तं विद्यमानानि चक्राणि – गोटः, ललनः, आज्ञा, ललाटः, सोमः, सहस्रारः (तस्मिन् श्रीचक्रम्) ।
अधिकपठनाय सम्पादयतु
- Apte, Vaman Shivram (1965). The Practical Sanskrit Dictionary (fourth revised & enlarged ed.). Delhi: Motilal Banarsidass Publishers. ISBN 81-208-0567-4.
- Bucknell, Roderick; Stuart-Fox, Martin (1986). The Twilight Language: Explorations in Buddhist Meditation and Symbolism. London: Curzon Press. ISBN 0-312-82540-4.
- Edgerton, Franklin (2004) [1953]. Buddhist Hybrid Sanskrit Grammar and Dictionary (Reprint ed.). Delhi: Motilal Banarsidass Publishers. ISBN 81-208-0999-8. (Two volumes)
- Flood, Gavin (1996). An Introduction to Hinduism. Cambridge: Cambridge University Press. ISBN 0-521-43878-0.
- Chia, Mantak; Chia, Maneewan (1993). Awaken Healing Light of the Tao. Healing Tao Books.
- Monier-Williams, Monier. A Sanskrit-English Dictionary. Delhi: Motilal Banarsidass Publishers.
- Prabhananda, S. (2000). Studies on the Tantras (Second reprint ed.). Calcutta: The Ramakrishna Mission Institute of Culture. ISBN 81-85843-36-8.
- Rinpoche, Tenzin Wangyal (2002). Healing with Form, Energy, and Light. Ithaca, New York: Snow Lion Publications. ISBN 1-55939-176-6.
- Saraswati, MD, Swami Sivananda (1953–2001). Kundalini Yoga. Tehri-Garhwal, India: Divine Life Society. foldout chart. ISBN 81-7052-052-5.
- Tulku, Tarthang (2007). Tibetan Relaxation. The illustrated guide to Kum Nye massage and movement – A yoga from the Tibetan tradition. London: Dunkan Baird Publishers. ISBN 978-1-84483-404-4.
- Woodroffe, John (1919–1964). The Serpent Power. Madras, India: Ganesh & Co. ISBN 0-486-23058-9.
- Banerji, S. C. Tantra in Bengal. Second Revised and Enlarged Edition. (Manohar: Delhi, 1992) ISBN 81-85425-63-9
- Saraswati, Swami Sivananda, MD (1953–2001). Kundalini Yoga. Tehri-Garhwal, India: Divine Life Society. ISBN 81-7052-052-5.
- Shyam Sundar Goswami, Layayoga: The Definitive Guide to the Chakras and Kundalini, Routledge & Kegan Paul, 1980.
- Leadbeater, C.W. The Chakras Wheaton, Illinois, U.S.A.:1926—Theosophical Publishing House—Picture of the Chakras on plates facing page 17 as claimed to have been observed by Leadbeater with his third eye
- Sharp, Dr. Michael (2005). Dossier of the Ascension: A Practical Guide to Chakra Activation and Kundalini Awakening (1st ed.). Avatar Publications. ISBN 0-9735379-3-0. Archived from the original on 2012-12-21. आह्रियत 2015-06-22.
- Guru Dharam S Khalsa and Darryl OKeeffe. The Kundalini Yoga Experience New York, NY U.S.A.:2002, Fireside, Simon & Schuster, Inc. Copyright by Baia Books Limited. Kriyans and meditations copyright Yogi Bhajan, All Rights reserved.
- Judith, Anodea (1996). Eastern Body Western Mind: Psychology And The Chakra System As A Path To The Self. Berkeley, California, USA: Celestial Arts Publishing. ISBN 0-89087-815-3
- Dahlheimer, Dr. Volker (2006). Kundalini Shakti: Explanation of the Seven Chakras (Video clip with words and explanative grafics ed.). 5th Level Publications.
- Florin Lowndes, 'Enlivening the Chakra of the Heart: The Fundamental Spiritual Exercises of Rudolf Steiner' ISBN 1-85584-053-7, first English edition 1998 from the original German edition of 1996, comparing 'traditional' chakra teaching, and that of C.W.Leadbeater, with that of Rudolf Steiner.
बाह्यसम्पर्काः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये Chakras सम्बन्धिताः सञ्चिकाः सन्ति। |