जगदीश शेट्टर्

(जगदीशशेट्टर् इत्यस्मात् पुनर्निर्दिष्टम्)

जगदीश शिवप्प शेट्टर् कर्णाटाकस्य उत्तरभागस्य प्रजाप्रतिनिधिः, २०वर्षाणि न्यायवादिनः वृत्तिं परिपालितवान्,भारतीयजनतापक्षस्य former समर्थः नेता, भूतपूर्वकरमन्त्री, सद्यः कर्णाटकस्य मुख्यमन्त्री अस्ति । विद्यार्थिजीवने अखिलभारतीयविद्यार्थिपरिषदः सक्रियसदस्यः सर्वदा नयकत्वगुणयुतः, सामाजिकसङ्घर्षेषु अपि भागं स्वीकारोति । राष्ट्रियस्वयंसेवकसङ्घस्य दृढानुयायी हिन्दुत्वस्य परमाभिमानी अस्ति । क्रि.श. १९९०तमवर्षतः भा.ज.प.मध्ये सक्रियकार्यकर्ता सन् क्रि.श. ११९४तः कर्णाटकस्य राजतन्त्रे विशिष्टं स्थानं मानं च रक्षितवान् ।

जगदीश शिवप्प शेट्टर्
कर्णाटकस्य २७तमः मुख्यमन्त्री ।
In office
2011-2013
Preceded by डी. वी. सदानन्द गौडः
Constituency ग्रामीणाहुब्बळ्ळि
व्यैय्यक्तिकसूचना
Born (१९५५-२-२) १७ १९५५ (आयुः ६८)"Future of Karnataka’s New CM". Archived from the original on 2012-07-24. आह्रियत 2012-07-14. 
केरूरु, बादाम्युपमण्डलम् बागलकोटेमण्डलम्, कर्णाटकराज्यम्
Political party भारतीयजनतापक्षः । (1983-2023)
Spouse(s) शिल्पा शेट्टर्
Children द्वौ पुत्रौ (प्रशान्तः, सङ्कल्पः च)
Residence हुब्बळ्ळि,धारवाडमण्डलम्, कर्णाटकराज्यम्
Website http://jagadishshettar.com
As of जुलैमासस्य १२, २०१२
Source: [१]

बाल्यं शिक्षा च सम्पादयतु

जगदीश शेट्टर् क्रि.श. १९५५तमवर्षस्य देसेम्बर्मासस्य सप्तदशमे दिने भारतस्य कर्णाटकरज्यस्य बागलकोटेमण्डलस्य बादामी इति उपमण्डलस्य करूरुग्रामे अजायत । अस्य पिता शिवप्प शिवमूर्ति शेट्टर् माता बसवण्णेम्मा च । एतेयोः दम्पत्योः चतृषु अपत्येषु ज्येष्टपुत्रः जगदीशः । अस्य द्वौ अनुजौ एका अनुजा च सन्ति । क्रि.श. १९८४तमे वर्षे शिल्पा इति कन्यां परिणीतवान् । फलरूपेण प्रशान्तः, सङ्कल्पः इति पुत्रौ अभवताम् । ज्येष्ठपुत्रस्य जगदीशस्य सर्वविधगुरुः पिता शिवप्पः एव । पितृव्यः सदाशिवः अपि गुरुस्थाने आसीत् । धारवाडमण्डलस्य हुब्बळ्ळिनगरस्य बासल् मिशन् शालायां प्राथमिकशिक्षा प्रौढशिक्षा च सम्पन्ना । तस्मिन् एव नगरे जे.बि.कामर्स महाविद्यालये बिकां पदवीं प्राप्तवान् । पश्चात् धारवाडनगरस्य कर्णाटकविश्वविद्यालयतः स्नातकोत्तरपदवीं प्राप्य जे.एस्.एस्.सक्रि अधुनिकन्यायमहाविद्यालये एल्.एल्.बि.पदवीम् अधीतवान् ।

वृत्तिजीवनम् सम्पादयतु

जगदीशा शेट्टर् पश्चान् हुब्बळिमध्ये एव २०वर्षाणि न्यायवादिनः वृत्तिं परिपालतवान् । न्यायवादी पिता एस्.एस्.शेट्टर् एव जगदीशस्य वृत्तिजीवनस्य प्रेरकशक्तिः । अस्य पिता निरन्तरं पञ्चवारं हुब्बळ्ळिधारवाडपत्तनयोः पुरप्रभुः अभवत् । जनसङ्घः इति पक्षद्वारा द्विवारम् अस्याः पुरसभायां पूज्यमहापौरः आसीत् । हुब्बळ्ळिनगरस्य नगरसहरारीवित्तकोशस्य निदेशकः ५०वर्षाणि आसीत् । जगदीशास्य प्रितृव्यः सदाशिव शेट्टर् क्रि.श. १९६७तमे वर्षे हुब्बळ्ळिनगरस्य विधानसभासदस्यः भूत्वा दक्षिणभारते प्रथमवारं जनसङ्घस्य प्रतिनिधिरभवत् । एतावति राजनीतिपृष्टभूमियुक्ते कुटुम्बे संवृद्धः जगदीशः छात्रजीवनकाले एव अखिलभारतीयविद्यार्थिपरिषदि सक्रियः अभवत् । सर्वेषु विचारेषु नायकत्वं प्राप्नोति स्म । नकेवलं शैक्षणिकक्षेत्रे प्रत्युत सामाजिकसङ्घर्षेषु अपि उन्मुखी आसीत् ।

राजनीतिप्रवेशः सम्पादयतु

अनेन सह राष्ट्रियस्वयंसेवकसङ्घस्य सक्रियकार्यकर्ता अभवत् । तेन माध्यमेन एव भारतीयजनतापक्षं (भा.ज.प) प्रविश्य क्रि.श. १९९०तमे वर्षे हुब्बळ्ळिधारवाडयमलनगरस्य भा.ज.प.घटकाध्यक्षः अभवत् । निरन्तरं चत्वारि वर्षाणि एतत् पदं परिपालितवान् । तस्य सामर्थ्यं ज्ञात्वा पक्षवरिष्टाः क्रि.सा. १९९४तमे वर्षे भा.ज.पक्षस्य धारवडमण्डलस्य अध्यक्षत्वेन न्ययोजयत् । जगदीशशेट्टर्वर्यस्य राजतन्त्रजीवने परिवर्तनं क्रि.श. १९४४तमवर्षस्य निर्वाचनस्य परिणामेन आनीतम् । तस्मिन् विधानसभानिर्वाचने हुब्बळ्ळिग्रामीणक्षेत्रतः जगदीशः १६सविरमतनाम् अन्तरेण विजयम् आप्नोत् । तद्दिनादारभ्य अद्यपर्यन्तं राजतन्त्रजीवने परावर्त्य न दृष्टवान् एव । तदारभ्य अद्यपर्यन्तम् एतेन कारणेन एव हुब्बळ्ळीग्रामीणक्षेत्रं भा.ज.पक्षस्य सुदृढकोटः एव अस्ति । विधनसभासदस्यत्वेन प्रजाप्रशंसाभाक् जगदीशः क्रि.श. १९९६तमे वर्षे भा.ज.पक्षस्य राज्याध्यक्षः अभवत् । क्रि.श. १९९९तमे वर्षे सम्भूते विधानसभानिर्वाचने २५सहस्रमतानाम् अन्तरेण विजयं प्राप्य विधानसभासदस्यः अभवत् । विधानसभायाः प्रतिपक्षस्थने समारूढः प्रशासनपक्षस्य निदेशयन् अनेकानि समाजोपयोगिकार्णाणि कारितवान् । तत्रापि विशेषतः निर्लक्षितस्य उत्तरकर्णाटकस्य ग्रमाणाम् अभिवृद्धये प्रायतत । क्रि.श. २००४तमे वर्षे २६मतानाम् अन्तरेण जित्वा विधनसभासदस्यः अभवत् । एतावतिकाले पर्याप्तां राजनीतिपरिणतिं प्राप्य क्रि.श. २००५तमे वर्षे पक्षस्य राज्याध्यक्षः अभवत् । क्रि.श. २००६तमे वर्षे जनतादलमिति पक्षेणसह संयुक्तसर्वकारे करविभागस्य मन्त्री अभवत् । क्रि.सा. २००८तमे वर्षे निर्वाचने स्वक्षेत्रस्य जनप्रियविधानसभासदस्यः भूत्वा अनिच्छान् अपि विधानसभाध्यक्षः अभवत् । नूतनविधानसभासदस्यानां कृते प्रशिक्षाकार्यागरम् अयोजितवान् । तस्मिन् कार्यक्रमे भूतपूर्वं राष्ट्रपति बहुजनप्रियम् अब्दुल् कलामस्य अयोजितवान् । तत् पश्चात् क्रि.श.२००९तमवर्षतः २०१२तमवर्षस्य जून् १२पर्यन्तं कर्णाटकराज्यस्य ग्रामीणाभिवृद्धेः पञ्चायतराज्यस्य सचिवः अभवत् ।

राजनीतियशसः सोपानानि सम्पादयतु

  • अखिलभारतविद्यार्थिपरिषदि सक्रियसेवा ।
  • राष्ट्रियस्वयंसेवकसङ्घस्य (आर्.एस्.एस्.) सदस्यः ।
  • क्रि.श. १९९०तमवर्षे पक्षस्य हुब्बळ्ळिग्रामीणघटकस्य अध्यक्षः ।
  • क्रि.श. १९९४तमवर्षे धारवडमण्डलस्य भा.ज.प.अध्यक्षः ।
  • क्रि.श. १९९६तमवर्षे भा.ज.प. राज्याध्यक्षः ।
  • क्रि.श. १९९९तमवर्षे विधानसभाप्रतिपक्षनेता ।
  • क्रि.श. २००५तमवषे भा.ज.प.राज्याध्यक्षः ।
  • क्रि.श. २००६तमवर्षे कर्णाटकसर्वकारस्य करविभागसचिवः ।
  • क्रि.श. २००८तमवर्षे कर्णाटकस्य विधानसभाध्यक्षः ।
  • क्रि.श. २००९तमवर्षे कर्णाटकस्य ग्रामीणाभिवृद्धिसचिवः ।
  • क्रि.श. २०१२तमवर्षे कर्णाटकस्य मुख्यमन्त्री ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जगदीश_शेट्टर्&oldid=482029" इत्यस्माद् प्रतिप्राप्तम्