जितेन्द्र वाघानी (जन्म 11 September 1970) कश्चन भारतीयः राजनीतिज्ञः वर्तते। सः गुजरातराज्यस्य शिक्षामंत्री। विधायकरूपेण सः गुजरातविधान-सभायां भावनगरपश्चिमस्य (विधानसभा) प्रतिनिधित्वं करोति। सः गुजरातराज्यस्य भारतीयजनतापक्षस्य अध्यक्षत्वं 2012 तः 2020 पर्यन्तम् अवहत्।

जीतेन्द्र वाघाणी
मन्त्रिमण्डलसदस्यः
गुजरातसर्वकारः
फलकम्:Centre फलकम्:Centre
शिक्षामन्त्री 16 सितम्बर 2021 - सद्यः
भारतीयजनतापक्ष-गुजरातस्य अध्यक्षः
कार्यालये
10 अगस्त 2016 – 20 जुलाई 2020
पूर्वगमः विजय रूपाणी
पादानुध्यातः सी.आर.पाटिल
गुजरातविधानसभायाः सदस्यः
इदानीन्तन
कार्यारम्भः
2012
पूर्वगमः शक्तिसिंह गोहिल
सांविधानिकक्षेत्रम् भावनगरपश्चिमः
व्यक्तिगत विचाराः
जननम् जीतेन्द्र सवजीभाई वाघाणी
(१९७०-२-२) ११ १९७० (आयुः ५३)
भावनगरम्, गुजरातराज्यम्, भारतम्[१]
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः भारतीयजनतापक्षः
पतिः/पत्नी सङ्गीता वाघाणी
अपत्यानि मीत वाघाणी (पुत्रः), भक्ति वाघाणी (पुत्री)
निवासः भावनगरम्, गुजरातराज्यम्, भारतम्
उद्योगम् राजनैतिकः, कृषकः, निर्माता, व्यापारिकः
जालस्थानम् www.jituvaghani.org

व्यक्तिगतं जीवनं सम्पादयतु

जीतेन्द्र-महोदयस्य जन्म 11 September 1970 दिनाङ्के भावनगर-मण्डलस्य वरतेज-ग्रामे अभवत्। तस्य प्राथमिकशिक्षा लाठी मध्ये अभवत्। सः न्यायविषयस्य विद्यार्थी अस्ति, बालकालात् सः राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः वर्तते। [२]

जीतेन्द्र-महोदयः 2002 वर्षस्य गुजरात-राज्यस्य विधानसभा-निर्वाचने भावनगर-नगरस्य दक्षिणीविधानसभाक्षेत्रस्य वरिष्ठ-कांग्रेस-नेतुः शक्तिसिंह गोहिल-महोदयस्य विरुद्धं निर्वाचने भागं स्वीकृत्य राजनैतिक-जीवनस्य आरम्भम् अकरोत्। परन्तु, सः 7,000 तः अधिक-मतानाम् अन्तरेण पराजितः जातः।[३] जीतेन्द्र-महोदयः 2012 तमे वर्षे भावनगरस्य (पश्चिम)-विधानसभा-क्षेत्रात् निर्वाचने भागम् अवहत्। एतस्मिन् वर्षे सः सफलः जातः। विशेषरूपेण सः सम्पूर्ण-सौराष्ट्रसौराष्ट्रक्षेत्रे सर्वाधिक-अन्तरेण विजयं प्राप्तवान्।[४] 2017 तमवर्षे सः गुजरात-निर्वाचने कांग्रेस-दलस्य दिलीप सिंह गोहिल इत्यस्य विरुद्धं भावनगरपश्चिमक्षेत्रात् भागम् अवहत्। पुनः सः भावनगर-पश्चिम-क्षेत्रात् 4,000 मतैः विजयं प्राप्तवान्। [५]

भाजप-दलस्य पूर्वप्रदेशाध्यक्षः विजय रूपाणी आसीत्, सः गुजरातराज्यस्य मुख्यमंत्रित्वेन नियुक्तः जातः, अतः अगस्त 2013 तमे जीतेन्द्र-महोदयः भाजप-दलस्य गुजरात-प्रदेश-अध्यक्षत्वेन नियुक्तः जातः। [६]

निर्वाचनेतिहासः सम्पादयतु

वर्षम् पदः निर्वाचनक्षेत्रम् Party Opponent Result
2007 एम.एल.ए. भावनगरदक्षिणः भाजप Shaktisinh Gohil Lost
2012 भावनगरपश्चिमः Mansukhbhai Kanani Won
2017 Dilipsinh Gohil Won

सन्दर्भाः सम्पादयतु

  1. "Vijay Rupani: Member's Web Site". Internet Archive. 30 September 2007. Archived from the original on 30 September 2007. आह्रियत 5 August 2016.  Unknown parameter |url-status= ignored (help); Unknown parameter |df= ignored (help)
  2. http://deshgujarat.com/2016/08/10/jitu-vaghani-becomes-gujarat-bjp-president/
  3. "संग्रह प्रतिलिपि". Archived from the original on 2017-04-13. आह्रियत 2022-03-20. 
  4. "संग्रह प्रतिलिपि". Archived from the original on 2017-04-13. आह्रियत 2022-03-20. 
  5. "Gujarat BJP chief Jitu Vaghani retains Bhavnagar (West) seat". The Economic Times. 2017-12-18.  Unknown parameter |access-date= ignored (help)
  6. http://deshgujarat.com/2016/08/10/jitu-vaghani-becomes-gujarat-bjp-president/
"https://sa.wikipedia.org/w/index.php?title=जीतेन्द्र_वाघाणी&oldid=486253" इत्यस्माद् प्रतिप्राप्तम्