श्लोकः सम्पादयतु

 
गीतोपदेशः
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः सम्पादयतु

ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥

अन्वयः सम्पादयतु

ज्ञानं कर्म च कर्ता च गुणभेदतः त्रिधा एव गुणसङ्ख्याने प्रोच्यते । तानि अपि यथावत् शृणु ।

शब्दार्थः सम्पादयतु

गुणभेदतः = सत्त्वादिगुणभेदात्
त्रिधा = प्रकारत्रयेण
गुणसङ्ख्याने = साङ्ख्यशास्त्रे
यथावत् = यथातथम्
प्रोच्यते = कथ्यते ।

अर्थः सम्पादयतु

ज्ञानं कर्म कर्ता च सत्त्वादिगुणभेदात् त्रिप्रकारः इति साङ्ख्यशास्त्रे प्रतिपादितम् । तदेव यथावत् निरूपयामि, शृणु ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ज्ञानं_कर्म_च_कर्ता_च...&oldid=418547" इत्यस्माद् प्रतिप्राप्तम्