तच्च संस्मृत्य संस्मृत्य...
श्लोकः सम्पादयतु
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
- विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तसप्ततितमः(७७) श्लोकः ।
पदच्छेदः सम्पादयतु
तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥
अन्वयः सम्पादयतु
राजन् ! हरेः अत्यद्भुतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।
शब्दार्थः सम्पादयतु
- हरेः = विष्णोः
- विस्मयः = आश्चर्यम् ।
अर्थः सम्पादयतु
राजन् ! हरेः अत्युतं च तत् रूपं स्मृत्वा स्मृत्वा (स्थितस्य) मम महत् आश्चर्यं भवति । पुनःपुनः सन्तुष्यामि च ।