अयं तण्डुलः भारते वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः अस्ति । अयं तण्डुलः आङ्ग्लभाषायां Rice इति उच्यते । भारते प्रायः सर्वत्र तण्डुलः उपयुज्यते एव । दक्षिणभारते तु भोजनम् ओदनं विना न भवति एव । ओदनं तण्डुलेन एव सज्जीक्रियते । इदानीं प्रायः जगति सर्वत्र तण्डुलस्य उपयोगः अस्ति एव । अनेन तण्डुलेन न केवलम् ओदनं क्रियते अपि तु पायसं, दध्यन्नं, चित्रान्नम्, आम्लान्नं (पुळियोगरे), दोसा, इड्ली, रोटिका, शष्कुली, यवागूः, पर्पटः, अवदंशः इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । केरले तण्डुलेन “पुट्टु” इत्याख्यम्, आन्ध्रप्रदेशे “पोङ्गल्” इत्याख्यं खाद्यविशेषं निर्मान्ति । तण्डुले बहवः विधाः सन्ति । तेषां वर्णस्य, गात्रस्य, गुणस्य च अनुगुणं प्रभेदाः कृताः सन्ति । तेषु केचन :-

तण्डुलाः
व्रीहिः
कपिशतण्डुलाः
सस्याग्रे लम्बमानाः व्रीहयः
क्षेत्रे व्रीहिसस्यानां कर्तनम्
विश्वे व्रीहिं वर्धमानाः देशाः
लघ्वाकारकाः तण्डुलाः
रक्तवर्णस्य तण्डुलाः
श्वेततण्डुलाः
वन्यतण्डुलाः
विभिन्नतण्डुलाः
तण्डुलप्रभेदः
१. रक्तशालितण्डुलः – रक्तवर्णीयः तण्डुलः । (कन्नडभाषायां “केम्पक्कि” इति वदन्ति ।)
२. महातण्डुलः – महागात्रः तण्डुलः । (कन्नडभाषायां “दप्पक्कि” इति वदन्ति ।)
३. कलमशालितण्डुलः – अङ्कुरयुक्तः तण्डुलः । (कन्नडभाषायां “मोळके अक्कि” इति वदन्ति ।)
४. तूर्णकः – शीघ्रं वर्धमानः तण्डुलः ।
५. शकुनाहृततण्डुलः – पक्षीन् आकर्षति ।
६. सारामुखतण्डुलः – नद्याः जलेन वर्धितः तण्डुलः ।
७. दीर्घशुकतण्डुलः – दीर्घेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
८. रोध्रशूकतण्डुलः – रक्तवर्णेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
९. सुगन्धिकः – सुगन्धयुक्तः तण्डुलः ।
१०. पुण्ड्रः – श्वेत–पीतमिश्रितवर्णीयः तण्डुलः ।
११. पाण्डुः – श्वेतवर्णीयः तण्डुलः ।
१२. पुण्डरीकः – श्वेतकमलस्य वर्णस्य तण्डुलः ।
१३. प्रमोदः – सुगन्धयुक्तः तण्डुलः ।
१४. गौरः – गौरवर्णस्य तण्डुलः ।
१५. सारिवा – स्त्रीसारपक्षिणः वर्णस्य तण्डुलः ।
१६. काञ्चनः – स्वर्णस्य वर्णस्य तण्डुलः ।
१७. महिषशूकः – कृष्णवर्णस्य स्थूलव्रीहेः तण्डुलः ।
१८. दूषकः –
१९. कुसुमाण्डकः – पुष्पस्य अन्तः विद्यमानस्य बीजस्य आकारकः तण्डुलः ।
२०. लाङ्गलः – हलस्य आकारकः तण्डुलः ।
२१. लोहवालः – अयसः गन्धयुक्तः तण्डुलः ।
२२. कर्दमः – पङ्कस्य वर्णस्य तण्डुलः ।
२३. शितभीरुकः - उष्णवातावरणे वर्धमानः तण्डुलः ।
२४. पतङ्गः – अग्नेः वर्णस्य तण्डुलः ।
२५. तपनीयः – अग्नौ पचनेन स्वर्णवर्णं प्राप्तः तण्डुलः ।
एतान् विहाय इतोऽपि बहुविधाः तण्डुलाः सन्ति एव । एते केचन प्रसिद्धाः तण्डुलप्रभेदाः तावदेव ।


आयुर्वेदस्य अनुसारम् अस्य तण्डुलस्य स्वभावः सम्पादयतु

अयं तण्डुलः मधुररुचियुक्तः । पचनार्थं लघु, लेखनः, तैलांशयुक्तः च । वृष्टिकाले एकत्र स्थिते जले यः तण्डुलः वर्धते सः “शाली” इति उच्यते । शैत्यकाले बीजवपनं कृत्वा घर्मकाले प्राप्यमाणः, अल्पेन एव जलेन वर्धमानः तण्डुलः “व्रीहिः” इति उच्यते । शालितण्डुलेषु रक्तशाली श्रेष्ठः, तथैव व्रीहिषु पुष्टिकशाली (६० दिनेषु वर्धमानः पचनार्थम् अत्यन्तं लघु तण्डुलः) च श्रेष्ठः ।

व्रीहिः सम्पादयतु

 
व्रिहिः

व्रीहिः एकः धान्यप्रभेदः अस्ति। व्रीहिः भारतवर्षे पूर्व-एषियायाम् अफ्रिकायाम् इटल्याम् उत्तरामेरिकायाः पश्चिमसमुद्रतीरे च अधिकतया उपयुज्यते । स्पैन्-देशे जनाः व्रीहिम् ओलिव्-तैलेन भर्जयित्वा खादन्ति। जपान्-देशे जनाः व्रीहेः साकी-मद्यम् लभन्ते। व्रीहितृणानि उष्णस्थानेषु वर्धन्ते।


“स्वादु पाकरसाः स्निग्धाः वृष्या बद्धाल्पवर्चसः ।
कषायानुरसाः पथ्या लघवो मूत्रलाहिमाः ॥“ (अ.हृ.सू ६)


१. तण्डुलः वीर्यवर्धकः, मूत्रप्रवर्तकः, अल्पमलकरः च ।
२. तण्डुलः मलस्तम्भकः, स्निग्धः, पचनार्थं लघु च ।
३. शाली इत्याख्यः तण्डुलः सदा पथ्यः ।
४. रोगिभ्यः अल्पावधौ वर्धमानः तण्डुलः एव दातव्यः ।
५. “महाव्रीहिः”, “कृष्णव्रीहिः”, “पारावतकः”, “बेनः”, “शारदः”, “पौष्टिकव्रीहिः” इत्यादिषु व्रीहिषु पौष्टिकव्रीहिः त्रिदोषहरः , शरीरस्य स्थैर्यवर्धकः, रुचिकरः च ।
६. पौष्टिकव्रीहिषु अपि गौरवर्णस्य व्रीहिः अत्यन्तं श्रेष्ठः ।
७. अपौष्टिकाः अन्ये तण्डुलाः पित्तकारकाः, आम्लविपाकाः, पचनार्थम् अपि जडाः, मूत्रस्य मलस्य च वर्धकाः च ।
८. यवः इव दृश्यमानाः स्वेदयुक्ताः, धूमवर्णीयाः तण्डुलाः उष्णस्वभावयुक्ताः, कफवर्धकाः, पित्तवर्धकाः, अत्यधिकतैलांशयुक्ताः, पचनस्य अनन्तरम् आम्लाः भवन्ति च । एतादृशाः तण्डुलाः न उपयोक्तव्याः ।
९. दग्धमृत्तिकायां वर्धितः तण्डुलः पचनार्थं लघु, कषायरुचियुक्तः, कफहरः, मलस्य मूत्रस्य च प्रवर्तकः च ।
१०. क्षेत्रेषु वर्धितः तण्डुलः अत्यन्तं पुष्टिकरः, कफवर्धकः, वीर्यवर्धकः, वातस्य पित्तस्य च निवारकः, पचनार्थं जडः, बुद्धिवर्धकः च ।
११. कूपस्य जलेन वर्धितः तण्डुलः मधुरः, बलवर्धकः, लेखनः, अल्पमलकरः, कफकरः, पित्तहरः, वीर्यवर्धकः च ।
१२. सामान्यायां भूमौ वर्धितः तण्डुलः रुचिकरः, पित्तस्य कफस्य च निवारकः, बुभुक्षायाः वर्धकः, तिक्तमिश्रितकषायरुचियुक्तः, वातकरः च ।
१३. नूतनः तण्डुलः पचनार्थं जडः, वीर्यवर्धकः च ।
१४. पुरातनः तण्डुलः आरोग्यार्थं हितकरः । एकवर्षस्य अनन्तरम् उपयुज्यते चेत् एव वरम् ।
१५. पुरातनं व्रीहिम् एव सङ्गृह्य पुनः वर्धितः तण्डुलः गुणकारी, पाचकः, बलवर्धकः, लेखनः, मलस्तम्भकः च ।
१६. तण्डुलेन निर्मितः यवागूः बुभुक्षां वर्धयति, स्वेदं जनयति, पिपासां शमयति, ज्वरं च निवारयति ।
१७. क्षीरेण निर्मितम् ओदनं बलकरं, पचनार्थं जडं च ।
१८. तण्डुलं भर्जयित्वा निर्मितम् ओदनं रोगनिवारकं, बलवर्धकं च ।‎
"https://sa.wikipedia.org/w/index.php?title=तण्डुलाः&oldid=389776" इत्यस्माद् प्रतिप्राप्तम्