१६ शतके जाता तिरुमलाम्बा(Thirumalamba) विजयनागरराजस्य अच्युतदेवस्य पत्नी । ‘वरदाम्बिकापरिण्यः' नाम चम्पूग्रन्थः एतया लिखितः । ग्रन्थस्य अन्ते एषा स्वविषये उक्तवती अस्ति इत्यतः एतस्याः देशकालादिविषयाः स्फुटतया ज्ञायन्ते । वरदाम्बिकापरिणयः कश्चन ऐतिहासिकः ग्रन्थः । वरदाम्बा एतस्याः सपत्नी भवति । तथापि उदारहृदया एषा तां काव्यदृष्ट्या पश्यन्ती रमणीयतया वर्णितवती अस्ति । ललितपदरचना, वर्णनाचातुर्यम् इत्यादयः एतस्याः काव्यस्य वैशिष्ट्यम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तिरुमलाम्बा&oldid=444056" इत्यस्माद् प्रतिप्राप्तम्