थामस् एडिसनस्य नाम वयं सर्वे जानीमः एव । सः कदाचित्‌ चिन्तितवान्‌ 'मया मतदानपञ्जीकरणयन्त्रं निर्मातव्यम्‌' इति । निरन्तरचिन्तनेन सः तादृशस्य यन्त्रस्य निर्माणे समर्थः जातः एव । यन्त्रस्य स्वाम्यम्‌ अपि सम्पादितं तेन । एतस्मात्‌ मया प्रभूतं यशः सम्पाद्येत इति अभावयत्‌ सः । राष्ट्राध्यक्षाय तत्‌ यन्त्रं दर्शयितुं सः वाषिङ्गटन्‌ नगरं गतवान्‌ । संसदः सभाध्यक्षः च तेन दृष्टः । स्वस्य यन्त्रस्य वैशिष्ट्यं कार्यनिर्वहणसामर्थ्यं च सः विवृतवान्‌ अध्यक्षस्य पुरतः । एतस्य उपयोगतः मतदानविलम्बस्य दोषः दूरीकर्तुं शक्यः । एकस्य क्षणस्य विलम्बम् अपि एतत्‌ यन्त्रं न सहते । मतदाने एकोऽपि दोषः न भवति एतस्य उपयोगतः इति अवदत्‌ सः । सर्वे अपि सश्रद्धं श्रुत्वा तदीयं प्रयत्नं प्रशस्तवन्तः । राष्ट्राध्यक्षः - 'यन्त्रमिदं संसद्भवने यदि योज्येत तर्हि मतदाने शीघ्रता भवेत्‌ । किन्तु एतत्‌ यन्त्रम् अत्र प्रयोजनाय न भवेत्‌ । यतः राजनीतिपुरुषाः विलम्बम् एव इच्छन्ति । चर्चानिर्वहणादिनिमित्तं कालविलम्बः आवश्यकः एव भवति' इति उक्त्वा यन्त्रस्वीकारं निराकृतवान्‌ । एतस्य श्रवणात्‌ एडिसनः विषण्णवदनः जातः । गुणः अपि अत्र दोषाय जातः इति चिन्तयन्‌ सः निर्णीतवान्‌ इतः परं मया उच्चस्तरीयेभ्यः किमपि न करणीयम्‌ । यः यः आविष्कारः क्रियेत सः सामान्यानां जनानां निमित्तम् एव स्यात्‌ इति । अग्रे तेनैव एडिसन्‌ महोदयेन विद्युद्दीपस्य आविष्कारः कृतः ।

थामस् एडिसन्
"Genius is one percent inspiration, ninety-nine percent perspiration."
– Thomas Alva Edison, Harper's Monthly (September 1932 edition)
जन्म Thomas Alva Edison
(१८४७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११)११, १८४७
Milan, Ohio, U.S.
मृत्युः १८, १९३१(१९३१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१८) (आयुः ८४)
West Orange, New Jersey, U.S.
शान्तिस्थानम् Thomas Edison National Historical Park Edit this on Wikidata
देशीयता American
शिक्षणम् self educated with visits to the Cooper Union
शिक्षणस्य स्थितिः Cooper Union Edit this on Wikidata
वृत्तिः Inventor, businessman
धर्मः Deist
भार्या(ः) Mary Stilwell (1871-1884)
Mina Miller (1886-1931)
अपत्यानि Marion Estelle Edison (1873–1965)
Thomas Alva Edison Jr. (1876–1935)
William Leslie Edison (1878–1937)
Madeleine Edison (1888–1979)
Charles Edison (1890–1969)
Theodore Miller Edison (1898–1992)
पितरौ Samuel Ogden Edison, Jr. (1804–1896)
Nancy Matthews Elliott (1810–1871)
सम्बन्धिनः Lewis Miller (father-in-law)
हस्ताक्षरम्
A Day with Thomas Edison (1922)
थामस् एडिसन्

बाह्यसम्पर्कतन्तुः सम्पादयतु

Locations
Information and media
"https://sa.wikipedia.org/w/index.php?title=थामस्_एडिसन्&oldid=480444" इत्यस्माद् प्रतिप्राप्तम्