दीग – जलमहल् राजस्थानराज्यस्य दीग किञ्चन अपूर्वस्थानम् अस्ति । भरतपुरराजानां ग्रीष्मकालीनं निवासस्थानमासीत् । भरतपुरतः समीपे एव एतदस्ति । नगरादबहिः विशालं दुर्गम् अस्ति । तत्पार्श्वे समतलप्रदेशे एतत् भवनम् अस्ति । परितः सरोवरम् अस्ति ।

दीग
नगरम्
दीगराजगृहम् अथवा दीगजलमहल्
दीगराजगृहम् अथवा दीगजलमहल्
देशः  भारतम्
राज्यम् राजास्थानम्
मण्डलम् भरतपुरम्
Elevation
१७४ m
Population
 (2001)
 • Total ४०,८२६
भाषाः
 • Official हिन्दी
Time zone UTC+5:30 (IST)

निर्माणम् सम्पादयतु

दीगदुर्गम् औदमहाराजानां स्वकीया सम्पत्तिः अस्ति । क्रिस्ताब्दे १७५६ समये जाटवंशीयानां प्रभुः राजा सूरजमल् एतत् वशीकृतवान् । जलमहल् निर्माणमपि कारितवान् । दीगनगरं परितः उद्यानानि च निर्मितवान् । जलमहल् अतीव श्रेष्ठं वास्तुशिल्पमस्ति । राजा सूरजमल् जलमहल् भवनस्य आरम्भं कृतवान् । निर्माणस्य समाप्तिः जवहरसिङ्गमहाराजस्य प्रशासनकाले क्रिस्ताब्दे १७६४ -६१ समये अभवत् । आदौ अत्र ”’सिंहपोल”’ नामकं प्राङ्गणं प्रविशामः । अत्र अरेबियन् शैली दृश्यते । अर्धवृत्ताकारके द्वरे पार्श्वे सिंहशिल्पे स्तः । द्वारमण्डपपार्श्वे चतुरस्राकारकं प्राङ्गणं उद्यानं च विराजेते । सरोवरतः जलानयनव्यवस्था अस्ति । वाटिकायाः चतसृषु दिक्षु चत्वारि भवनानि सन्ति । ”’नन्दभवनं”’ ””कृष्णभवनं”’ ”’केशवभवनं”’ ”’ गोपालभवनं”’ च इति भवनानां नामानि सन्ति । पञ्चमं श्रावणभवनम् अपि अत्र अस्ति । राजा सूरजमल् वर्षाकालं बहु इच्छति स्म । अतः वर्षकालस्य आनन्दम् आस्वादयितुं एतत् भवनं निर्मितवान् । भवनस्य निर्माणं शिलाभिः इष्टिकाभिः वालुकामिश्रणैः च कृतम् अस्ति । बहिर्भागे शिलाफलकानि स्थापितानि । तेषु उत्तमरुपेण चित्राणि चित्रिताणि सन्ति । जलामहल् पुरतः जलोत्सांसि सन्ति । परितः वाटिकाः सन्ति । एते मोगलवंशीयानां स्वर्गस्य कल्पनानुसारं कृताः सन्ति । जलमहल् भवनस्य एकः पार्श्वभागः गोपालसागरः इति ख्यातः अस्ति । ८८ मीटर् चतस्राकारः एषः । अस्य समीपे स्नानस्थानानि सन्ति । अत्र विहारार्थं मीनानां गृहणं प्रवासिजनानाम् आनन्दाय भवति । गोपालसागरः ३०० पादमितः दीर्घः ६० पादमितः विस्तृतः च अस्ति । राजवंशीयाः अत्र निवसन्ति । अमृतशिलानिर्मिता आन्दोलिका अत्र अस्ति । अधोभागे भोजनशाला अस्ति । स्वकीयं सभाभवनं पार्श्वे एव अस्ति । भोजनोत्पीठिकाः अष्टजनैः उपवेष्टुं योग्याः सन्ति । अतीव सुन्दरकुशलकलायुक्ताः उत्पीठिकाः अपूर्वाः सन्ति । अत्र उपविश्य एव भोजनं कुर्वन्ति । पुरतः केशवभवने सर्वत्र वर्षाकालस्य चित्रणम् अस्ति । आवर्षं वर्षकालं द्रष्टुं सूक्तं वातावरणम् अत्र निर्मितवन्तः ।

वाहनमार्गः सम्पादयतु

भरतपुरतः ३५ .कि.मी । देहलीतः १८० कि.मी । वसत्याः कृते अशेकफारेस्टलाड्ज्, गोविन्दनिवासगेस्ट हौस् स्तः ।

"https://sa.wikipedia.org/w/index.php?title=दीग&oldid=356741" इत्यस्माद् प्रतिप्राप्तम्