कर्णाटकराज्ये कोडगुमण्डलस्य दक्षिणे भागे नागरहोळे-अभयारण्यमस्ति । पूर्वं कोडगुमण्डलस्य आयुक्तः बेडिमहोदयः अभयारण्यस्य आरम्भं कृतवान् । अस्य नाम राजीवगान्िराष्ट्रियोद्यानम्इत्यपि अस्ति । अस्य स्थापना क्रिस्ताब्दे १९५५ तमे वर्षे अभवत् । एतत् स्थलं त्रयाणां पर्वतश्रेणीप्रदेशानां समूहात्मकं स्थानमस्ति । अस्य विस्तारः ६४३ चतुरस्र कि.मी. मितः । सर्वत्र महावृक्षाः सन्ति । हेब्बळ्ळस्थले गजाः अधिकाः सन्ति । भल्लूकाः मृगाः साम्बारमृगाः वनमहिषाः शृगालाः व्याघ्राः अत्र सन्ति । मृगाः समूहे इतस्ततः सञ्चरन्ति । सार्धद्विशताधिकजातीयाः पक्षिणः अत्र निवसन्ति । अभयारण्ये प्राणिपक्षिवीक्षणार्थं विशेषवाहनव्यवस्था कल्पिता अस्ति । वीक्षकान् वाहनैः नीत्वा वन्यप्रदेशान् मृगान् च दर्शयन्ति । वनरक्षकानां हस्ते निस्तन्तुसाधनं भवति । मुख्यकार्यालयतः सततं सम्पर्कः भवति । प्राणिपक्षिविक्षणार्थं वीक्षणगोपुराणि अपि सन्ति ।

मार्गः सम्पादयतु

बेङ्गळूरुतः २५६ कि.मी । मैसूरुतः ९६ कि.मी विराजपेटेतः ६७ कि.मी । श्रीमङ्गलतः ९ कि.मी । अत्र जूनमासतः सप्तम्बरमासपर्यन्तं प्रवेशः नास्ति । सायङ्काले ६ वादनतः प्रातः ६ वादनपर्यन्तं मार्गेषु वाहनसञ्चारः निषिध्दः अस्ति । प्राणिपक्षिवीक्षणार्थं प्रवेशकालः प्रातः ६ वादनतः ८वादनम् / सायं ३ वादनतः ५.३० वादनम् । सन्दर्शकानां वसत्याः कृते कावेरी, कबिनी, गङ्गोत्री नामकानि सर्वकारीयानि वसतिगृहाणि सन्ति । उपाहार-वसति गृहाणि (रेसार्ट्) ३२ कि.मी दूरे सन्ति । मैसूरुमडिकेरीतः वाहनसौकर्यम् अस्ति । दूरम् ९० कि.मी यावत् ।

 
गजानां जलविहारः
 
हरिणः मयूरः च
"https://sa.wikipedia.org/w/index.php?title=नागरहोळे_अभयारण्यम्&oldid=370749" इत्यस्माद् प्रतिप्राप्तम्