इदं निर्गुण्डिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अस्य सस्यस्य पर्णेषु वर्णरहितः, गन्धयुक्तः, भाष्पीभवनयोग्यः कश्चन तैलांशः, तथा च “रेसिन्” नामकः अंशः च भवतः । अस्य फलस्य बीजे “आर्ग्यानिक् आसिड्”, “मेलिक् आसिड्”, अत्यल्पेन प्रमाणेन क्षारपदार्थः च भवन्ति । अस्य निर्गुण्डिसस्यस्य पर्णं, मूलं, पुष्पं, बीजं चापि औषधत्वेन उपयुज्यन्ते । अस्य सस्यस्य बीजेभ्यः तैलम् अपि निर्मीयते ।

निर्गुण्डिसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Lamiaceae
वंशः Vitex
जातिः V. negundo
द्विपदनाम
Vitex negundo
L.
पर्यायपदानि
  • Vitex cannabifolia Siebold & Zucc.
  • Vitex incisa Lam.
  • Vitex incisa var. heterophylla Franch.
  • Vitex negundo var. heterophylla (Franch.) Rehder

इतरभाषासु अस्य निर्गुण्डिसस्यस्य नामानि सम्पादयतु

इदं निर्गुण्डिसस्यम् आङ्ग्लभाषया vitex Negundo इति उच्यते । इदं हिन्दीभाषया“सम्बालु”, “निन्धुवार”, “मेलुडि” इति वा उच्यते । तत् सस्यं तेलुगुभाषया“तेल्लावाबली” अथवा “बावली” इति, तमिळ्भाषया “नोच्चि” इति, मलयाळभाषया “करिनोच्चु” इति, मराठीभाषया“लिङ्गड्” अथवा “निगड्” इति, कन्नडभाषया“लेक्के” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य निर्गुण्डिसस्यस्य प्रयोजनानि सम्पादयतु

अस्य निर्गुण्डिसस्यस्य रसः कटुः, तिक्तः, कषायः च । सः उष्णवीर्यः, विपाके कटुः , लघुः च । १. इदं निर्गुण्डिसस्यं बुभुक्षां वर्धयति, वेदनां निवारयति च । २. इदं कफं, वातं च परिहरति । ३. निर्गुण्डिसस्यं मूत्रम् आवर्तं च वर्धयति । ४. अस्य उपयोगेन शोथः, विषं चापि अपगच्छति । ५. इदं ज्वरम्, आमवातं, कासम्, अजीर्णं च निवारयति । ६. अस्य उपयोगेन महिलानां श्वेतस्रावः, चर्मरोगः, व्रणः च अपगच्छति । ७. पादे ज्वलनं जायते चेत् अस्य निर्गुण्डिसस्यस्य पर्णानि बद्धव्यानि । ८. शिरोवेदनायां सत्याम् अस्य पर्णानि सम्पेष्य लेपनीयानि। अथवा अस्य पुष्पस्य चूर्णं नस्यवत् नासिकया जिघ्रातव्यम् । ९. कीलवेदनायां, शोथे, व्रणे, चर्मरोगेषु च अस्य मूलेभ्यः अथवा पर्णेभ्यः निर्मितं तैलम् उपयोक्तव्यम् । १०. कर्णवेदनायाम् अपि अस्य तैलं कर्णे स्थाप्यते । ११. कर्णस्रावः जायते चेत् अस्य तैलं मधुना सह कर्णे स्थापनीयम् । १२. ज्वरावसरे शरीरात् दुर्गन्धः निस्सरति चेत् शरीरे अस्य कषायस्य लेपनेन दुर्गन्धः निर्गच्छति । ज्वलनम् अपि अपगच्छति । कषायस्य पानम् अपि शक्यते । १३. “सैयाटिक” (Sciatica) इत्यस्मिन् नाडीरोगे अपि अस्य कषायं पातुं दीयते ।

"https://sa.wikipedia.org/w/index.php?title=निर्गुण्डिसस्यम्&oldid=431906" इत्यस्माद् प्रतिप्राप्तम्