फलकम्:मुख्यपृष्ठं - सुभाषितम्

(फलकम्:मुख्यपृष्ठं/ सुभाषितम् इत्यस्मात् पुनर्निर्दिष्टम्)
जून् २०२४
रविवासरः
११:३२ UTC
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि।

छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥

सु.भा. - सज्जनप्रशंसा (४९/११०)

लोके तावत् मनुष्यस्य एषः स्वभावः यत् यदा सः स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा सः कुपितः भवेत्, दु:खितो वा भवेत्। किन्तु सत्पुरुषाणां स्वभावः न तादृशः। ते सर्वदा परोपकारे एव निरताः सन्तः स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति। तत्कथमिति कविः एकेन उदाहरणेन दर्शयति।

यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति।
सञ्चिका:सुजनो न याति.wav