अयं बीभीतकीवृक्षः भारते वर्धमानः कश्चन् वृक्षविशेषः । अयं वृक्षः सर्वेषु प्रदेशेषु वर्धते । अयं बीभीतकीवृक्षः आकारेण माहान् वृक्षः । अस्य पर्णानि किञ्चित् प्रमाणेन वृत्ताकारकाणि इव भवन्ति । अस्य वृक्षस्य अपक्वानि फलानि गुच्छरूपेण भवन्ति । अस्य अपक्वानि फलानि औषधत्वेन उपयुज्यते । अस्मिन् २१.४ % “ट्यानिक्” नामकः अंशः भवति । तथैव बि-सिटोस्टेराल् गैलिक् आसिड्, चेबुलेजिक् आसिट्, ग्लूकोस्, ग्यालेक्टोस्, फ्रक्टोस्, रैमनोज् इत्यादयः अंशाः अपि भवन्ति ।

बिभीतकीवृक्षः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Myrtales
कुलम् Combretaceae
वंशः Terminalia
जातिः T. bellirica
द्विपदनाम
Terminalia bellirica
(Gaertn.) Roxb.

इतरभाषाभिः अस्य बीभीतकीवृक्षस्य नामानि सम्पादयतु

 
Bahera (बिभीतकी bellirica) फलानि

अयं बीभीतकीवृक्षः आङ्ग्लभाषया“बेल्लङ्क् मैरोबलन्” इति उच्यते । अस्य वृक्षस्य सस्यशास्त्रीयं नाम अस्ति Terminalia Belirica इति । अयं हिन्दीभाषया“बहेडा” इति, तेलुगुभाषया“ताडी” इति, बेङ्गालीभाषया“बयडा” इति, कन्नडभाषया“तारे कायि” इति च उच्यते ।  

आयुर्वेदस्य अनुसारम् अस्य बीभीतकीवृक्षस्य प्रयोजनानि सम्पादयतु

अस्याः बीभीतक्याः रसः कषायः । अस्याः गुणः रूक्षः, लघु च । इयम् उष्णवीर्ययुक्ता । विपाके मधुरा भवति । अस्याः अपक्वस्य फलस्य बाह्यः आभ्यन्तरः च उपयोगः क्रियते । १. इयं बीभीतकी त्रिदोषहरा । (वातः, पित्तं, कफः च) २. अस्याः बीभीतक्याः फलं शोथं वेदनां च परिहरति । शोथस्य वा वेदनायाः वा स्थाने अस्य फलस्य लेपः क्रियते । ३. अस्याः बीजात् निर्मितं तैलं चर्मरोगेषु, श्वेतकेशेषु च उपयुज्यते । इदं तैलं अपि शोथं वेदनां च निवारयति । ४. व्रणात् रक्तस्रावः जायमानः अस्ति चेत् अस्याः चूर्णस्य लेपनेन रक्तस्रावः स्थगितः भवति । ५. सामान्येषु दौर्बल्येषु, विशेषतया रसस्य, रक्तस्य, मांसस्य, मेदसः च विकारेषु च अस्याः उपयोगः हितकरः । ६. अस्याः बीभीतक्याः अर्धपक्वं फलं मलबद्धतां निवारयति । ७. अस्याः शुष्कं फलम् अतिसारस्य प्रवाहिकायाम् उपयुज्यते । ८. प्रतिदिनम् अस्याः बीभीतक्याः एकस्य बीजस्य सेवनेन निश्शक्तिः अपगच्छति । ९. इयं मृदु वीरेचिका अपि । १०. अनया बीभीतक्या निर्मितं “त्रिफलाचूर्णं” ५ ग्रां – १० ग्रां यावत् प्रतिदिनं रात्रौ शयनावसरे चषकमितेन दुग्धेन सह सेवनम् अपि बहु उपयोगकरम् ।

"https://sa.wikipedia.org/w/index.php?title=बिभीतकीवृक्षः&oldid=461490" इत्यस्माद् प्रतिप्राप्तम्