भारतदेशे किञ्चन राज्यम् अस्ति कर्णाटकराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बीदरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बीदरनगरम् । अस्य मण्डलस्य पञ्चसु उपमण्डलेषु अन्यतमम् अस्ति बीदर-उपमण्डलम्। बीदर-उपमण्डलस्य केन्द्रम् अपि बीदरनगरम्।

Bidar

ಬೀದರ್
नगरम्
बीदरदुर्गस्य प्रवेशद्वारम्
बीदरदुर्गस्य प्रवेशद्वारम्
देशः भारतम्
राज्यम् कर्णाटकम्
वलयः बयलुसीमे
मण्डलम् बीदर
Government
 • Deputy Commissioner Dr. PC Jaffer IAS
Area
 • Total ४३ km
Elevation
६१४ m
Population
 • Total १,७०,२०४
 • Density ४,०००/km
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
585 401
Telephone code 91 8482
Vehicle registration KA38
Website www.bidarcity.gov.in

पूर्वेतिहासः सम्पादयतु

पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति । कर्णाटकराज्ये स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नाम-- नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् । नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति ।

"https://sa.wikipedia.org/w/index.php?title=बीदरनगरम्&oldid=332965" इत्यस्माद् प्रतिप्राप्तम्