महाबळेश्वरम्

महाबलेश्वर

महाबलेश्वर –गिरिधाम, वीक्षणस्थानानि (०२१६८) महाराष्ट्रराज्ये स्थित अपूर्वं गिरिधाम एतत् । पुराण्काले महाबलेः राक्षसस्य आवारुस्थानमासीत् । आङ्ग्लानां प्रशासनकाले ग्रीष्मकालिकप्रशासनिककेन्द्रम् आसीत् । इतिहासानुसारं शिवाजी अत्र दुर्गं निर्मितवान् आसीत् । मोगल् सेनापतिना अफझलखानेन सह शिवाजी युद्धमपि कृतवान् । मल्लयुद्धे अफझलखानं मारितवान् । तस्य स्मरणार्थम् अफझलस्य स्मारकं निर्मितम् अस्ति । अत्र पञ्चगङ्गादेवालयः अथवा कृष्णाबायीदेवालयः दर्शनीयः अस्ति । कृष्णानद्याः तथा इतरचतस्रूणां नदीनाम् उगमः अत्र अस्ति । एतत् गिरिधाम सागरस्तरतः ४५०० पादोन्नते प्रदेशे अस्ति । सर् जान् मालकमहोदयः क्रिस्ताब्दे १८५८ तमे वर्षे एतत् गिरिधाम ज्ञातवान् । गिरिधाम्नः उपरिष्टात् दर्शनम् अतीव सन्तोषाय भवति । अत्र अनेकानि वीक्षणस्थानानि सन्ति । अर्थर्स् सीट्,, हार्स् शू पायिण्ट्, पार्सिपायिण्ट् , एल्पिन् स्टेन् पायिण्ट् ब्याबिङ्गटन् पायिण्ट्, बाम्बेपायिण्ट्, केटस् पायिण्ट् इत्यादीनि प्रसिद्धानि सन्ति । वीणासरोवरे नौकाविहारस्य व्यवस्था कृतास्ति । अत्र अनेके जलपाताः अनेकानि सरोवराणि सन्ति । चैना म्यान्स् वाटरफाल्स् , धोबिवाटरफाल्स्, लिङ्गमाल् वाटरफाल्स् प्रसिद्धानि । पेन्नासरोवरम् अद्भुतं रम्यं च । अपायकारिघट्टप्रदेशाः नाम फिट्सगेराल्ड्, कर्जत्, खण्डाल, वायघाट इत्यादिप्रदेशे गमनम् अतीव रोमाञ्चकारि भवति। अत्र विशेषवृक्षाः, वाटिकाः तरुलताश्च सुन्दराः सन्ति । सुन्दरे वने फान्सदेशस्य पैन्वृक्षाः, स्काट्लैण्डदेशस्य प्लम् वृक्षाः, रत्नगिरिप्रदेशस्य आम्रवृक्षाः च सन्ति । पुणे समीपे २४ कि.मी दूरे प्रतापगढदुर्गं , ८० कि.मी दूरे रायगढदुर्गं, १२० कि.मी दूरे पञ्चघनी गिरिधाम च सन्ति । प्रतापगढदुर्गं क्रिस्ताब्दे १६५६ तमे वर्षे शिवाजिमहाराजेन निर्मितम् । अत्र शिवाजिप्रतिमा अस्ति । भाजा गुहा पुणेतः मुम्बयीगमनमार्गे दर्शनीया अस्ति । कैवल्यधाम योगकेन्द्रं जनप्रियम् अस्ति ।

Mahabaleshwar

महाबळेश्वरम्
गिरिधाम
महाबळेश्वरपर्वतदृश्यम्
महाबळेश्वरपर्वतदृश्यम्
Nickname(s): 
स्ट्राबेरीफलभूमिः
Country भारतम्
State महाराष्ट्रम्
District सातारामण्डलम्
Government
 • Mayor kishor
Area
 • Total १५० km
Elevation
१,४३८ m
Population
 (2001)
 • Total १२,७८०
 • Density ८५/km
Languages
 • Official मराठी, हिन्दी
Time zone UTC+5:30 (IST)
PIN
412 806
Telephone code 00 91
Vehicle registration MH-11 XX XXXX
Website [१]
अर्थर्स् सीट् तः दृश्यमानं दृश्यम्
सूचीरन्ध्रप्रस्तरः
महाबळेश्वरतः पञ्चघनिदिशि दृश्यमानः कश्चन जलपातः

धूमशकटमार्गः सम्पादयतु

मुम्बयीतः पुणेपर्यन्तं धूमशकटयानानि सन्ति । पुणे-कोल्हापुरमार्गे वाटर् निस्थानस्य समीपेऽस्ति ।

वाहनमार्गः सम्पादयतु

पुणेतः १२० कि.मी । कोल्हापुरमुम्बयी नगरेभ्यः वाहनसम्पर्कः अस्ति । सातारातः ७६ कि.मी । मुम्बयीतः २९० कि.मी । आगस्टतः मेमासपर्यन्तं उत्तमकालः । वासार्यम् उपाहारवसतिगृहाणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=महाबळेश्वरम्&oldid=390216" इत्यस्माद् प्रतिप्राप्तम्