योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्वमेव स्वीकर्तुं नैव शक्यते, यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति, अत एव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चित्तं, मनः इत्याद्याः विज्ञानस्यैव संज्ञाः सन्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते, मनः क्रिया सम्बन्धवशादेव मनः इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।

गौतमबुद्धः

बौद्धधर्मः

बौद्धधर्मः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=योगाचाराः&oldid=395763" इत्यस्माद् प्रतिप्राप्तम्