कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति रामदुर्ग-उपमण्डलम्

रामदुर्गम्

Ramadurga

ರಾಮದುರ್ಗ
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावीमण्डलम्
Area
 • Total ३.५७ km
Elevation
५७० m
Population
 (2011)
 • Total ३९,८४१
 • Density ८,९१५.९७/km
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
591 123
Telephone code 083352


इतिहासः सम्पादयतु

स्वातन्त्र्यात् पूर्वं ब्रिटिषकाले रामदुर्गं बाम्बे-अधिपत्ये (बाम्बेप्रेसिडेन्सी) विद्यमानं किञ्चन राज्यम् आसीत्। ततः अनन्तरं १७९९तमे वर्षे स्थापिते दक्खन् राज्यानाम् अधीने आसीत् । कोङ्कणस्थराज्यस्य शासकाः "राजा"नाम्ना निर्दिश्यन्ते स्म । एतत् राज्यं स्वातन्त्र्यानन्तरं तन्नाम १९४८तमवर्षस्य मार्चमासस्य अष्टमे दिनाङ्के भारतसर्वकारे विलीनं भूत्वा कर्णाटकस्य भागः अभवत् ।

भौगोलिकता सम्पादयतु

अस्य उपमण्डलस्य विस्तीर्णता ४३८चतुरस्रकिलोमीटरमिता॥

इतरविवरणानि सम्पादयतु

२०११तमवर्षस्य जनगणनानुसारं रामदुर्गस्य जनसंख्या ३९,८४१। एतेषु पुरुषाः ११५२८, महिलाः ११२१२ । प्रतिकिलोमीटर् जनसान्द्रता १८७ । लिङ्गानुपातः १०००:९७१ । नगरे साक्षरताप्रमाणं ६३% (भारतस्य साक्षरताप्रमाणस्य ५९.५% अपेक्षया अधिकम्)।एतेषु पुरुषाणाम् साक्षरताप्रमाणं ७५%, महिलानां ५५% । १३% साक्षराः ऊनषड्वर्षीयाः ।

रामदुर्गस्य शुश्रूषालयाः सम्पादयतु

आपटेशुश्रूषालयः, बीळगीशुश्रूषालयः, सर्वकारीयः शुश्रूषालयः, कुल्गोडविविधोपचारशुश्रूषालयः, कुलकर्णीशुश्रूषालयः, कणबूरशुश्रूषालयः, कणबिशुश्रूषालयः, पटवर्धनशुश्रूषालयः, गुरुशुश्रूषालयः, पावटेशुश्रूषालयः, गून्दाशुश्रूषालयः च।

संस्कृतिः सम्पादयतु

डिसेम्बरमासे गोडची-इत्यत्र अस्य उपमण्डलस्य प्रमुखः यात्रामहोत्सवः भवति । रामदुर्गतः १६ कि.मी.दूरे अस्ति गोडची। खानपेठ, तोर्गल्, हलोळ्ळी, बुद्नूर्, बटकुर्की, सुरिबान् कट्कोळ्, चन्दरगी, सुरेभान् तथा मुदकवी इत्यादीनि ऐतिहासिकस्थानानि सन्ति । यरिकित्तूरुनामकः मोहरम् उत्सवार्थं प्रसिद्धः अस्ति । सुरेबान् ग्रामः पूर्वं शबरीवनम् इति ख्यातः आसीत् । शबर्याः मन्दिरम् अत्र अस्ति । शबरी रामस्य आगमनार्थम् अत्र प्रतीक्षमाणा आसीत् इति जनानां विश्वासः । मणिहाळ् ग्रामे श्रीशिवानन्दाश्रमः, आत्मानन्दस्वामी-आश्रमः च स्तः ।

यानव्यवस्था सम्पादयतु

बेळगावी तथा हुब्बळ्ळी विमाननिस्थानके समीपे स्तः । बेळगावी, बागलकोटे, हुब्बळ्ळी, धारवाड, रेलस्थानकानि निकटवर्तिस्थानकानि । समीपे विद्यमानानि प्रमुखनगराणि धारवाड{८०कि.मी.), हुब्बळ्ळी(१०० कि.मी.), बेळगावी(९० कि.मी.), बागलकोटे(७० कि.मी)।

विद्यालयाः, महाविद्यालयाः च सम्पादयतु

सी.डी.हळ्याळ हैस्कूल्, प्रगतिविद्यालयः, गवर्न्मेण्ट् बाय्स् एण्ड् गर्ल्स् हैस्कूल्, बसवेश्वरहैस्कूल्, क्याम्ब्रिड्ज् इङ्ग्लिष् मीडियं स्कूल्, सी.एस्.बेम्बळगी सैन्स् कालेज् इत्यादयः ।

प्रवासोद्यमः सम्पादयतु

रामदुर्गे पर्वताः, शर्करानिर्माणागाराः, नदी, पर्वतारोहणं च प्रसिद्धाः । समीपे विद्यमानानि प्रेक्षणीयस्थानानि नाम शबरीकोळ्ळ, गोडची, नविलुतीर्थ, सुन्नाळ् हनुमप्प, मेगुण्डप्पनकोळ्ळ, दुर्गाणि, तोरणगल् दुर्गं च । सुरेबान् ग्रामतः त्रिकिलोमीटरदूरे शबर्याः मन्दिरम् अस्ति । एतत् मन्दिरं घने अरण्ये, लघुजलापातानां मध्ये अस्ति । शैत्यकाले वातावरणं रमणीयं भवति ।

मन्दिराणि सम्पादयतु

  • श्रीशबरीदेवी
  • श्री आत्मानन्दाश्रमः
  • श्रीशिवानन्दबेट्ट(पर्वतः)
  • श्रीमङ्गेरम्माबेट्ट(पर्वतः)
  • श्रीफलहारेश्वरमन्दिरम्
"https://sa.wikipedia.org/w/index.php?title=रामदुर्गम्&oldid=364566" इत्यस्माद् प्रतिप्राप्तम्