लक्षद्वीप: भारतस्‍य कश्चित् केन्द्रशासितः प्रदेशः अस्‍ति। एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति । एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति । अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।

लक्षद्वीपाः
ലക്ഷദ്വീപ്
—  union territory  —
Location of लक्षद्वीपाः
ലക്ഷദ്വീപ്
निर्देशाङ्काः

१०°३४′उत्तरदिक् ७२°३८′पूर्वदिक् / 10.57°उत्तरदिक् 72.63°पूर्वदिक् / १०.५७; ७२.६३

देशः भारतम्
राज्यम् Lakshadweep
मण्डलम् 1
Established 1956-11-10
राजधानी Kavaratti
बृहत्तमं नगरम् Andrott
Administrator Amar Nath IAS
जनसङ्ख्या

• सान्द्रता

६४,४२९

2,013 /किमी2 (5,214 /वर्ग मील)

मानवसंसाधनसूची (2005) increase
0.796 (high
व्यावहारिकभाषा(ः) Malayalam, English[१]
Mahl (Dhivehi) is spoken on Minicoy Island.
साम्प्रदायिकसमूहाः  ≈84.33% Malayali
≈15.67% Mahls
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 32 वर्ग किलोमीटर (12 वर्ग मील) (1)
ISO 3166-2 IN-LD
जालस्थानम् www.lakshadweep.gov.in

मार्गः सम्पादयतु

विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. The Muslim tribes of Lakshadweep Islands By Makhan Jha
"https://sa.wikipedia.org/w/index.php?title=लक्षद्वीपाः&oldid=485283" इत्यस्माद् प्रतिप्राप्तम्