शिमला हिमाचलप्रदेशस्‍य राजधानी अस्‍ति ।१८६४तमे वर्षे आंग्लप्रशासनेन शिमलानगरं भारते ब्रिटिशशाशनस्य ग्रीष्मकालीन राजधानी घोषिता। नगरमेतद् लोकप्रियं रमणीयं पर्यटनस्थलमस्ति। शिमलानगरं बहुधा (पर्वतानां साम्राज्ञी)इत्यापि कत्थयते। पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्लाध्नां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिम्ला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति ।Queen of hills, Jewel of the orient इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगर अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति । Mall मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः) , चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।

शिम्ला

शिमला

"पर्वतानां राज्ञी"
राजधानी
Southern side of Shimla
शिमलानगरस्य दक्षिणभागः
देशः  भारतम्
राज्यम् हिमाचलप्रदेशः
मण्डलम् शिमला
Government
 • Municipal Commissioner Onkar Chand Sharma, IAS
 • Mayor Sanjay Chauhan (CPI(M))
Area
 • Total २५ km
Elevation
२,२०५ m
Population
 (2011)
 • Total १७१,८१७
 • Rank 1 (in HP)
 • Density १२०/km
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
171 001
Telephone code 91 177 XXX XXXX
ISO 3166 code [[ISO 3166-2:IN|]]
Vehicle registration HP-03, HP-51, HP-52
Climate Cwb (Köppen)
Precipitation 1,577 मिलीमीटर (62.1 इंच)
Avg. annual temperature 21 °से (70 °फ़ै)
Avg. summer temperature 32 °से (90 °फ़ै)
Avg. winter temperature 10 °से (50 °फ़ै)
Website hpshimla.gov.in

बाह्यसम्पर्कतन्तु सम्पादयतु

शिमला के प्रसिद्ध पर्यटन स्थल

"https://sa.wikipedia.org/w/index.php?title=शिमला&oldid=473165" इत्यस्माद् प्रतिप्राप्तम्