श्रीरामवेलणकरः १९१५ ई० वर्षे महाराष्ट्रेऽजायत । मुम्बय्यां विल्सनमहाविद्यालये सोऽधीतवान् । १९३७ ई० वर्षे एम० ए० तथा १९४० ई० वर्षे एल० एल० बी० परीक्षामुत्तीर्या असौ भारतशासनसेवायां पत्रालयविभागे नियुक्तः । तत्र पिन-कोड-प्रचलनम् अनेनैवानुसंहितम् । स्व० परमाचार्य डॉ० हरिदामोदरवेलणकरस्य इच्छामुरसि कृत्वा असौ यत्र कुत्रापि अवस्थितः संस्कृताध्ययनलेखनव्रतम् अविरतं पालयामास । बहुविधास्तस्य रचना विलसन्ति । यथा - काव्यानि – विष्णुवर्धापनम् , गुरुवर्धापनम् , जयमंगला, जीवनसागरः, जवाहरचिन्तनम्, विरहलहरी, जवाहरगीता, गीर्वाणसुधा, अहोरात्रम्। रूपकाणि – संगीतसौभद्रम् (अनूदितम्), कलिदासचरितम्, कालिन्दी।

श्रीरामवेलणकरः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः काव्यानि – विष्णुवर्धापनम् , गुरुवर्धापनम् , जयमंगला, जीवनसागरः, जवाहरचिन्तनम्, विरहलहरी, जवाहरगीता, गीर्वाणसुधा, अहोरात्रम्।
रूपकाणि – संगीतसौभद्रम् (अनूदितम्), कलिदासचरितम्, कालिन्दी

संगीतनभोनाट्यम् — कैलासकम्पम्, स्वातन्त्र्यलक्ष्मीः, हुतात्मा दधीचिः, राज्ञी दुर्गावती, स्वातन्त्र्यचिन्ता, स्वातन्त्र्यमणिः, मध्यमपाण्डवम्।

संगीतबालनाटयम् — जन्मरामायणस्य।

गीतनाट्यम् - मेघदूतोत्तरम्।

आङ्ग्लमराठीभाषयोः अप्यनेन नैकविधा रचना कृता। अस्य कल्पनाशक्तिः उर्वरा विद्यते संगीते च काव्योचितः अस्याधिकारः । संस्कृतरचनाय एतस्य नैसर्गिकी रुचिः । अनेन बहुविधशैक्षणिकसांस्कृतिकसंस्थानां संस्थापकत्वेन सदस्यत्वेन वा सम्मानोऽर्जितः ।

श्रीरामस्य इतररूपकेषु स्वातन्त्र्यचिन्तेति रूपके राणाप्रताप-मानसिंहयोर्मिलनं वर्णितम् । स्वातन्त्र्यमणिरिति रूपके बुन्देलनृपतेः छत्रसालस्य उदात्तगाथा निरूपिता । ‘तत्त्वमसि' इति संकलनं १९७२ ई० वर्षे प्रकाशितम् अत्र चत्वारि रूपकाणि संगृहीतानि । प्रथमे जन्मरामायणस्येति रूपके क्रौञ्चवधकथा, ‘आषाढस्य प्रथमदिवसे' इति रूपके मेघदूतकथा, तनयो राजा भवति कथं मे इति रूपके जातके वर्णिता धनपरेति राझ्या कथा, तत्त्वमसीति रूपके च छान्दोग्योपनिषत्प्रोक्ता श्वेतकेतु कथा निरूपिता।

कालिदासचरितम् सम्पादयतु

रूपकमिदं वेलणकरः १९६१ ई० वर्षे संस्कृतनाट्यमहोत्सवे प्रयोजयितुं प्रणीतवान् । कालिदासं विक्रमादित्यस्य परराष्ट्रकार्यालये उपसचिवत्वेन लेखकोऽत्र कल्पयति । काव्यकौशलेन स पण्डितसभामपि सभाजयामास । कालिदासस्य सम्मानेन राजमहिषी वसुधा उद्विजते स्म । तस्याः पितुः गृहादायातं कमपि पण्डितराजं कालिदास आशुकवितास्पर्धायां पराजयते स्म | ततः स वसुधया विदर्भान् प्रस्थापितः । विदर्भात् स न परावर्तेत इत्यपि योजनां राजमहिषी प्रवर्तयामास । विदर्भेषु कविः कारागारे निक्षिप्तः । स कथञ्चित् कारागारात् स्वात्मानम् अमोचयत । अन्ततश्च बहुविधदुरभिसन्धिभिः विमुक्तः कालिदासः सर्वङ्कषं जयति ।

कालिदासचरितम् आश्रित्य नैके कवयः काव्यनाटकादीनि अरचयन् । तथापि कथावस्तुदृष्ट्या नाटकमिदमपूर्वमेव । रूपकेऽस्मिन् यत्र तत्र हास्यात्मकपद्यानि शिशुसारल्येन निबद्धानि । यथा -

सरस्वती - यस्य बालकस्य पिता स्याद् गोपालः स्वयम् अजापालः भवितासौ॥ [१]

मदनिका - यस्य बालिकायाः सरस्वती माता सरःपङ्कगता भवतीयम्॥[२]

मेघदूतोत्तरम् सम्पादयतु

मेघदूतोत्तरं गीतिनाटयं १९६८ ई० वर्षे प्रकाश्यतां गतम् । अत्र मेघदूतस्यापूर्णं कथावस्तु पूरितम् । अत्र ३८ रागाः अष्ट तालाश्च प्रयुक्ताः । सम्पूर्णमपि रूपकं ५१ पद्यगीतेषूपनिबद्धम् । प्रथमदृश्ये यक्षः कुबेरेण शप्तो रामगिरिं प्रतिष्ठते । द्वितीयके यक्षस्य रामगिरिवासः वर्णितः । अन्यत्र यक्षिणी तस्य मिलनाय उत्सुकतया उत्फुल्ला तिष्ठति । कुबेरस्तत्र प्रकटितस्तां प्राह -

वत्से किमेवं खिद्यसे ।

स्वाधिकारे प्रमादं विधाय विन्देत् कुतः प्रमोदम्।

जीवसि जाया सुते अविधवा कुरुष्व भर्तुः श्रमापनोदम्।।

निर्वहणे यक्षिण्या संगतं यक्षं कुबेर आशीर्वचसा वर्धापयति ।

हुतात्मा दधीचिः सम्पादयतु

हुतात्मा दधीचिः इति रूपकं दिल्लीनभोवाणीतः १५६३ ई० वर्षे प्रसारितमभूत्। दैत्यैः जलावरोधे कृते तृषार्तं संसारं वीक्ष्य दधीचिः चिन्तितो भवति । स समुद्रं प्रार्थयते।

भूमेः प्रयाति सहस्रधा पाथोनिधिं सरितां गणैः।

तस्माज्जलं जनजीवनं याचे भवन्तं निर्धनः।।

अनन्तरं वृत्रोऽघोषयत् - यदि जना जलं वाञ्छन्ति तर्हि वृत्रयज्ञं ते सम्पाद्यन्तु, अन्यथा मेघो मदीयदासस्य सागरस्य तन्वीभूय स्थास्यति। ततः प्रभञ्जनः सगर्वमाह -

स्वातन्त्र्यार्थं सकलजनता प्राणदानं हि कुर्यात्। दधीचिश्च स्वनिश्चयं समुद्रसमक्षम् इत्थं प्रकटयाञ्चकार -

मानवाहुतिरेवैषा वाञ्छिता चेत् त्वया सुर।

प्रीतेन मनसा तोयं त्यजेयं तव तोषणे।।

ततः शरीरसंघर्षजेन अग्निना असौ वृत्रम् अदहत् स्वयमपि च दग्धः।

राष्ट्रसन्देशम् सम्पादयतु

राष्ट्रसन्देशमिति रूपकस्य अवसाने श्रीरामेण राष्ट्रं प्रति सन्देशः ग्रथितः । यथा -

यदा यदा रिपुरुदेति भूमे वीरसुतः स्वं जुहोति होमे।

स्वातन्त्र्ये मुक्तिः सति नियमे स्मरणमिदं स्यादनवरतम्।।

राज्ञी दुर्गावती सम्पादयतु

राज्ञी दुर्गावतीति संगीतिकायाः प्रसारणं दिल्लीनभोवाणीतः १९६४ ई० वर्षेऽभवत् । अस्याः रचनाया उद्देश्यं कविना वर्णितम् -

नेतारो बहवो वसन्ति भुवने सत्तासनाधिष्ठिता

नित्यं सर्वजनोपदेशचतुराः स्वर्थार्जने निर्जिताः।

त्यक्तासुर्विरला तु भूमितनया राज्ञीव दुर्गावती

तस्या जीवनमृत्युकाव्यचरितं स्फूर्तिप्रदं स्यादिह॥

कालिन्दी सम्पादयतु

कालिन्दीति रूपके कवेर्व्यङ्ग्योऽभिप्रायः अयं विद्यते -

‘भारतीयाचारविचाराणाम् ऐक्यं कथं च मृग्यते तद् अपि हिंसाहिंसाविवादेन नाटकेऽस्मिन् दर्शितम्' इति । वङ्गराजो दुर्गेश्वरः अयोध्याधिपतेः तनयां कालिन्दीं वरयामास । स तु हिंसाप्रिय इति अयोध्याधिपतिस्तस्य प्रार्थनां नोरीकरोति स्म । तं च दुर्गेश्वरं युद्धात् विरमयितुं मगधाधिपतिः सुधांशुः स्वात्मानं बन्दिनं कारयित्वा प्राणार्पणेन राष्ट्ररक्षायै समुद्यतोऽभवत् । तस्य भार्या मन्दाकिनी दुर्गेश्वरमाह -

सेना प्रयातु भवतो निजवङ्गदेशं

युद्धं च यातु विलयं जनहानिहेतु।

नो चेद् रणाय मगधा अभियान्तु वङ्गैः

यद् भावि तद् भवतु नो नियतीच्छयैव।।

निर्वहणे सुधांशुरहिंसाया मर्म अवगच्छति। नाटकस्यास्य भौगोलिकत्वं लाक्षणिकत्वं चाद्वितीयमेव । अत्र चण्डप्रतापः (सूर्यः) हिमानी (हिमसंहतिः) कालिन्दी (यमुना) मन्दाकिनी (गङ्गा) चेत्यादीनि पात्राणि प्राकृतिकं मानवीयं चोभयविधरूपे प्रकटयन्ति ।

कैलासकम्पम् सम्पादयतु

चीनानामाक्रमणं विषयीकृत्य श्रीरामेण नभोवाणीरूपकमिदं रचितम्। चीनैराक्रान्तेषु भारतेषु कैलासः प्रकम्पते । शंकरः समुपदिशति -

देवाधीशप्रकटितमहा उत्तरस्यां दिशायां

देवावासः प्रवितततनुर्यः स्थितो देवतात्मा।

अस्त्रं हैमं स्वयमिदमुमातात एष व्रतस्थो

न्यस्यत्युग्रं भरतवसुधारक्षणे दक्षिणौऽसौ।।

पद्यात्मकेऽस्मिन् रूपके नूतनच्छन्दांसि प्रयुक्तानि ।

स्वातन्त्र्यलक्ष्मीः सम्पादयतु

स्वातन्त्र्यलक्ष्मीरिति नाटके झाँसीराज्ञी लक्षीदेव्याः शौर्यगाथा गुम्फिता । अत्र त्रयोऽङ्का लसन्ति । राज्ञ्या उदात्तकार्याणाम् अनुशंसा एवं कृता -

न करिणा निर्माणा रविकिरणाः कीर्णाः

सुरधनुषा वरजनुषा भान्ति विभापूर्णाः।

पराजयेऽप्यनादरो नातिगतो रिपुणा

स्वागतमातिथ्यमहो प्रियभगिनीप्रेम्णा।।

वारिदानैर्नदीं सन्तृषितोषिका अनिललहरी यथा श्रान्तविश्रामिका।

पीडितालोकने तापहरणार्थिना रीतिरेषा सतां सन्तता स्वीकृता।।

छत्रपतिशिवराजम् सम्पादयतु

पञ्चाङ्कस्यास्य नाटकस्य प्रणयनं श्रीरामेण १९७४ ई० वर्षे निष्पन्नम् । अत्र सप्तदशशतके शिवराजस्य राज्यस्थापनं प्रजापालनं च मनोरमं वर्णिते । तस्य स्वराज्योपलब्धिः लोककल्याणयोजनानां कार्यान्वितिश्च सुतरां प्रेरणास्पदौ स्तः । अत्र विंशतिदृश्यानि पञ्चविंशति च पात्राणि विलसन्ति । अद्यतनीनमहानाटकेषु अस्य वैशिष्ट्यं सुव्यक्तमेव । यतो हि एकस्मिन् दिवसे सम्पूर्णस्यास्य अभिनयः कर्तुमशक्यः । अत एव पाठ्यनाटककोटौ इदं परिगणनीयम् । मञ्चनात् प्रागेवास्य प्रथमसंस्करणं विक्रीतमिति लोकप्रियत्वमस्य निःसन्दिग्धम्।

तिलकायनम् सम्पादयतु

अस्मिन् रूपके त्रिष्वङ्गेषु तिलके निक्षिप्ता अभियोगाः कथं न्यायालये विचारिता इति सरसं प्ररोचितम् । अत्र गीतानां स्त्रीपात्राणां चाभावो विद्यते । अस्य प्रकाशनं १९७७ ई० वर्षे १५ अगस्तदिवसेऽभवत् ।

लोकमान्यस्मृतिः सम्पादयतु

द्वयङ्केऽस्मिन् रूपके संगीतस्य स्त्रीपात्राणां च बाहुल्यम् । लोकमान्यश्चरमाङ्क एव रङ्गमवतरति एकोक्त्या प्रजायै च धन्यवादान् वितरति । अस्याभिनयः पुण्यपत्तने १९७७ ई० वर्षे संजातः ।

सम्बद्धाः लेखाः सम्पादयतु

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम् सम्पादयतु

  1. ४४
  2. ४५
"https://sa.wikipedia.org/w/index.php?title=श्रीरामवेलणकरः&oldid=435029" इत्यस्माद् प्रतिप्राप्तम्