सदस्यः:Samrudhi V/प्रयोगपृष्ठम्

                                                              राजशेखरः


राजशेखरःस्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् । अयं राजशेखरो महाराष्ट्रदेशीय अकालजलदस्य पौत्रः दर्दुकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियकन्यां चौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा- ‘आग्रहपरिग्रहादपि पदस्थैर्व्यवसायः, तस्मात्पदानां परिवृत्तिवैमुख्यं पाक इति वामनः । ‘इयमशक्तिर्न पुनः पाकः’ इत्यवन्तिसुन्दरी । हेमचन्द्रः देशीयनाममालायाम् अवन्तिसुन्दरीकृतं ‘देसीयशाब्दकोषम्’ स्मृतवान्, तथाऽवन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।

महाराष्ट्रदेशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलंकृतवान् । एतदाश्रयदातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कञ्चन नृपमप्याश्रयत् । यदादेशेन विध्दशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थितः यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।

एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः ख्रीष्टनवमशतकस्यावसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ १०३, १०७ ख्रीष्टाब्दयोरुत्कीर्णौ, नवमशतकोत्पन्नमानन्दवर्धनमयमुध्दरति, मुञ्जस्य (९७५-९९३) कृपाश्रयेण धनञ्जयेन चायं स्मर्यते, (सर्वमपीदम्मदुक्तमनुमोदयति) । राजशेखरस्य परिचयः

अयम् एकः संस्कृतकविः, आलङ्कारिकः शास्त्रकारश्च आसीदिति पण्डिता आमनन्ति । क्षत्रियकुलावतंसस्य चौहानवंशस्य अनर्घ्यरत्नम् " अवन्तिसुन्दरी"इति कन्यारत्नम् अस्य कलत्रम् । राजशेखरः यायावरवंशीयः इति इतिहासः ब्रवीति । एतस्य पिता दुहिकः(दुर्दुकः), माता शीलवती । क्रि.शक नवमशताब्दान्ते दशमशताब्दादौ वा महाराष्ट्रप्रदेशे एषः आसीदिति ज्ञायते । एतेन नाटकान्यपि विरचितानि, अतः ’नाटकान्तं कवित्वम्’ इतिलोकोक्त्यनुसारं स्वस्य कवित्वम् प्रत्यपादयत् । क्रिस्तशके नवमे शतमाने ई.८८४तः ९९१ संवतः मध्यकाले राजशेखर आसीदिति इतिहासज्ञाः अभिप्रयन्ति । अयं दशमे शतमाने आसीदिति भाण्डारकरपण्डितस्याभिप्रायः । महाराष्ट्रम् अस्य जन्मस्थानम् । एष कान्यकुब्जे राज्ञः महेन्द्रपालस्य आस्थाने कविरासीत्, अपि च यायावरकुलोत्पन्नस्य अकालजलदनाम्नः अलब्धकृतेः कवेः प्रपौत्र आस इत्यपि तस्यैव ग्रन्थद्वारा ज्ञातुं शक्यते । यतः बालरामायणे स्वयम् अकालजलदं स्तौति, यथा- " स मूर्तो यत्रासीद् गुणगण इवाकालजलदः, सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते तरल कविराजप्रभृतयो, महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेः अकालजलदस्य चतुर्थो दौर्दुकिः (प्रपौत्रः) शीलवतीसूनुः उपाध्यायः श्रीराजशेखरः" इति । अयं ब्राह्मणो वा क्षत्रियो वा इति विषये साहित्यविमर्शेषु महती चर्चा प्रवृत्ता दृश्यते । राजशेखरस्य कृतयः

   कर्पूरमञ्जरी(सट्टकम्) सट्टकलक्षणं तूक्तम् भावप्रकाशः नाम्नि ग्रन्थे यथा- सैव प्रवेशकेनापि विष्कम्भेन विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा । प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् ॥ इति । पूर्णतया प्राकृतभाषायां विरचितमिदं सट्टकप्रकारे विरचितम् नाटकम् । अत्र राजाऽपि प्राकृतभाषायामेव सम्भाषते । कर्पूरमञ्जरीति प्रसिद्धायाः विदर्भराजपुत्र्याः विवाहः चण्डपालनाम्ना सह कथं समभवदिति कथाऽत्र वर्णिता, या कथा तु पूर्वम् अपराजितनाम्ना कविना निबद्धासीदिति राजशेखरेणैव गीयते । अस्मिन्नाटकेऽनेन कविना प्रस्तावनायां हालः हरिचन्द्रः कविराजः इत्यादयः पूर्वकवयः स्मर्यन्ते । एषु कविराजः राघवपाण्डवीयम् नाम्नः द्विसन्धानकाव्यस्य कर्ता, राजशेखरस्य पूर्वपुरुषश्च । एष कविराजम् ,बालकविः, इति उपज्ञापयति । एवं च ’बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः’ इति वदन् कविराजः निर्भयनाम्नः राज्ञः गुरुरासीदिति ज्ञापयति । आत्मानं "रजनीवल्लभशिखण्डः" अर्थात् रजनीवल्लभः=चन्द्रः (राजः) स एव शिखण्डः शेखरम् यस्य सः रजनीवल्लभशिखण्डः = राजशेखरः । इति निर्दिशति ।
   बालभारतम् इत्येतदपि नाटकम् । ’प्रचण्डपाण्डवम्’ इत्यस्य अपरं नाम । एतस्य नाटकस्य अङ्कद्वयमात्रं लब्धम् । आधुनिकैः प्रकाशकैः कृताः काश्चित् टिप्पणीः अतिरिच्य एतस्य काऽपि टीका नोपलभ्यते । अस्य प्रस्तावनयाऽवगम्यते यत् कान्यकुब्जस्य निर्भयो नाम राजा, तस्य पुत्रः महीपालदेवश्च राजशेखरस्य शिषावास्ताम् इति ।
   बालरामायणम् एतन्नाटकम् रामायणकथाधारितम् । अत्र ’बाल’शब्दः लघुपर्यायः, न तु शिशुपर्यायः इति भाति । यतः इदमपि नाटकम् प्रौढबन्धैः निबद्धम् । इदम् मूलमात्रम् लब्धम्, न तु सव्याख्यानम् । काव्यशास्त्रे औचित्यविचारचर्चाविषये भोजः स्वकीये ग्रन्थे शृङ्गारप्रकाशः इत्याख्ये बालरामायणस्य वाक्यमुदाहरति यथा-तत्र प्रबन्धे दोषहानम्, अनौचित्यपरिहारेण; यथा मायाकैकेयी-दशरथाभ्यां रामः प्रवासितः; न मातापितृभ्याम् इति निर्दोषः दशरथे इति ।
   विद्धशालभञ्जिका(नाटिका) अस्य नाटकस्य कथा का? इति मया इतोऽपि न ज्ञातम् । नारायणदीक्षितनाम्ना पण्डितेन कृता टीका विद्यत इति श्रुतम् ।
   काव्यमीमांसा अयम् अलङ्कारशास्त्रग्रन्थः । प्रतीतानाम् अप्रतीतानां च कवीनां काव्येषु प्रयुक्तानि पदानि पद्यानि च औचित्यानौचित्यविमर्शनिकषोपले सङ्घर्ष्य अनेकेषां काव्यानां सौवर्णीम् कान्तिम् समपादयत् । अष्टमे शतमाने यशोवर्मनामा कविः स्वस्य नाटके रामाभ्युदयनाम्नि पात्रौचित्यं पुष्टिः इति प्रथमतया प्रस्तावरूपेण औचित्यम् इति पदम् प्रायुङ्त । तदनु ये य आलङ्कारिकाः क्षेमेन्द्रपर्यन्तम् अलङ्कारशास्त्रोद्याने स्वग्रन्थपुष्पाणि व्यकासयन्, ते सर्वेऽपि "औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम्" इति क्षेमेन्द्रस्य वाक्यं विस्तरेण व्यवृण्वन् । काव्येषु वर्ण-शब्द-गुण-विषय-प्रबन्ध-प्रकरण-रीति-भावादिषु कविभिः ’औचित्यदृष्टिः’ प्रयोज्या इति खलु औचित्यसिद्धान्तस्य राद्धान्तः । तदयम् काव्येषु औचित्यस्य प्राधान्यं प्रतिपादयन् एतस्मिन् ग्रन्थे पूर्वाचार्याणाम् अभिप्रायान् क्रोडेकुर्वन् "उचितानुचितविवेको व्युत्पत्तिः" इति वदन् तस्मात् रसोचितशब्दार्थसूक्तिनिबन्धनः चारुः इति स्वमतम् विशदयति ।

राजशेखरस्य गरिमा

राजशेखरः संस्कृत-प्राकृत-पैशाच्यपभ्रंशाभिधासु चतसृष्वपि भाषासु निपुणो विद्वानत एव तस्मिन् कविराज इति संज्ञाऽन्वर्था । तन्मतानुसारेणैकाधिकभाषायां सफलकविरेव कविराज इति कथ्यते । राजशेखरस्य शब्दगुम्फनव्यग्रता तस्य शब्दकवित्वं प्रकाशयति, वर्णननैपुण्यं पुनस्तस्य तत्राप्यव्याहतमेव, यथा कर्पूरमञ्जर्याम् ।

                                        परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः
                                                     क्षतक्षारो हारो रजनिपवना देहपतनाः।
                                       मृणाली बाणाली ज्वलयति च जलस्तनुलतां
                                                      वरिष्ठा यद् दृष्टा कमलवदना सा सुनयना ॥

राजशेखरः विचक्षणः विनयशाली च । भाषाविषये कर्पूरमञ्जर्याम् अनेन कृतं निर्वचनम्, भाषाविषये कलहायमानानाम् आधुनिकानां कृते उपदेशायमानम् सत्, भाषाविचारे संस्कृतज्ञानां निरहङ्कारितां च द्योतयति । यथा-

   प्राकृते पाठः यथा-
   अत्थविसेसा ते चिअ सद्दा ते चेअ परिणमन्ता वि ।
   उत्तिविसेसो कव्वं भासा जा होद्द सा होउ ॥
   संस्कृतानुवादः यथा-
   अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि ।
   उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥

एवं वदता राजशेखरेण समाजस्वास्थ्याय अनुपमम् सूत्रमेकं निरमायि, भाषादुरभिमानिनः परिभावयन्, स्वयं च कीर्तिमेरुं समारोहत् । सः स्वस्य कृतिषु अनेकान् प्राक्तनकवीन् कीर्तयति । सचानेकैः कविभिः शास्त्रकारैश्च प्रस्तूयते । महान् आलङ्कारिकः क्षेमेन्द्रः स्वस्य औचित्यविचारचर्चा इति ग्रन्थे राजशेखरस्य कविताम् उदाहरति, यथा-

   ....सोऽयं सम्प्रति राजशेखरकविर्वाराणसीं वाञ्छति ॥ इति ।
   सूक्तिमुक्तावल्याम्-" अकालजल्देन्दोः सा हृद्या वचनचन्द्रिका । नित्यं कविचकोरैर्या पीयते न च हीयते ॥


images https://commons.wikimedia.org/wiki/File:Rajashekara.jpeg

https://commons.wikimedia.org/wiki/File:Rajashekara_2.jpeg


references http://www.sundeepbooks.com/servlet/sugetbiblio?bno=002917

http://books.google.co.in/books?id=kKD-v7tPc8EC&pg=PA413&dq=Rajasekhara+son+of+Durduka&hl=en&ei=Bru-TPK0IoSucNCOrKsN&sa=X&oi=book_result&ct=result&resnum=3&sqi=2&ved=0CDsQ6AEwAg#v=onepage&q=Rajasekhara%20son%20of%20Durduka&f=false

http://books.google.co.in/books?id=2Tnh2QjGhMQC&pg=PA224&dq

http://books.google.com/books?id=BC3l1AbPM8sC&pg=PA60&lpg=PA60&dq=Karpura-Manjari&source=bl&ots=0yYKpJkmJL&sig=zPeaqSUyknSIq9Tz6eSEz9J-Gv4&hl=en&ei=JFDVSoWHA4HysgOV18HXAg&sa=X&oi=book_result&ct=result&resnum=4&ved=0CA4Q6AEwAzgK#v=onepage&q=Karpura-Manjari&f=false



                                                              कौटिल्‍य:
                                                               धन:
                                                               श्री:


Your Money, Your Wealth logo

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

मातृवत्परदारेषु परद्रवेषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः ॥

चला लक्ष्मीश्चला: प्राणाश्चलं जीवित-यौवनम् । चलाचले च संसारे धर्म एको हि निश्चलः ॥

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारगणोऽपिच ॥

दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥

उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यतिष्ठति स वान्धवः ॥

परोक्षे कार्यहन्तारं प्रतक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥

जानीयात् प्रेषणे भृत्यान् वान्धवान् व्यसनागमे । मित्रं चापदि काले च भार्यां च विभवक्षये ॥

दुर्जनः प्रियवादी च नैव विश्वाकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥

सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः । मन्त्रौषधिवशः सर्पः खलः केन निवार्यते ॥

हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः । शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥

The Wealth of Nations

हस्ती अंकुशमात्रेण वाजि हस्तेन ताडयते । श्रुङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥

अधना धनमिच्छन्ति वाचं चैव चतुष्पदा: । मानवा: स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवता: ॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥

धनिकः श्रोत्रियो राज नदी वैद्यस्तु पञ्चमः । पञ्च यत्रनविद्यन्ते तत्र वासं न कारयेत् ॥

यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः । न च विद्यागमः कश्चित् तं देशं परिवर्ज्जयेत् ॥

मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् । अन्यलक्षितकार्यस्य यतः सिद्धिर्न जायते ॥

बृथा बृष्टि: समुद्रेषु बृथा तृप्तेषु भोजनम् । बृथा दानं धनाढेषु बृथा दीपो दिवाऽपि च ॥

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥

ऋणशेषश्चाग्निशेषो व्याधिशेषस्तथैव च । पुनश्च वर्द्धते यस्मत्तस्माच्छेषं न रक्षयेत् ॥

नाऽस्ति मेघसमं तोयं नाऽस्ति चात्मसमं बलम् । नाऽस्ति चक्षुःसमं तेजो नाऽस्ति धान्यसमं प्रियम् ॥

कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता । विद्यारूपं कुरूपाणां क्षमारूपं तप्स्वीनाम् ॥

अशोच्यः निर्द्धनःप्राज्ञोऽशोच्यः पण्डितवान्धवः । अशोच्या विधवा नारी पुत्र्पौत्रप्रतिष्ठिता ॥

अतिदर्पे हता लङ्का अतिमाने च कौरवाः । अतिदाने वलिर्वद्धः सर्वमत्यन्तगर्हितम् ॥

सत्येन धार्यते पृथिवि सत्येन तपते रवि: । सत्येन वति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

दारिद्र्यनाशनं दानं शिलं दुर्गतिनाशनम् । अज्ञाननाशिनि प्रज्ञा भावना भयनाशीनि ॥

जन्ममृत्यु हि यत्येको भुनक्त्येकः शुभाऽशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥

वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सस्त्रिया रक्ष्यते गृहम् ॥

विद्या मित्रं प्रवसेषु भार्या मित्रं गृहेषु च । व्यधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥

दुर्ल्लभं प्रकृतं वाक्यं दुर्ल्लभः क्षेमकृत् सुतः । दुर्ल्लभा सदृशी भार्या दुर्ल्लभः स्वजनप्रियः ॥

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो नहि सर्वत्र चन्दनं न वने वने ॥

दुर्वलस्य वलं राजा वालानां रोदनं वलम् । वलं मूर्खस्य मौनित्वं चौराणामनृतं वलम् ॥

स्वदोतं मर्द्दितं चैव रज्जुभिः परिवेष्टितम् । मुक्तं द्वादशभिर्वषैः स्वपुच्छं प्रकृतिं गतम् ॥

Contando Dinheiro (8228640)

न च विद्या समो वन्धुर्न च व्याधिसमो रिपुः । न चापत्यसमः स्नेहो न च दैवात्परं वलम् ॥

शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्यधिर्न च धर्मो दयापरः ॥

यथा चतुर्भि: कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनौः । तथा चतुर्भि: पुरुष परीक्ष्यते त्यागेन शिलेन गुणेन कर्मणा ॥

अभ्यासध्दार्यते बिद्या कुलं शिलेन धार्यते । गुणेन झायते त्वार्यः कोपो नेथेण गम्यते ॥

राजा राष्त्रकृतं भुंक्ते राझः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापंगूरुस्तथा ॥

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥

न पश्यति च जन्मान्धः कामान्धो नैव पश्यति । न पश्यति मदोन्मतो ह्यर्थि दोषात् न पश्यति ॥

अघमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति माने हि महतां धनम् ॥

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्यने तपदानयोः ॥

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥


Internal Links:

1.http://www.businessdictionary.com/definition/wealth.html

2.http://www.investopedia.com/terms/w/wealth.asp


References:

1.http://www.gutenberg.org/etext/3300

2.https://en.wikipedia.org/wiki/The_Wealth_of_Nations

3.http://www.journals.uchicago.edu/doi/abs/10.1086/467637

4.https://en.wikipedia.org/wiki/The_Wealth_and_Poverty_of_Nations