संस्कृतभाषया प्रकाश्यमामना अद्वितीया वर्णयुता मासपत्रिका [१] । सप्टेम्बर् १९९४ तमे वर्षे प्रथमसञ्चिका मुद्रिता । २०१९ तमे वर्षे पत्रिकायाः रजतमहोत्सवः अभवत् । एषा पत्रिका प्रकाशनारम्भात् परम् एकमपि मासम् अविहाय निरन्तरं प्रकाशमाना विद्यते ।

सम्भाषणसन्देशः
सम्पादकः जनार्दन हेगडे
प्रकाशनकालः मासिकपत्रिका
प्रसारः अन्ताराष्ट्रियस्तरः
प्रकाशकः के नारायणः
संस्थापकः जनार्दन हेगडे
आरम्भवर्षम् क्रि.श १९९४
देशः  भारतम्,
केन्द्रीकृतम् बेङ्गलूरुः
भाषा संस्कृतम्
जालस्थानम् www.sambhashanasandesha.in
ऐ एस् एस् एन् 2249-6440

इतिहासः सम्पादयतु

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्युक्तदिशा आदशसहस्रात् वर्षेभ्यः संस्कृतभाषा सनातनभारतीयपरम्पराम् प्रभावयन्ती वर्तते । अनया भाषया अनेकानि काव्यानि अनेके च शास्त्रग्रन्थाः विरचिताः । किन्तु गच्छता कालेन अनवधानेन, आत्मविस्मृत्या, आङ्ग्लजनानां शिक्षणस्य प्रभावेण च जनाः संस्कृते अरुचिं प्रादर्शयन् । जनसामान्यानां व्यवहारभाषा केवलं विदुषां वाक्यार्थगोष्ठ्यामेव अवशिष्टा । जनानाम् अनादरपात्रभूताम् एतां गीर्वाणभाषां पुनरुज्जीवयितुं संस्कृतभारती सङ्घटनम् रचितम् । सङ्घटनारम्भकाले एव संस्कृतपत्रिकां प्रकाशयितुं कैश्चित् उत्साहः प्रदर्शितः । परन्तु आदौ पठितॄणां निर्माणं भवेत् इति कारणतः सम्भाषणशिबिराणि आरब्धानि । सम्भाषणशिबिरद्वारा संस्कृतपठनम् आरब्धवतां जनानां पठनाय सम्भाषणसन्देशपत्रिका १९९४ तमे वर्षे आरब्धा । जनेभ्यः संस्कृते विद्यमानं ज्ञानं संस्कृतस्य विचारांश्च जनान् प्रति प्रापयति पत्रिका ।

उद्देश्यानि सम्पादयतु

अधोविद्यमानान् उद्देशान् मनसि निधाय एषा पत्रिका आरब्धा ।

  • सरलमानकसंस्कृतेन साहित्यनिर्माणम् ।
  • भाषाभ्यासः मनोरञ्जनं च ।
  • संस्कृतस्य पठनप्रवृत्तेः संवर्धनम् ।
  • संस्कृतस्य प्रचारः ।
  • आधुनिकविषयेषु संस्कृतज्ञेभ्यः ज्ञानदानम् ।
  • संस्कृतस्य विशिष्टविचाराणाम् प्रस्तुतिः ।[२]

प्रधानविभागाः सम्पादयतु

आरम्भकालतः अपि अनेके विभागाः स्थिररूपेण एतस्यां पत्रिकायां वर्तन्ते । यथा -

  • अनूदितकथा
  • एहि हसामः
  • कथा
  • कुतुककुटी
  • गीतम्
  • ग्रन्थपरिचयः
  • चाटुचणकः
  • चित्रकथा
  • धारावाहिनी
  • निकषोपलः
  • पदरञ्जिनी
  • प्रतिस्पन्दः
  • बालमोदिनी
  • भाषापाकः
  • रूपकम्
  • लेखनम्
  • वार्ताः
  • विज्ञापिकाः
  • व्यावहारिकशब्दावली
  • सन्दर्शनम्
  • सम्पादकीयम्
  • सुयोगः
  • स्तम्भलेखः
  • स्मारं स्मारं सुखिनः स्याम[३]

विशेषाङ्कः सम्पादयतु

१९९६ तः प्रतिवर्षं विजयदशमीविशेषाङ्कः विजयदशमीकाले प्रकाश्यते [४]। २००६ तमे वर्षे भारतगौरवविशेषाङ्कः गुरूजीगोलवल्कर् जन्मशताब्दाङ्गतया प्रकाशितः आसीत् । [५]

पत्रिकाधारितानि पुस्तकानि सम्पादयतु

पत्रिकायां प्रकाशितानां लेखानाम् आधारेण कतिचन पुस्तकानि संस्कृतभारत्या प्रकाशितानि । यथा भाषापकः (त्रयः भागाः, भाषाशुद्धिसम्बद्धानां लेखानां सङ्ग्रहः)[६], आश्रमं परितः (पत्रिकायां प्रकाशिता धारावाहिनी)[७] इत्यादयः पुस्तकरूपेण प्रकाशिताः ।

पुरस्काराः सम्पादयतु

पत्रिकायाः कृते नागपुरस्थेन कविकुलगुरुकालिदासविश्वविद्यालयेन प्रशस्तिः दत्ता वर्तते[उद्धरणं वाञ्छितम्]

इतराणि कार्याणि सम्पादयतु

सम्भाषणसन्देशन्यासः पत्रिकाप्रकाशनेन सह इतराणि कार्याणि अपि करोति । यथा भाषापाकपरीक्षा [८], लेखकानुवादकवर्गः[९]इत्यादीन् चालयति ।

उल्लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणसन्देशः&oldid=486194" इत्यस्माद् प्रतिप्राप्तम्