साबरकाठामण्डलम् (गुजराती: સાબરકાંઠા જિલ્લો, आङ्ग्ल: Sabarkantha district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हिम्मतनगरम् इति नगरम् ।

साबरकाठामण्डलम्
मण्डलम्
गुजरातराज्ये साबरकाठामण्डलम्
गुजरातराज्ये साबरकाठामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters हिम्मतनगरम्
Area
 • Total ७,३९० km
Population
 (२०११)
 • Total २४,२७,३४६
Languages
 • Official गुजराती, हिन्दी
Website sabarkantha.gujarat.gov.in
उत्तरगुजरात

भौगोलिकम् सम्पादयतु

साबरकाठामण्डलस्य विस्तारः ७,३९० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे राजस्थानराज्यं, पश्चिमे मेहसाणामण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे खेडामण्डलम् अस्ति । अस्मिन् मण्डले ५००-१००० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, हाथमती, खारी, मेश्वो, वात्रक, मझाम, हरणाव ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं साबरकाठामण्डलस्य जनसङ्ख्या २४,२७,३४६ अस्ति । अत्र १२,४४,४९१ पुरुषाः ११,८२,८५५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७६.६०% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि- १ बायड २ भिलोडा ३ धनसुरा ४ हिम्मतनगरम् ५ इडर ६ खेडब्रह्मा ७ मालपुरं ८ मेघरजः ९ मोडासा १० प्रान्तिज ११ तलोद १२ वडाली १३ विजयनगरम्

कृषिः वाणिज्यं च सम्पादयतु

गोधूमः, एरण्डं, कलायः, तमाखुः, 'बेर्', आम्रफलं, दाडिमफलं, आलुकं, वृन्ताकं, कपिशाकं ('क्याबिज्') ('पर्णशाकम्' इति अपि), वार्तिकी, 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु धान्यानाम् उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'बेर्', दाडिमफलस्य उत्पादनेऽपि अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कृषिः, 'सिरेमिक्स्', क्षीरोत्पादनं, 'प्ल्यास्टिक्', आहारसंस्करणं, रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

 
हिम्मतनगरे विद्यमानः ग्रन्थालयः, 'क्लोक् टवर्' च

इडरगिरिः, 'क्लोक् टवर्', 'रूठी राणी नो महल्', शान्तिनाथमन्दिरं, श्रीमद् राजचन्द्रविहारश्च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । खेडब्रह्मा, विजयनगरं, पोशिना अपि वीक्षणीयस्थलानि सन्ति । अस्मिन्नेव मण्डले स्थितं भगवतः कृष्णस्य शामलाजी-मन्दिरं गुजरातराज्यस्य प्रसिद्धयात्रास्थलेषु अन्यतमम् अस्ति । विजयनगरे प्राचीनानां हिन्दूमन्दिराणां, जैनमन्दिराणां च अवशेषाः दृश्यन्ते । अतः विजयनगरस्य प्राकृतिकम्, ऐतिहासिकं च सौन्दर्यं वर्तते । 'पोलो'-अरण्यप्रदेशः अपि वीक्षणीयस्थलम् अस्ति । श्रीप्रतापसिंह-राजप्रासादः अपरं वीक्षणीयस्थलम् ।

बाह्यानुबन्धाः सम्पादयतु




बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=साबरकाठामण्डलम्&oldid=481079" इत्यस्माद् प्रतिप्राप्तम्