एतत् शिल्पकलायाः महोन्नतम् स्थानमस्ति । सहस्रस्तम्भदेवालयः अतीवाकर्षकः । अत्र शिवविष्णुसूर्यदेवालयाः सन्ति । बृहन्नन्दीविग्रहः शिल्पदृष्टयापि अतीव सुन्दरः । हनुमतः कारणतः अस्य नगरस्य नाम हनुमकोण्ड इति अभवत् । काकतीयानां प्रशासनकाले द्वौ सहोदरौ हनुमय्य तथा कोण्डय्य एतस्य नगरस्य स्थापनां कृतवन्तौ इति ज्ञायते । दुष्टशक्तिभ्यः ओरुगल्लुसाम्राज्यं रक्षयितुं एताभ्यां बहूनि हनुमतः मन्दिराणि स्थापितानि ।

धूमशकटमार्गः सम्पादयतु

विशाखपट्टणं हैदराबाद् विभागे वारङ्गल् निस्थानतः ७७ कि.मी वाहनमार्गः । वाहनमार्गः खाजीपेटेएततः ६ कि.मी । हैदराबादतः १४८ कि.मी वारङ्गलतः ६६ कि.मी । वसतिव्यवस्था वारङ्गल् नगरे अस्ति ।

  • पुराणानुसारं हनुमान् यदा सञ्जीविनीपर्वतं स्वीकृत्य लङ्कां प्रति प्रत्यागच्छन् आसीत् तदा कतिचन शिलाः अत्र पतिताः ।अनेन अत्रत्यः पर्वतः निर्मितः अभवत् । अतः हनुमकोण्ड इति नाम प्राप्तम् ।
    इतिहासानुसारं काकतीयानां काले हनुमकोण्डस्य उपत्यकायां वज्रस्य खनयः आसन् ।
  • अत्रत्यजनानां विश्वासानुसारं हनुमकोण्डस्य समीपस्थात् महेन्द्रगिरेः हनुमान् सीतान्वेषणार्थं प्रस्थितवान्।

हनुमकोण्ड -लोकसभास्थानम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=हनुमकोण्ड&oldid=368967" इत्यस्माद् प्रतिप्राप्तम्