हरीतकी
हरीतकी प्रायेण दक्षिण-एशिया प्रदेशे दृश्यते। वैज्ञानिकभाषया Terminalia chebula इति नाम्नः इदं सस्यं, 'काम्ब्रेटेनी' (Combretaceae)सस्यकुटुम्बे अन्तर्भवति. हरीतकी औषधरूपेण अस्माकं देशे आबहोः कालाद् प्रसिद्धा। आयुर्वेदे औषधराजः इति इदं फलं प्रसिद्धम्। यौवनपरिरक्षणाय, अनेकेषां व्याधीनां निवारणाय च अस्य उपयोगः क्रियते।
हरीतकी | ||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
A leafless T. Chebula tree
| ||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||
| ||||||||||||||
द्विपदनाम | ||||||||||||||
Terminalia chebula Retz. | ||||||||||||||
पर्यायपदानि | ||||||||||||||
| ||||||||||||||
लक्षणानि सम्पादयतु
एतस्य वृक्षः उन्नतः भवति। वृक्षस्य उपरिभागः छत्रसदृशः दृश्यते। १५ तः २० मीटर् यावत् अस्य औन्नत्यं भवति। पर्णेषु कान्तिमत् रोमाणि भवन्ति। एतस्य पुष्पं धूसरवर्णीयम् अथवा पीतवर्णीयं, दुर्गन्धयुक्तं च भवति। अपक्वं फलं हरितवर्णीयम्, शुष्कं च पीतवर्णीयं भवति। फले लघुगर्ताः भवन्ति। फले दीर्घं दृढं च बीजं भवति।.
आयुर्वेदे सम्पादयतु
विभीतकी आमलकी हरीतकी इति त्रितयं त्रिफला इत्युच्य़ते। हरीतक्याः विषये राजवल्लभनिघण्टुग्रन्थे एवमुक्तं वर्तते—
यस्य माता गृहे नास्ति तस्य माता हरीतकी।
कदाचित्कुप्यते माता नोदरस्था हरीतकी॥
उपयोगाः सम्पादयतु
- त्रिदोषवारणे हरीतकी परमौषधम् । पीनसकासज्वरादारादीन् सामान्यान् हृद्रोगसदृशान् महतः रोगान् अपि हरीतकी वारयति।
- व्रणोपशमनार्थं हरीतकीरसलेपनम् औषधं भवितुमर्हति। रोगप्रसारकान् सूक्ष्मजीविनः हरीतकी नाशयति।
- हनूव्रणान् वारयति।
- जीर्णक्रियां समीकरोति।
- नेत्रवेदनां दूरीकरोति।
- प्रातः हरीतकीकषायपानेन देहस्य औष्ण्यं समतोलनस्थितौ भवति।
- लैङ्गिकदौर्बल्यं वारयति।.
रासायनिकपदार्थाः सम्पादयतु
हरीतक्यां चेब्युलाजिक्, अयासीड्, चेब्युलाजिक् अयासीड्, चेबुलेनिक् अयासीड् कारिलेजिन् इत्यादयः रासायनिकपदार्थाः भवन्ति इति रसायनिक तज्ञाः अभिप्रयन्ति।
वाणिज्यम् सम्पादयतु
भारते अनेकाः वाणिज्यसंस्थाः हरीतक्याः उत्पन्नानि विक्रीणन्ति। तेषु प्रसिद्धानि इमानि सन्ति।
- हरिटाकी
- अभयमोदक्
- पथ्यादिचूर्णम्
- त्रिफलाचूर्णम्
सरलाः चिकित्साक्रमाः सम्पादयतु
- पक्वस्य हरीतकीफलस्य पेषणं कृत्वा नेत्रे लेपनेन नेत्रस्य रक्तिमायाः नेत्रस्रावस्य च उपशमनं भवति।
- चित्रमूलम्, आर्द्रकम्, हरीतकीत्वचं च चूर्णीकृत्य यवक्षारेण सह कषायं निर्माय पानेन मूलव्याधिः वार्यते।
- त्रिफलाचूर्णस्य कषायपानेन शिरोवेदना शाम्यते।
- घृतेन सह त्रिफलाचूर्णभक्षणेन नेत्रयोरन्धकारभानम् न भवति।
- हरीतकीकषायेन ज्वरवारणं भवति।
- पित्तकासस्य वारणं हरीतक्या भवति।