हावडामण्डलम्(Howrah) पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं हावडानगरम्

हावडामण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् हावडानगरम्
Area
 • Total १,४६७ km
Population
 (2011)
 • Total ४८,४१,६३८
 • Density २,९१३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि हावडा, उलुबेडिया, श्रीरामपुर् (आंशिक)
Website http://www.howrah.gov.in/

नामौचित्यम् सम्पादयतु

हावडा इति पदस्य व्युत्पत्तिविषये विप्रतिपत्तिः अस्ति । अष्टादशशतके वर्तमान हावडातः अदूरे हाडिडा नामकः ग्रामः आसीत् । 'हावडा' इति 'हडिडा' पदस्य अपभ्रंशरूपम् इति एकः पक्षः । हावड(यस्यार्थः 'यत्र पङ्कः अधिकः भवति')इति शब्दात् 'हावडा' रूपमागतम् इति अपरपक्षः । भाषातात्विकः सुकुमार सेन् महोदयस्य मतानुसारं 'हावडा' शब्दस्यार्थः 'अवनतस्थले यत्र वर्षाजलं सञ्चितं भवति'। हावडाप्रान्तस्य भू-रूपमपि तथैव आसीत्, एतस्मात् कारणात् उक्तनामकरणं जातम् ।

इतिहासः सम्पादयतु

 
हावडा, १९४५ वर्षस्य चित्रम्
  • यद्यपि हावडामण्डले पुरातात्विक-निदर्शनानि अधिकानि न सन्ति तथापि वागनान्, श्यामपुर्, जगत्-वल्लभपुर् इत्यादिषु प्रान्तेषु उत्खननेन प्राचीननिदर्शनानि स्वल्पं लब्धानि । हावडामण्डले दग्धमृत्तिकायाः कारुकार्यसमन्वितानि प्राचीनमन्दिराणि सन्ति । प्राचीनजैन-बौद्ध-हिन्दूसाहित्ये हावडाप्रदेशविषये सुनिर्दिष्टः उल्लेखः नास्ति । मध्ययुगे पश्चिमबङ्गस्य अन्यतमः प्रधानपोताश्रयः आसीत् सप्तग्रामः । परन्तु वाणिज्यानुकुला परिस्थितिः हावडामण्डले अधिकासीत् । अनन्तरवर्तीकाले सरस्वतेः गभीरता ह्रासकारणात् सप्तग्रामस्य विकल्परूपेण हावडास्थितः बेतर्नामकः वाणिज्यप्रदेशः अधिकः प्रसिद्धः अभवत् । विप्रदासस्य (१४१७-१४९७)मङ्गलचण्डीकाव्ये बेतर्-प्रदेशस्य उल्लेखः अस्ति । १५५३ तमे वर्षे ब्यारोज़्-महोदयेन निर्मितमानचित्रे हावडामण्डलस्य विविधस्थलानि चिह्नितानि अभवन् ।
  • अष्टादशशतकस्य शेषभागतः हावडामण्डलस्य विकाशापरम्परायाः आरम्भः अभूत् । १७९६ तमे वर्षे पोतनिर्माणकेन्द्रम् अत्र आसीत् । १८१७ तमे वर्षे बाउरियायां भारतस्य प्रथमकार्पासकेन्द्रं निर्मीतमासीत् । वर्तमाने हावडामण्डले ४० कार्पासकेन्द्राणि सन्ति । इयमेव हावडामण्डलस्य वाणिज्यिकविकाशस्य सूचना आसीत् ।

भौगोलिकावस्थानम् सम्पादयतु

 
उपग्रहचित्रे हावडामण्डलम्

भूरूपम् सम्पादयतु

हावडामण्डलस्य विस्तीर्णम् - उत्तर-अक्षांशः २२˚१२'- २२˚४८' पूर्वरेखांशः - ८७˚५०'- ८८˚२३' । पूर्वदिशि विद्यमाना हुगलिनदी हावडामण्डलम्, उत्तर २४ परगणा-कोलकता-दक्षिण २४ परगणा मण्डलेभ्यः पृथक् करोति । तथैव पश्चिमदिशि रूपनारायणनदेन पूर्वमेदिनीपुरमण्डलतः हावडामण्डलं पृथक्करोति । दामोदरनदेन धौतपललमृत्तिकया निर्मितसमभूमेः उपरि 'हावडामण्डलम्' अवस्थितम् । हावडामण्डलस्य भूमिरूपस्य द्वे वैशिष्ट्ये यथा उच्चनदीतटः, दीर्घजलनिमज्जभूमिः निम्नभूमिः वा ।

नद-नद्यः सम्पादयतु

हावडामण्डलस्य नद-नदीषु हुगलि, रूपनारायणः, दामोदरः, सरस्वती इत्याद्याः उल्लेखयोग्याः । हावडामण्डलस्य पूर्वदिशि हुगलिनदी, पश्चिमदिशि रूपनारायणनदः च प्रवहति । दामोदरनदः मण्डलस्य मध्यभागे समानान्तरे प्रवहति । वर्षाकाले नदीतटभङ्गः, जलप्लावनम् इत्यादि प्राकृतिकविपर्ययाः अत्र समस्यायन्ते । दामोदर-उपत्यका-निगमेन(दमोदर-व्यालि-कर्पोरेशन्) निर्मितजलबन्धेन जलप्रकोपसमस्यातः इदं मण्डलमिदं सुरक्षितमस्ति ।

वातावरणम् सम्पादयतु

हावडामण्डलस्य वातावरणम् उष्णतायुक्तं परिक्लिन्नं च वर्तते । अस्य मण्डलस्य ऋतुमानम् एवं भवति - ग्रीष्म(मार्च-जुन्)-वर्षा(जुन्-सेप्टेम्बर्)-शरत(सेप्टेम्बर्-अक्टोबर्)-शिशिर(नवेम्बर्-फेब्रुवारि) । ग्रीष्मकाले अस्मिन् मण्डले उष्णता-आर्द्रता च भवति, शीतकाले शुष्कता । हावडामण्डले वार्षिकवृष्टेः परिमाणः १४००-१६०० मिलिमिटर् ।

प्रशासनिकविभागः सम्पादयतु

 
प्रशासनिकभवनम्(हावडा,१८५६)

हावडामण्डलं प्रशासनिकदृष्ट्या द्विधा विभाजितम् । यथा-

  • हावडासदरमहकुमा
  • उलुवेडियामहकुमा

हावडासदरमहकुमा सम्पादयतु

हावडासदरमहकुमायां हावडापौरनिगमः बालिपौरसभा च अन्तर्भवति । अस्मिन् विभागे बालि-जगाछा-डोमजुर्-पांचाला-सांकराईल्-जगत्-वल्लभादयः उन्नयनपरिषदः सन्ति ।

उलुवेडियामहकुमा सम्पादयतु

उलुवेडियामहकुमायाम् उलुवेडियापौरसभा तथा दश उन्नयनपरिषदः(उलुवेडिया,आमता, उदयनारायणपुर्, बागनान्, श्यामपुर् इत्यादि) सन्ति ।

उपविभागः सम्पादयतु

समग्रे हावडामण्डले एकः पौरनिगमः, पौरसभाद्वयम्, एकादश उपनगरपरिषदः, ५० परिकल्पितनगराणि च सन्ति । तथा १४ पञ्चायतसमितयः, १५७ ग्रामोन्नयनपरिषदः सन्ति ।

संस्कृतिः सम्पादयतु

 
शारदोत्सवः

पश्चिमबङ्गस्य अन्यमण्डलसदृशः दुर्गोत्सवः अस्य मण्डलस्याऽपि मुख्योत्सवः । अन्यान्यसामाजिक-उत्सवाः यथा जगद्धात्रीपूजा, कालीपूजा, ईदुल्-फितर्, होलि, वैशाखी, रवीन्द्रजयन्ती, सरस्वतीपूजा, रथयात्रा, पौषपालनेत्यादयः महोत्साहेन जनैः पालिताः भवन्ति । पश्चिमबङ्गस्य प्रचलितोत्सवान् त्यक्त्वा हावडामण्डलस्य चण्डीपुजा विख्यातः । अस्मिन् मण्डले चण्ड्याः असंख्यलौकिकरूपप्रसिद्धाः सन्ति । तासु कल्याणचण्डी, मङ्गलचण्डी, माकालचण्डी, माकडचण्डी, ओलाइचण्डी इत्याद्याः अन्यतमाः । मण्डलस्य आमताप्रदेशे स्थितं मेलाइचण्डीमन्दिरं देव्याः द्विपञ्चाशत्सु पीठेषु अन्यतमम् । हावडामण्डले आवर्षं विभिन्नसामाजिकोत्सवाः भवन्ति । एतादृशं मेलनं प्रधानतः द्विविधम् - धार्मिकोत्सवः तथा धर्मनिरपेक्षोत्सवः ।

धार्मिकोत्सवाः सम्पादयतु

धार्मिकोत्सवोऽपि पुनश्च त्रिविधं यथा- हिन्दूदेवदेवीकेन्द्रीतधार्मिकोत्सवः, मुस्लिमधार्मिकोत्सवः, आदिवासी धार्मिकोत्सवः इति । हावडामण्डलस्य 'रामराजातला' इति स्थाने पश्चिमबङ्गस्य दीर्घकालिकधार्मिकोत्सवः भवति । १७५१ वर्षतः प्रतिरामनवमीतिथौ अस्य मेलनस्य शुभारम्भः भवति । तथा श्रावणमासान्तपर्यन्तं अयं धार्मिकोत्सवः तिष्ठति । मण्डलस्य अन्योत्सवाः यथा- उलुवेडियायां रासोत्सवः, सिंटि ग्रामे प्रचलितः 'पिरोत्सवः', 'वाणीवन' ग्रामे पालितः काननविलासोत्सवः इत्यादयः

धर्मनिरपेक्षोत्सवः सम्पादयतु

हावडामण्डलस्य आमता रसपुरग्रामे दामोदर नदकेन्द्रिकोत्सवः तथा 'कुलगाछिया'प्रदेशस्य नवान्नोत्सवः धर्मनिरपेक्षोत्सवेषु अन्यतमौ ।

धार्मिकस्थलानि सम्पादयतु

हावडामण्डलस्य धार्मिकस्थलेषु रामराजातलायाः राममन्दिरं, जलेश्वरे स्थितं शिवमन्दिरं, मध्यहावडानगरस्थितं सहस्रहस्ताकालीमन्दिरं, सुलतान्-पुरस्थितं शिवमन्दिरं, बेलुडमठमेत्यादिनि अन्यतमानि भवन्ति ।

शिक्षा स्वास्थ्यश्च सम्पादयतु

 
बिशप् महाविद्यालयः (हावडा,१८८०)
  • हावडामण्डले २६६८ विद्यालयाः सन्ति । तेषु २११६ प्राथमिकविद्यालयाः, ३७८ माध्यमिकविद्यालयाः तथा १७४ उच्चविद्यालयाः सन्ति । एते विद्यालयाः पश्चिमबङ्गमध्यशिक्षापर्षदा पश्चिमबङ्गशिक्षासंसदा वा अनुमोदिताः भवन्ति । अस्मिन् मण्डले १६ स्नातकमहाविद्यालयाः, द्वौ चिकित्सामहाविद्यालयौ, पञ्चमिश्रयान्त्रिकमहाविद्यालयाश्च सन्ति । हावडामण्डले द्वौ विश्वविद्यालयौ स्तः(शिवपुरे बङ्गीय यन्त्रविज्ञानविश्वविद्यालयः तथा बेलुडे विवेकानन्दविश्वविद्यालयः) ।
  • नगरकेन्द्रिक हावडामण्डलस्य स्वास्थ्यपरिसेवा उत्कर्षतां सूचयति । मण्डलेऽस्मिन् ३३ सर्वकारस्य चिकित्सालयाः, ५२ स्वास्थ्यकेन्द्राणि ८९ लघ्वारोग्यालयाः तथा ४४ ओषधालयाः सन्ति ।

परिसीमा सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=हावडामण्डलम्&oldid=464709" इत्यस्माद् प्रतिप्राप्तम्