हिन्दुधर्मस्य इतिहासः



हिन्दुधर्मस्य इतिहासोऽतीव प्राचीनः वर्तते। धर्मोऽयं वैदिककालाद् अपि प्राचीनतर इति मन्यते, यतो हि वैदिकः कालः वेदानाञ्च रचनाकालः भिन्ने इति मन्यते। आशताब्देभ्यः अत्र मौखिकपरम्परा वर्तमाना आसीत्, येन एतस्येतिहासः ग्रन्थाश्च वर्धमाना आसन्। ततः पश्चात् तेषां लिपिबद्धीकरणस्यापि कालः विस्तीर्ण आसीत्। हिन्दुधर्मस्य सर्वपूज्याः ग्रन्थास्तु वेदाः। वेदानां रचना एके कस्मिँश्चित् काले नाभवत्। विद्वद्भिः वेदानां रचनाकालस्यारम्भः ४५०० तमे ख्रिष्टपूर्वाब्दे मतः। पुराणेषु हिन्द्वितिहासस्यारम्भः सृष्टेरुद्भवाद् एव मन्यते। हिन्द्वितिहासग्रन्थेषु महाभारतपुराणादिषु मनुम् आरभ्य भगवन्तं कृष्णं यावत् वंशस्योल्लेखः प्राप्यते।

संदर्भ सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु