कर्णाटके किञ्चन प्रमुखं मण्डलम् अस्ति बीदरमण्डलम् । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति हुम्नाबाद्। अस्य केन्द्रम् अपि हुम्नाबाद् एव । राष्ट्रियराजमार्गसङ्ख्ज्या ९ तथा राज्यराजमार्गसङ्ख्या २१८ एतत् नगरं सम्पर्कयतः । हुम्नाबाद् उपमण्डलं वीरभद्रेश्वरमन्दिरद्वारा तथा माणिकनगरकारणतः प्रसिद्धम् अस्ति । प्रसिद्धौ राजकारणिनौ रामचन्द्रवीरप्पः, बसवराजपाटीलः च अत्रत्यौ ।

हुम्नाबाद्

ಹುಮ್ನಾಬಾದ್
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बीदर
Government
 • Body Humnabad Town Municipal Council
Area
 • Total १८ km
Elevation
६३८ m
Population
 (2001)
 • Total ३६,५११
 • Density २,०००/km
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
Civic agency Humnabad Town Municipal Council

भौगोलिकता सम्पादयतु

अस्य नगरस्य निर्देशाङ्कौ १७.७७° उ ७७.१३°पू.[1] । समुद्रस्तरतः ६३८मीटरोन्नते स्थाने (२०९३फीट्) अस्ति । इतः सामान्यतः ४०कि.मीयावत् गमनेन पूर्वभागे आन्ध्रप्रदेशः, पश्चिमभागे महाराष्ट्रं च प्राप्यते ।

इतरविवरणानि सम्पादयतु

२००१तमवर्षस्य जनगणनानुसारम् एतस्य नगरस्य जनसङ्ख्या ३६,५११। एतेषु ५२% पुरुषाः, ४८% महिलाः । साक्षरता प्रमाणं ६४%(राष्ट्रियसाक्षरताप्रमाणस्य ५९.५% अपेक्षया अधिकम्) अस्ति । पुरुषाणां साक्षरताप्रमाणं ७१%, महिलानां च ५५% । १६% साक्षराः ऊनषड्वर्षियाः। कन्नड तथा उर्दु भाषे व्यापकतया व्यवहारे स्तः । तेलुगुभाषा, मराठीभाषा च अल्पप्रमाणेन व्यवहारे स्तः ।

"https://sa.wikipedia.org/w/index.php?title=हुम्नाबाद्&oldid=364555" इत्यस्माद् प्रतिप्राप्तम्