होमी भाभा (हिन्दी: होमी भाभा, आङ्ग्ल: homi bhabha )  इत्ययं भारतस्य वैज्ञनिकः आसीत् । अमेरिका-देशेन जापान-देशस्य हिरोशिमा-नगरे नागासाकी-नगरे च अणुविस्फोटः कृतः । तदानीं सम्पूर्णं विश्वम् अणुविस्फोटकस्य दानवीयां शक्तिम् अजानात् । 1945 तमे वर्षे विश्वयुद्धे जापान-देशः भयभीतः सन् शरणागतिम् अयात् । तेन सह विश्वयुद्धं समाप्तम् । जापान-देशे अणुविस्फोटेन सम्पूर्णे विश्वे जापान-देशस्य प्रति सहानुभूतिः आसीत् । अतः अणुशक्तियुतः अमेरिका-देशः तस्य सहचरदेशाः च अणुविज्ञानस्य प्रचारप्रसारः मा भूत्, अन्यदेशाः अणुविस्फोटकस्य संशोधनं च न कुर्युः इति विचार्य शान्तिसन्देशं प्रासारयत् । स्वयं तु अणुविस्फोटकस्य संशोधनं चालयति स्म । अमेरिका-देशस्य प्रतिद्वन्दित्वेन बृहद् रशिया-देशः अणुविस्फोटकस्य कार्यम् आरभत । प्राप्तावसरे परस्परं युद्धं स्याच्चेत् अणुसंशोधनेन उभौ परस्परं बलवन्तौ समर्थौ भवेताम् इति बृहद् रशिया-देशः इच्छति स्म । १९४७ तमस्य वर्षस्य अगस्त-मासस्य १५ दिनाङ्के भारतं स्वातन्त्र्यम् अलभत । तदा भारतम् अणुसंशोधनक्षेत्रे शून्यम् आसीत् । अद्यापि भारतम् अणुसंशोधनस्य उपयोगः शान्तियुक्ते विकासमार्गे एव स्यादिति नीतिम् आचरति । तस्य रचनाकारः डॉ. होमी भाभा । अणुसंशोधनाय अनेन यः मार्गः दर्शितः तस्य साहाय्येन एव वयं राजस्थानराज्यस्य पोखरण-ग्रामे अणुविस्फोटं कृत्वा महासत्तायाः अक्षिणी उन्मिलितवन्तः । इत्थं भारतस्य अणुविज्ञानस्य विकासचर्चायां डॉ. होमी भाभा इति नाम जिह्वायां नागच्छेत् चेत् तद् रामेण विना रामायणम् इत्यपि कथयितुं शक्नुमः ।

होमी जहांगीर भाभा
होमी जहांगीर भाभा (१९०९-१९६६)
जननम् 30 अक्तूबर, 1909
मुंबई, भारत
मरणम् 24 जनवरी, 1966
मोंट ब्लांक, फ्रांस
वासस्थानम् भारत
देशीयता भारतीय
कार्यक्षेत्राणि परमाणु वैज्ञानिक
संस्थाः Cavendish Laboratories
भारतीय विज्ञान संस्थान
टाटा मूलभूत अनुसंधान संस्थान
Atomic Energy Commission of India
मातृसंस्थाः कैम्ब्रिज विश्वविद्यालय
संशोधनमार्गदर्शी पॉल डिराक
रॉल्फ एच फाउलर
शोधच्छात्राः बी भी श्रीकांतन
विषयेषु प्रसिद्धः भाभा स्कैटेरिंग
धर्मः पारसी धर्म
हस्ताक्षरम्

जन्म परिवारश्च सम्पादयतु

डॉ. होमी भाभा इत्यस्य जन्म १९०९ तमस्य वर्षस्य अक्तूबर-मासस्य त्रिंशत् (30) तमे दिनाङ्के मुम्बई-नगरे अभवत् । तस्य मातुः नाम मेहरबहेन, पितुः नाम जहाॅगीर-जी होरसम-जी भाभा आसीत् । तस्य पिता न्यायवादे निष्णातः आसीत् । रतन-जी ताता उद्योगसंस्थाभ्यः सह पितुः घनिष्ठः सम्बन्धः आसीत् । माता मुम्बई-नगरस्य अग्रणी-उद्योगपतिनः सर् दिनशा पीटिट् इत्यस्य पुत्री आसीत् । इत्थम् उभावपि गर्भश्रीमन्तौ आस्ताम् ।

बाल्यं शिक्षणञ्च सम्पादयतु

होमी भाभा इत्यस्य बाल्यं समृद्धियुक्तम् आसीत् । अयं बाल्यादेव अन्येभ्यः भिन्नः आसीत् । प्रायशः सर्वेऽपि बालकाः बाल्यावस्थायां ध्वनौ सति जागरन्ति पुनः शयनं कुर्वन्ति । किन्तु होमी भाभा स्वल्पं निद्रायमाणः भूत्वा जागर्ति इति तस्य नित्यक्रमः आसीत् । इत्थं बालकं जागरितं दृष्ट्वा पितरौ कथं शयनं कुर्यास्ताम् ? पुत्रस्य शयनरोगस्य चिकित्सायै पितरौ मुम्बई-नगरस्य बालरोगस्य विशेषज्ञम् अमिलताम् । किन्तु निद्रायाः किमपि निदानं नाभवत् । तथापि पितरौ प्रयासरतौ आस्ताम् । तौ रोगचिकित्सायै पुत्रं लण्डन्-नगरम् अनयताम् । लण्डन्-नगरे चिकित्सकः परीक्षणं कृत्वा होमी इत्यस्य नखेऽपि रोगः नास्ति किन्तु अस्य मस्तिष्कम् अत्यन्तं जागरितम् अस्ति अतः स्वल्पं शेते इति अवदत् । चिकित्सकस्य कथनानुसारेण होमी भाभा इत्यस्य पठनारम्भे सर्वं सत्यं जातम् । पितृभ्यां मुम्बई-नगरस्य केथीड्रल् नामिकायां शालायां तस्य प्रवेशः कारितः । तत्र श्रेष्ठेभ्यः शिक्षकेभ्यः होमी भाभा ध्यानेन अधीतवान् । तस्यां शालायां प्रायशः आङ्ग्ल-अधिकारिणां पुत्राः अध्ययनं कुर्वन्ति स्म । शालायां प्रवेशे सति भारतस्य विस्मरणं स्यात् तादृशम् पाश्चात्यं वातावरणम् आसीत् । तदानीन्तनकाले आङ्ग्ल-वस्त्राणां धारणे, आङ्ग्ल-शिक्षणप्राप्तौ च धनिकाः गौरवम् अनुभवन्ति स्म । किन्तु एतद् सर्वं विना अस्मदीयः होमी भाभा सदैव प्रथमक्रमं प्राप्य भारतस्य गौरवं वर्धयते स्म । इत्थं प्रथमक्रमेण उत्तीर्णः सन् सः बहूनि छात्रवृत्त्यादीनि प्राप्नोति स्म ।

माध्यमिकशिक्षणम् सम्पादयतु

प्राथमिकशिक्षणात्परं सः जॉन् केनन् नामिकायां शालायां माध्यमिकशिक्षणं प्रापत् । तस्य विद्यार्थिजीवनम् उत्तरोत्तरम् उज्ज्वलम् अभवत् । न केवलं पठने अपि तु अन्यप्रवृत्तिषु अपि सः रसेन भागं गृह्णाति स्म । इत्थं होमी भाभा इत्ययं अन्यविद्यार्थिभ्यः विशिष्टः आसीत् ।

पठने चित्रे सङ्गीते च रुचिः सम्पादयतु

बालकस्य शिक्षकः शाला च अति उत्तमा भवेत् तथापि बालकोपरि गृहस्य वातावरणस्य प्रभावस्तु भवति एव । तथैव अस्य जन्म पठनरसिके पारसी-कुटुम्बे अभवत् । गृहे सर्वेऽपि पठनरसिकाः आसन्, अतः होमी भाभा अपि पठनरसेन प्रभावयुतः आसीत् । कौटुम्बिकैः जनैः देशात् विदेशाच्च गृहे पुस्तकानि आनीतानि आसन् । तेषां पुस्तकानां पठने होमी इत्यस्य रुचिः आसीत् । गृहात् प्रोत्साहनं प्राप्य होमी भाभा इत्यस्य चित्रनिर्माणे, सङ्गीतश्रवणे अपि रुचिः आगता । ताभ्यां चित्रनिर्माणस्य कला तु स्वतः आसीत् । सः प्रकृतौ यदि किमपि नावीन्यं पश्यति स्म तर्हि कर्गदोपरि चित्रणं करोति स्म । एकदा विख्यातानां चित्रकाराणां चित्रप्रदर्शनम् आसीत् । तेषु १७ वर्षस्य होमी इत्यनेन पोर्ट्रेट् चित्रे प्रथमक्रमः प्राप्तः ।

गणितविज्ञानयोः रुचिः सम्पादयतु

चित्रसङ्गीतयोः रुचौ सत्यपि सर्वाधिकरुचिस्तु गणितविज्ञानविषयोः अध्ययने एव आसीत् । विज्ञानप्रयोगेषु लिखितानां सिद्धान्तानां प्रयोगानां च उपरि स्वयमेव परीक्षणं कृत्वा साफल्यं प्राप्यते तदैव विरमति स्म । यस्मिन् दिने प्रयोगपरिणामं प्राप्नोति स्म तस्मिन् दिने प्रसन्नः भवति स्म । होमी इत्यस्य गृहस्य ग्रन्थालयः विज्ञानविषये तु साक्षात् शिक्षक इव आसीत् । न केवलं शालायां ये पाठाः पाठिताः तान् एव अपि तु ये न पाठिताः तान् अपि होमी भाभा जानाति स्म । इत्थम् अभ्यासक्रमविषये शिक्षकात् अपि अग्रेसरः आसीत् ।

आइन्स्टाइन् इत्यस्य पुस्तकमधीत्य सापेक्षवादस्य अवगमनम् सम्पादयतु

बालकानां क्रीडावस्थायां होमी भाभा इत्ययं परिपक्वमनुष्यवद् गाम्भीर्ययुतः आसीत् । यदा पञ्चदशवर्षस्य तरुणावस्थायाम् आसीत्, तदा महान्वैज्ञानिकस्य आइन्स्टाइन् इत्यस्य पुस्तकं सापेक्षवादम् अपठत् सर्वम् अवगच्छत् च । सापेक्षवादं वैज्ञानिकाः अपि सहजतया ज्ञातुं न शक्नुवन्ति स्म । किन्तु होमी भाभा इत्यस्मिन् एकाग्रतायाः महान्गुणः आसीत् अत सः सर्वम् अवगच्छति स्म ।

उच्चशिक्षणम् सम्पादयतु

१९२९ तमे वर्षे होमी भाभा विज्ञानविषये स्नातकः अभवत् । पितरौ पुत्रम् उच्चशिक्षणाय विदेशं प्रेषयितुम् ऐच्छताम् । पाश्चात्यसंस्कृतेः शिक्षां प्रदातुम् इच्छुकौ पितरौ तं भारतीयसंस्कृत्या दीक्षितम् अकुरुतां येन तं वैदेशिकं वातावरणं न स्पृशेत् । पिता पुत्रं विदेशं प्रेष्य एन्जिनियरिङ्ग् पाठयितुम् ऐच्छत् । किन्तु होमी भाभा विज्ञानं पठितुम् ऐच्छत् । तथापि पितुः आज्ञया एन्जिनियरिङ्ग् पठितुं सज्जः समभवत् । होमी भाभा एन्जिनियरिङ्ग् पठितुं इङ्ग्लेण्ड्-देशं गतवान् । किन्तु पुनर्मनसि विचलिते सति विज्ञानं पठानि इति पितरम् अप्रार्थयत् । पित्रा सर्वं विचार्य एन्जिनियरिङ्ग् इत्यस्मिन् प्रथमे वर्गे उत्तीर्णे सति वर्षद्वयं विज्ञानपठनाय अनुमतिः दीयते इति उक्तम् । पितुर्वचनं श्रुत्वा होमी भाभा एन्जिनियरिङ्ग् पठितुम् आरभत । अन्ते प्रथमे वर्गे समुत्तीर्य १९२७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज् गोन्विल् एवं किङ्ग्स् महाविद्यालये ट्रायपोस्ट् खण्ड-1 अभ्यस्तुं प्रविष्टः । तदानीं कवेन्डिश् इति प्रयोगशालायां डॉ. रुदर्फोर्ड् इत्यनेन सह कार्यकतॄन् विदुषः दृष्ट्वा पदार्थविज्ञानं प्रति आकर्षितः अभवत् ।

भौतिकशाखायां कार्यारम्भः सम्पादयतु

होमी भाभा पितुः अपेक्षितं परिणामं प्रापत् । अतः स्वेन इच्छितं विषयं पठितुं समुत्सुकः आसीत् । तदानीं नोबेल्-पारितोषिकविजेतुः प्रो. डिराक् इत्यस्य सम्पर्कः अभवत् । अनेन क्वॉन्टम् इलेक्ट्रो डायनमिक्स् नामाख्यायाः नूतनभौतिकशाखायाः प्रारम्भः कृतः आसीत् । अस्य विषयस्य संशोधने होमी भाभा इत्यनेन कार्यविकासस्य आरम्भः कृतः । विज्ञानक्षेत्रे सरसं कार्यं कृत्वा १९३३ तमे वर्षे आइसॅक् न्यूटन् इति नामिकां शिष्यवृत्तिं च प्रापत् । १९३४ तमे वर्षे होमी भाभा पी.एच्.डी. कृत्वा डॉक्टर् अभवत् । अतः रॉयल् सोसैटि नामिका संस्था फेलो-रूपेण तस्य चयनं कृत्वा तस्मै सर्वोच्चं सम्माननम् अददात् ।

अणुविज्ञानक्षेत्रे प्रगतिः सम्पादयतु

भौतिकशास्त्रस्य दृष्ट्या विंशति(२०)शताब्द्याः प्रारम्भिकानि त्रिंशत् (३०) वर्षाणि महत्वपूर्णानि आसन् । तदानीं संशोधनकार्यं वेगेन भवति स्म । पुरातनसंशोधनानां स्थाने नूतनसंशोधनानि समागतानि । तदा एव आइन्स्टाइन् इत्यनेन ऊर्जासूत्रं दत्तम्, रुदर्फोर्ड् इत्यनेन अणुकेन्द्रस्य स्फोटपद्धतिः च अन्वेषिता । अतः अणुविज्ञानस्य, अणुशक्तेः, अणुस्फोटकस्य च जन्म अभवत् । अणुसंशोधनक्षेत्रे कार्यरतैः प्रो. डिराक्, रुदर्कोर्ड्, वुल्फ् गेन्ग्, पोली, एनरिको फर्मी इत्यैतैः सह कार्यं कर्तुम् होमी भाभा इत्यनेन अवसरः प्राप्तः । तेषां प्रेरणया मार्गदर्शनेन च होमी भाभा इत्यनेन मौलिकसंशोधनानि अपि आरब्धानि । तेषु ब्रह्माण्ड-किरणानां स्वरूपम् इति विषये स्वस्य संशोधनेन विज्ञानजगति सः प्रसिद्धिं प्राप्तवान् । ब्रह्माण्डकिरणानाम् आवर्तप्रपत्तेः (कॅस्केट् थियरी) प्रकाशशक्तेः वस्तुमाने (इलेक्ट्रोन्) रूपान्तरणं कथं भवेत् तस्मिन्विषये बहूनि वर्षाणि यावत् सः संशोधनम् अकरोत् ।

भारतागमनम् सम्पादयतु

डॉ. होमी भाभा इत्यस्य प्रतिभाम् इङ्ग्लेण्ड्-देशस्य अमेरिका-देशस्य च संशोधनकर्तारः अजानन् । अतः होमी भाभा इत्यस्य ज्ञानस्य उपयोगः स्वयोः देशयोः अणुसंशोधनक्षेत्रे भवेदिति संशोधनकर्तारः इच्छन्ति स्म । एतस्मै कार्याय होमी भाभा इत्यस्मै बहूनि प्रलोभनानि दत्तवन्तः । किन्तु होमी भाभा इत्ययं विदेशस्य ज्ञानेन स्वदेशस्य सेवां कर्तुं विचारितवान् । तस्मिन् काले अणुविज्ञानक्षेत्रे भारतं शून्यम् आसीत् । भारतं प्राप्य संशोधनसाधनानाम् अभावात् भारतीयवैज्ञानिकस्य सी.वी. रामन् इत्यस्य इन्स्टिट्यूट् ऑफ् सैन्स् इत्यस्मिन् भौतिकशास्त्रस्य प्रवाचक(रीडर्)त्वेन संयुक्तः अभवत् । अल्पे एव काले आचार्यः (प्रोफेसर्) अभवत् । १९४३ तमे वर्षे होमी भाभा सर् दोराबजी भाभा इत्यस्य संस्थायै (Trust) पत्रम् अलिखत् । तस्मिन् अलिखत् - भारते विज्ञाने, संशोधनक्षेत्रे च कार्यकतॄणाम् अभावः नास्ति किन्तु स्थलाभावात् सर्वे भ्रमिताः सन्ति । भाविनि काले अणुशक्तियुगारम्भः भविष्यति । अतः भारतेन अपि अणुवैज्ञानिकाः अणुविज्ञानक्षेत्रे कार्याणि कर्तुं शक्नुयुः तादृशी संस्था रचनीया इति । सर् दोराबजी इत्यस्य संस्था होमी भाभा इत्यस्य पत्रं पठित्वा प्रस्तावस्य स्वीकारम् अकरोत् । १९४५ तमे वर्षे मुम्बई-नगरस्य एकस्मिन् प्रासादे ताता इन्स्टिट्यूट् ऑफ् फण्डमेण्टल् रिसर्च् इति नामिकां संस्थाम् अस्थापयत् । अस्मिन्नेव वर्षे अमेरिका-देशेन जापान-देशस्य उपरि आक्रमणं कृतम् । तेन जापान-देशस्य द्वे नगरे नष्टे । अस्मिन् भीषणे युद्धे लक्षाधिकाः जनाः प्रज्वलिताः । सर्वत्र अणुक्षेत्रे कार्यकतॄणां निन्दारम्भः अभवत् । विश्वस्मिन् जनाः अणुविरोधं कृत्वा शान्तिम् अयाचन् । अन्ये देशाः अणुसंशोधनं न कुर्युः, अतः अमेरिका-देशेनापि शान्तेः अभियानम् आरब्धम् । किन्तु होमी भाभा इत्यनेन एतादृश्यां परिस्थित्यां भारते अणुसंशोधनस्य कार्यारम्भः कृतः । होमी भाभा इत्यनेन अणुविज्ञानस्य शान्तिमयस्य उपयोगस्य प्रति भारः प्रदत्तः । होमी भाभा इत्यस्य अयं विचारः कियान् दीर्घदृष्टियुतः आसीत् इति इदानीं ज्ञायते ।

अणुशक्तिसमितेः अध्यक्षः भाभा सम्पादयतु

१९४७ तमस्य वर्षस्य अगस्त-मासस्य १५ तमे दिनाङ्के देशः स्वतन्त्रः अभवत् । ततः दशदिवसानन्तरम् अगस्त-मासस्य २६ दिनाङ्के भारतसर्वकारेण दिल्ली-नगरे वैज्ञानिकानाम् एका गोष्ठी आयोजिता । तत्र अणुसंशोधनविषयः अपि चर्चितः । तत्र होमी भाभा इत्यनेन अणुविज्ञानस्य विकासः, उपयोगश्च राष्ट्राय महत्वपूर्णः अस्ति इति सूचितम् । तदर्थं सः नवानां नीतीनां रचनाम् अकरोत् । तादृशम् अणुसंशोधनकेन्द्रं स्थापयितुम् अन्यदेशानामुपरि भारम् अपि अददात् । सर्वकारः तस्य एतैः विचारैः प्रसन्नः सन् अणुशक्तेः संशोधनमण्डलस्य अध्यक्षपदं होमी भाभा इत्यस्मै अददात् । ततः अल्पे काले एव भारतसर्वकारेण परमाणुशक्तिविषयकः एकः कार्यालयः स्थापितः । तस्य सचिवपदम् अपि होमी भाभा इत्यस्मै प्रदत्तम् । ततः परं भारतसर्वकारः अणुशक्तिसमितेः अध्यक्षम् अन्विषन् आसीत् । तदानीमेव होमी भाभा इत्यस्य विचारं कृत्वा अध्यक्षत्वेन अपि तमेव अचिनोत् । होमी भाभा इत्यनेन अणुविकासाय, तस्य शान्तिमयाय उपयोगाय च स्वस्य कुशलता योजिता । तस्य नेतृत्वे पुनःपुनः बह्व्यः योजनाः सफलतां गताः । तस्य इच्छा तु प्रत्येकं ग्रामम् अन्धकारात् विमुक्तं कर्तुम् आसीत् । परन्तु सर्वप्रथमम् अणुसंशोधनकेन्द्राणां निर्माणे भारम् अददात् ।

ट्रोम्बे-अणुसंशोधनकेन्द्रस्य निर्माणम् सम्पादयतु

१९५४ तमे वर्षे देशस्य अणुसंशोधनकार्यम् अत्याधुनिकं कर्तुं भारतसर्वकारः मुम्बई-नगरस्य ट्रोम्बे इत्यत्र अणुसंशोधनकेन्द्रम् अस्थापयत् । केन्द्रसञ्चालकत्वेन होमी भाभा नियुक्तः । अस्य रचनायां चत्वारि वर्षाणि अगच्छन् । अस्य निर्माणे १२०० एन्जिनियर् जनाः, अन्ये श्रमिकजनाः च कार्यम् अकुर्वन् । तेषु एन्जिनियर् जनेषु ३० केनडा-देशात् समागताः आसन् । साम्प्रतम् अस्य संशोधनकेन्द्रस्य इलेक्ट्रोनिक्स् विभागे रेडिएशन् सर्वे मीटर्, एम्प्लिफायर्स्, न्यूक्लियर् स्पेक्ट्रोमीटर् इत्यादीनां ५० प्रकाराणां साधनानां निर्माणं भवति । साम्प्रतं ततः ३५० प्रकाराणां रेडियो आइसोटोप् अनेकेषु देशेषु प्रेष्यन्ते । ताता इन्स्टिट्यूट् ऑफ् फण्डमेन्टल् रिसर्च्, ट्रोम्बे-अणुसंशोधनकेन्द्रस्य च जनकत्वेन अद्यापि होमी भाभा इत्यस्य स्मरणं भवति ।

होमी भाभा इत्यनेन संस्थापिताः आयोगाः सम्पादयतु

1. १९५५ तमे वर्षे अणुज्वालकस्य थोरियम् आयोगम् (प्लान्ट्) अस्थापयत् । 2. १९५९ तमे वर्षे न्यूक्लियर् मेटल् आयोगम् (प्लान्ट्) अस्थापयत्, यत् प्रतिवर्षं ३० टन् न्यूक्लियर् ग्रेड् युरेनियं सज्जीकर्तुं शक्नोति । 3. १९६२ तमे वर्षे भारयुक्तस्य जलस्य आयोगः (हेवी वॉटर् प्लान्ट्) स्थापितः, यस्मिन् प्रतिवर्षं १५ टन् भारयुक्तं जलं निर्मातुं शक्यम् । 4. १९६५ तमे वर्षे प्लुटोनियम् आयोगः (प्लान्ट्) स्थापितः । डॉ. होमी भाभा, डॉ. शेठनानी इत्यनयोः संयुक्ते उपक्रमे अयं आयोगः (प्लान्ट्) स्थापितः । तदानीं विश्वस्मिन् अयं पञ्चमः आयोगः (प्लान्ट्) आसीत् । तदा एतादृशाः आयोगयुक्ताः देशाः रशिया, अमेरिका, ब्रिटन्, फ्रान्स् इत्येते आसन् ।

तारापुर इत्यत्र अणुमथकस्य स्थापना सम्पादयतु

१९६३ तमे वर्षे महाराष्ट्रराज्यस्य तारापुर-ग्रामे सर्वप्रथमम् अणुशक्तिमथकं निर्मातुम् आरभत । तत्र अणुविस्फोटं नियन्त्र्य तस्य विद्युत्-ऊर्जायां रूपान्तरणं कर्तुं व्यवस्था आसीत् । तारापुर अणुमथकस्य रचनायाम् अमेरिका-देशस्य साहाय्यं स्वीकृतम् आसीत् । किन्तु होमी भाभा इत्यस्य विश्वासः आसीत् यत् भारतीयवैज्ञानिकाः अणुमथकस्य रचनायाः कार्यं शीघ्रं ज्ञास्यन्ति इति । मद्रास-नगरस्य समीपे कल्पक्कम् अणुमथकस्य स्थापनायाः सर्वाः व्यवस्थाः भारतीयवैज्ञानिकैः कृताः येन होमी भाभा इत्यस्य विश्वासः सार्थकः अभवत् । साम्प्रतं तु वयम् अन्यदेशेभ्यः अणुसंशोधनक्षेत्रे साहाय्यं दातुं शक्ताः स्मः । होमी भाभा नूतनप्रकल्पस्य प्रारम्भात् प्राक् तस्य दुरुपयोगः भवितुं शक्नोति न वा इति परिष्कृत्यैव कार्यम् आरभते स्म । अत एव सफलः भवति स्म । तेन प्राप्तायाः सिद्धेः अहङ्कारः कदापि तस्मिन् न आसीत् । सः व्यवहारकुशलः आसीत् । निश्चितेन आयोजनेन एव कार्यं कर्तव्यम् इति सः आमनति स्म ।

अन्ताराष्ट्रियपरिषदः अध्यक्षः सम्पादयतु

अणोः शान्तिमयः उपयोगः इति विषये १९५५ तमे वर्षे भारतस्य केन्द्रसर्वकारेण अन्ताराष्ट्रियपरिषद् आयोजिता आसीत् । होमी भाभा तस्याः अध्यक्षः आसीत् यत् देशाय गौरवस्य विषयः आसीत् । तदानीं प्रधानमन्त्रिपदारूढः पण्डित जवाहरलाल नेहरू इत्ययं शान्तिप्रियः आसीत् । तथैव अस्माकं अणुवैज्ञानिकः होमी भाभा इत्ययम् अपि शान्तिप्रियः आसीत्, अणोः शान्तिमयस्य उपयोगस्य इच्छुकः अपि आसीत् । अणोः भयस्थानानि बहूनि सन्ति किन्तु सदुपयोगाः अपि बहवः सन्ति । अतः अस्य विकासं न्यूनीकर्तुं न शक्नुमः । इत्थं होमी भाभा बहूनि उदाहरणानि दत्त्वा जलेन, अङ्गारेण च उत्पन्नविद्युतः अपेक्षया अणु-ऊर्जा न्यूनेन मूल्येन प्राप्यते इति औपदिशत् । होमी भाभा इत्यस्य मते भारते जनसङ्ख्यायाः वृद्धिः जायमाना आसीत् किन्तु ऊर्जायाः अक्षय्यानि श्रोतांसि न आसन् । अतः अस्माभिः अणुशक्तेः उत्पादने यावच्छक्याः प्रयत्नाः कर्तव्याः । होमी भाभा इत्यस्य मते विद्युच्छक्तेः आवश्यकतानुसारम् अणुशक्तेः समुचितः उपयोगः न जातः । अद्यापि विद्युतः मुख्यस्रोतत्वेन अङ्गारः एव उपयुज्यते । अङ्गारगर्ताः समाप्तिं प्रति गच्छन्ति, अतः राष्ट्रस्य आयस्य विशालांशः विदेशात् क्रूड् ऑइल् इत्यस्य क्रयणे एव नष्टः भवति ।

आजीवनम् अविवाहितः सम्पादयतु

होमी भाभा इत्यस्य जन्म पारसी-कुटुम्बे अभवत् । पारसी-जनेषु अविवाहितानां, विलम्बेन विवाहकतॄणां च विशाला सङ्ख्या अस्ति । पारसी-जनेषु एवं किमर्थम् इति संशोधनस्य विषयः । होमी भाभा अणुविज्ञानक्षेत्रे एव रसत्वात् अन्यत्र अरसत्वात् विवाहं न कृतवान् । अणुविज्ञानमेव स्वजीवनलक्ष्यमिति विचार्य अजीवत् ।

पुरस्काराः सम्पादयतु

१ १९४४ तमे वर्षे पटना विश्वविद्यालयात् डॉक्टर् ऑफ् सैन्स् इति पदव्या सम्मानितः । २ १९४9 तमे वर्षे लखनऊ विश्वविद्यालयात् डॉक्टरेट् इति पदव्या सम्मानितः । ३ १९५८ तमे वर्षे इलहाबाद विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ४ १९५९ तमे वर्षे केम्ब्रिज् विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ५ १९६० तमे वर्षे लण्डन् विश्वविद्यालयेन डी.एस.सी. इति मानपदव्या सम्मानितः । ६ १९४८ तमे वर्षे हॉप्किन्स् पुरस्कारेण सम्मानितः । ७ १९५४ तमे वर्षे भारतसर्वकारेण पद्मभूषणपुरस्कारेण सम्मानितः । ८ १९६१ तमे वर्षे भारतस्य विज्ञानक्षेत्रे श्रेष्ठयोगदानाय मेघनाद सहा सुवर्णचन्द्रकेन पुरस्कारेण सम्मानितः । ९ १९६४ तमे वर्षे मेल्चेड् पुरस्कारेण सम्मानितः ।

इत्थं विज्ञानक्षेत्रे पुरस्कारान् प्राप्य होमी भाभा विख्यातः अभवत् । तथापि आर्थिकलाभादिविषये सः कदापि न व्यचारयत् ।

मृत्युः सम्पादयतु

१९६६ तमे वर्षे जिनीव-नगरे अन्ताराष्ट्रियायाः अणुसमितेः गोष्ठी आयोजिता । तत्र अनिवार्यकारणात् होमी भाभा इत्यस्य उपस्थितिः न भविष्यति इति निश्चितम् आसीत् । किन्तु देशस्य प्रतिनिधित्वेन उपस्थितौ सति देशाय लाभाः भविष्यन्ति इति विचार्य जिनीव गन्तुम् आमन्त्रणं स्वीकृतवान् । तत्र गन्तुं १९६६ तमस्य वर्षस्य जनवरी-मासस्य २४ तमे दिनाङ्के काञ्चनगङ्गा ७०७ नामके वायुयाने उपविष्टः । आल्प्स् इत्यस्याः पर्वतमालायाः समीपे माउण्ट् ब्लॅन्क्-तः किञ्चिद्दूरे विमानं नष्टं यस्मिन् ११६ जनाः आसन् । तेषु एकः अस्माकं वैज्ञानिकः होमी भाभा अपि । इमं सन्देशं प्राप्य भारतीयाः स्तब्धाः अभवन् । देशस्य अणुकार्यक्रमः अपि मूर्छां गतः । स्वकीयेन अतुल्येन योगदानेन होमी भाभा अद्यापि जनमनसि राराजते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=होमी_जहाँगीर_भाभा&oldid=481195" इत्यस्माद् प्रतिप्राप्तम्