अहमात्मा गुडाकेश...
(१०.२० अहमात्मा गुडां.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः सम्पादयतु
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
- अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः सम्पादयतु
अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः अहम् आदिः च मध्यं च भूतानाम् अन्तः एव च ॥ २० ॥
अन्वयः सम्पादयतु
गुडाकेश ! सर्वभूताशयस्थितः आत्मा अहं भूतानाम् आदिः च मध्यं च अन्तः च एव अहम् ।
शब्दार्थः सम्पादयतु
- गुडाकेश = (जितनिद्र) अर्जुन !
- सर्वभूताशयस्थितः = सर्वप्राणिहृदयस्थितः
- आत्मा = प्रत्यगात्मा अहम्
- भूतानाम् = प्राणिनाम्
- आदिः च = मूलं च
- मध्यं च = मध्यभागः च
- अन्तः एव च = अवसानम् अपि
- अहम् = अहम् ।
अर्थः सम्पादयतु
अर्जुन ! सर्वप्राणिहृदयस्थितः प्रत्यगात्मा अहं प्राणिनां मूलं मध्यभागः अवसानं च अस्मि ।