१८८५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के "अमेरिकन् टेलिफोन् तथा टेलिग्राफ्" न्यूयार्क्-नगरे आरब्धम् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे जर्मनीदेशीयः हर्मन् एब्बिन् घास् नामकः मनोविज्ञानी "स्मृतिः मनसः महत्त्वयुता क्रिया" इत्येतम् अंशं प्रयोगाणां द्वारा प्रत्यपादयत् ।
अस्मिन् वर्षे आस्ट्रियादेशीयः कोल्लर् नामकः स्थानीयं वेदनानिवारकं संशोधितवान् ।
अस्मिन् वर्षे फ्रान्सिस् गाल्टन् नामकः अङ्गुलीनाम् अक्षः सर्वेषाम् अपि भिन्नः भवति इति संशोधितवान् ।
अस्मिन् वर्षे अयोवासंस्थानस्य डेवन्पोर्ट् इत्यत्र डा विलियं वेस्ट्ग्र्याण्ट् नामकः वैद्यः प्रथमवारम् "अपेण्डिक्स्" शस्त्रचिकित्साम् अकरोत् ।
अस्मिन् वर्षे अमेरिकादेशीयस्य विज्ञानिनः डेनियल् एल्मर् साल्मन् नामकस्य स्मरणार्थम् आहारं विषपूरितं कुर्वतां "ब्याक्टीरिया"सूक्ष्मजीविनां "साल्मोनेल्ला" इति नामकरणं कृतम् ।
अस्मिन् वर्षे भारते "काङ्ग्रेस्" इति संस्था अधिकृतरूपेण आरब्धा ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे भारतस्य प्रसिद्धः कविः मैथिलीशरण गुप्तः जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे फेब्रवरि ७ दिनाङ्के अमेरिकादेशीयः प्रसिद्धः लेखकः "नोबेल्"प्रशस्त्या पुरस्कृतः सिङ्क्लेर् लूयीस् जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे आगस्ट्-मासस्य १ दिनाङ्के हङ्गेरियादेशीयः रसायनशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः जार्ज् डि हेवेस्कि जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे अक्टोबर्-मासस्य १ दिनाङ्के कन्नडस्य प्रसिद्धः लेखकः तलुकिन वेङकण्णय्यः भारतदेशस्य कर्णाटकराज्यस्य चित्रदुर्गमण्डलस्य चल्लकेरे-उपमण्डलस्य "तलुकु" इत्येतस्मिन् ग्रामे जन्म प्राप्नोत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य ७ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः, ड्यानिष्-भौतशास्त्रज्ञः नील्स् बोह्र् जन्म प्राप्नोत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य ११ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः, फ्रेञ्च्-लेखकः फ्राङ्कोयिस् मोरियाक् जन्म प्राप्नोत् ।
अस्मिन् वर्षे डिसेम्बर्-मासस्य २ दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्रशस्त्या पुरस्कृतः, अमेरिकादेशीयः वैद्यः जार्ज् मैनोट् जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

अस्मिन् वर्षे फ्रान्सिसी-भाषायाः प्रसिद्धः कविः, उपन्यासकारः च विक्टर ह्यूगो मरणम् अवाप्नोत् ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे जुलैमासस्य २३ तमे दिनाङ्के अमेरिकासंयुक्तसंस्थानस्य १८तमः राष्ट्रपतिः युलिसिस् एस् ग्र्याण्ट् मरणम् अवाप्नोत् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे नवेम्बर्-मासस्य २५ तमे दिनाङ्के अमेरिकासंयुक्तसंस्थानस्य २१ तमः उपराष्ट्रपतिः थामस् हेण्ड्रिक्स् मरणम् अवाप्नोत् ।

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८८५&oldid=411527" इत्यस्माद् प्रतिप्राप्तम्