आल्बर्ट् स्याबिन्

चिकित्सक
(Albert Sabin इत्यस्मात् पुनर्निर्दिष्टम्)

(कालः – २६. ०८. १९०६ - ०३. ०३. १९९३)

आल्बर्ट् स्याबिन्
जननम् आल्बर्ट् स्याबिन्
(१९०६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६)२६ १९०६
Białystok, Poland
मरणम् ३ १९९३(१९९३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०३) (आयुः ८६)
Washington, D.C, United States
Heart Failure
नागरीकता Poland, United States
कार्यक्षेत्राणि immunology, virology
मातृसंस्थाः New York University
विषयेषु प्रसिद्धः oral polio vaccine
प्रमुखाः प्रशस्तयः see article


आल्बर्ट् स्याबिन् (Albert Sabin) "पोलियो”-रोगस्य औषधस्य संशोधकः । अयं आल्बर्ट् स्याबिन् १९०६ वर्षे आगस्टमासस्य २६ तमे दिनाङ्के रष्यादेशे जन्म प्राप्नोत् । १९२१ तमे वर्षे रष्यातः अमेरिकाम् आगच्छत् । १९३० तमे वर्षे अमेरिकादेशस्य पौरत्वं प्राप्नोत् च । सः आल्बर्ट् स्याबिन् यद्यपि अध्ययनम् अमेरिकादेशे अनुवर्तितवान् तथापि तत् सुलभं नासीत् । यतः तस्य कुटुम्बम् अत्यन्तं निर्धनं कुटुम्बम् आसीत् । विद्यालयतः प्रत्यागमनस्य अनन्तरं पितुः वयनकार्ये साहाय्यं करणीयम् आसीत् । सः अन्यत् किमपि कर्तुं समयम् एव न प्राप्नोति स्म । तस्य एतादृशीं परिस्थितिं दृष्टवान् तस्य आल्बर्ट् स्याबिनस्य पितृव्यः तं ततः स्वेन सह नीतवान् । अग्रे सः एव तस्मै आल्बर्ट् स्याबिनाय न्यूयार्कनगरस्य दन्तवैद्य–महाविद्यालये प्रवेशम् अकारयत् । यद्यपि सः आल्बर्ट् स्याबिन् दन्तवैद्यविद्यालयं प्राविशत् तथापि तस्य आसक्तिः सूक्ष्माणुजीविनां विषये एव आसीत् । १९३१ तमे वर्षे सः आल्बर्ट् स्याबिन् वैद्यपदवीं प्राप्नोत् ।


एषः आल्बर्ट् स्याबिन् द्वितीयस्य महायुद्धस्य अवसरे सैन्ये अपि कार्यम् अकरोत् । तदवसरे "मस्तिष्करोगस्य" विषये (एन्. सि. फैलैटिस्) अधिकं कार्यम् अकरोत् । युद्धस्य समाप्तेः अनन्तरं लक्ष्यं "पोलियो”-रोगस्य दिशि पर्यवर्तयत् । तदनन्तरं सः आल्बर्ट् स्याबिन् "सिन्सिनाटि”–विश्वविद्यालयस्य बालवैद्यालयस्य संशोधनविभागे कार्यम् आरब्धवान् । तत् कार्यं कर्तुं तस्य गुरुः विलियं पार्क् नामकः वैद्यः अपि प्रोत्साहम् अयच्छत् । "पोलियो” अत्यन्तं लघुना विषकणेन (वैरस्) जायमानः रोगः । ते विषकणाः मुखेन सेव्यमानानाम् आहारवस्तूनां, जलस्य द्वारा एव जीर्णाङ्गं प्रविशन्ति । ततः रक्तप्रवाहद्वारा मस्तिष्कम् अथवा मस्तिष्कलतां प्रविशन्ति । तत्र जीवकोशाणां नाशनस्य आरम्भं कुर्वन्ति । अनेन हस्त–पाद–श्वासकोशादीनां स्नायूनां चलनं स्थगितं भवति । अस्य चिकित्सां कर्तुं पणम् अकरोत् एषः आल्बर्ट् स्याबिन् । तदा एव जोनास् साक् इत्यनेन संशोधितं सूच्यौषधं तस्य "पोलियो”-रोगस्य निवारणार्थं दीयते स्म । तथा दुर्बलीकृतानाम् औषधानाम् उपयोगः न तावान् तृप्तिकरः इति अभासत अस्य आल्बर्ट् स्याबिनस्य । दीर्घकालं यावत् रोगस्य नियन्त्रणार्थं जीवन्तः विषकणाः (वैरस्) एव आवश्यकाः इति सः निर्णीतवान् । तान् विषकणान् आहारम् इव मुखद्वारा एव सेवितुं शक्नुमः, तदर्थं सूच्यौषधस्य आवश्यकता नास्ति इत्यपि संशोधितवान् । अनन्तरं विधत्रयस्य "पोलियो”-रोगस्य निमित्तम् अपि विधत्रयस्य प्रतिविषं निर्मातॄणां विषकणानां (वैरस्) संशोधनम् अपि अकरोत् । सः १९९३ तमे वर्षे मार्चमासस्य तृतीये दिनाङ्के इहलोकम् अत्यजत् ।


सः आल्बर्ट् स्याबिन् प्रथमं वानराणां कृते मुखद्वारा एव निस्स्त्वविषकणान् अददात् । तेन तेषां शरीरे "पोलियो”– निरोधकशक्तिः वर्धिता । अनन्तरं तेभ्यः वानरेभ्यः सत्त्वयुतान् विषकणान् अददात् । तदा ते वानराः पोलियोरोगेण पीडिताः नाभवन् । अनन्तरं तम् एव क्रमं मनुष्याणां विषये अपि प्रयुक्तवान् । तदर्थं पत्न्यै, द्वाभ्यां पुत्राभ्यां च औषधम् अददात् । स्वयम् अपि असेवत । अनन्तरं कारागृहस्य स्वयंसेवकेभ्यः अपि अयच्छत् । १९५७ वर्षाभ्यन्तरे मुखद्वारा एव सेव्यमानस्य औषधस्य संशोधनम् अकरोत् । विश्व–आरोग्य–संस्था अपि अस्य आल्बर्ट् स्याबिनस्य औषधस्य उपयोगं कर्तुम् अवदत् । अनन्तरं रष्या तथा पूर्वयूरोप् देशेषु दशकोटि–बालेभ्यः एतत् औषधं प्रदत्तम् । अस्य आल्बर्ट् स्याबिनस्य मुखद्वारा सेव्यमानं मधुररुचियुक्तं द्रवरूपम् एतत् औषधं विश्वाद्यन्तं प्रसिद्धम् अभवत् । प्रपञ्चस्य सर्वेभ्यः कोणेभ्यः अपि गौरवादराः तम् अन्विष्य आगताः । दिर्विधिः नाम १९८३ तमे वर्षे सः आल्बर्ट् स्याबिन् एव तेन "पोलियो”– रोगेण पीडितः मरणस्थितिं प्राप्तवान् । तथापि सः तस्य विरुद्धं युद्धं कृत्वा जयं प्राप्नोत् । अनन्तरं सः आल्बर्ट् स्याबिन् बहूनां विज्ञानिनां मार्गदर्शनं कुर्वन् सार्थकं जीवनम् अयापयत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आल्बर्ट्_स्याबिन्&oldid=276481" इत्यस्माद् प्रतिप्राप्तम्