मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
यजुर्वेदः यजूंषि गद्यानि। अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति। यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च। पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय। कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति। याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान्। अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः। स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः। वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
महाभारते कति पर्वाणि सन्ति ? तानि च कानि ?
महाभारते अष्टादश पर्वाणि सन्ति तानि -



आधुनिकलेखः
आधुनिकाः लेखाः
मकरसङ्क्रमणपर्वणः विशिष्ठं तिलगुडभक्ष्यम्

मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः।

तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्।।

मनुस्मृतिः ४/१६१

जनाः विभिन्नानि कार्याणि कुर्वन्ति। कीदृशानि कार्याणि कर्तव्यानि कीदृशानि न कर्तव्यानि इत्येतत् सर्वदा मनुष्यान् बाधते। यस्य कार्यस्य करणेन अन्तरात्मा तुष्यति तच्च कार्यम् अवश्यं करणीयम्। आनन्देन कर्तव्यं च। तस्य विरुद्धं कार्यं तन्नाम यस्य कार्यस्य करणेन अन्तरात्मनः सन्तोषः न भवति तत् कार्यं न करणीयम्।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
भाषा