अकोलामण्डलम्

(अकोलामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

अकोलामण्डलं (मराठी: अकोला जिल्हा, आङ्ग्ल: Akola District) महाराष्ट्रराज्ये विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अकोला इत्येतन्नगरम् । 'विदर्भ' इति महाराष्ट्रराज्यस्य विभागे वर्तमानेषु मण्डलेषु अन्यतमं मण्डलमिदम् ।

अकोलामण्डलम्

Akola district

अकोला जिल्हा
मण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
देशः  India
जिल्हा अकोलामण्डलम्
उपमण्डलानि अकोट, अकोला, तेल्हारा, पातूर, बार्शीटाकळी, बाळापूर, मूर्तिजापूर
विस्तारः ५,४३१ च.कि.मी.
जनसङ्ख्या(२०११) १८,१८,६१७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://akola.nic.in
नरनाळा कोटः

भौगोलिकम् सम्पादयतु

अकोलामण्डलस्य विस्तारः ५,४३१ चतुरस्रकिलोमीटर्मितः अस्ति । अमरावती विभागस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वदिशि अमरावतीमण्डलं, वाशिममण्डलं च, पश्चिमदिशि बुलढाणामण्डलम्, उत्तरदिशि अमरावतीमण्डलं, दक्षिणदिशि वाशिममण्डलम् अस्ति । अस्मिन् मण्डले नव नद्यः प्रवहन्ति । ताः यथा - पूर्णा, शहानूर, पठार, विद्रूपा, आस, उमा, काटेपूर्णा, मोर्णा, मन च ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणम् अकोलामण्डलस्य जनसङ्ख्या १८,१८,६१७ अस्ति । अस्मिन् ९,३६,२२६ पुरुषाः, ८,८२,३९१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३२१ जनाः वसन्ति । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४२ अस्ति । अत्र साक्षरता ८७.५५% अस्ति ।

ऐतिहसिकं किञ्चित् सम्पादयतु

निजामाधिपत्ये परिसरोऽयं हैदराबादसंस्थाने समाविष्टः आसीत् । आङ्ग्लाधिपत्ये बेरार-प्रान्ते समाविष्टः । मण्डलस्य आकोट इत्यस्मिन् स्थाने आङ्ग्लाः, नागपुरस्थाः भोसले वंशीयशासकाः एतयोः मध्ये युद्धं जातम् । पुरातनकाले अकोलसिङ्ग इति रजपूतयोद्ध्रा अकोलानगरनिर्माणं कृतं इति जनैः कथ्यते । १९५६ तमवर्षपर्यन्तं मध्यप्रदेशराज्ये समाविष्टः अयं परिसरः १९५६ तमे वर्षे मुम्बईप्रान्ते समाविष्टः कृतः । १९६० तमे वर्षे महाराष्ट्रराज्यनिर्माणेन सह मण्डलत्वेन अस्य परिसरस्य स्थापना कृता । १९९८ तमे वर्षे अकोलामण्डलस्य विभाजनं कृत्वा सर्वकारेण वाशिममण्डलस्य स्थापना कृता ।

कृषिः उद्यमाश्च सम्पादयतु

कार्पासः, यवनालः(ज्वारी), द्विदलसस्यानि, गोधूमः, कलायः, आम्रफलं, ताम्बूलपत्राणि, जम्बीरं, कदलीफलम्, नारङ्गं इत्येतानि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि । तैलोद्यमः, फेनकनिर्माणोद्यमः, काष्ठसम्बद्धोद्यमः, वस्त्रोद्यमः च प्रचलति अत्र । आकोट-बाळापुर-उपमण्डलयोः निर्मितानि आच्छादकानि आमहाराष्ट्रं प्रसिद्धानि सन्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- . १. आकोट २. अकोला ३. तेल्हारा ४. पातूर ५. बार्शीटाकळी ६. बाळापूर ७. मूर्तिजापूर


वीक्षणीयस्थलानि सम्पादयतु

  • असदगड दुर्गः
  • नरनाळा कोटः, गाविलगड पर्वतावलिः
  • कारञ्जा ‌इत्यत्र जैन देवालयः
  • कारञ्जा इत्यत्र नरसिंह-सरस्वति-मन्दिरम्
  • बार्शीटाकळी इत्यत्र प्राचीनदेवालयाः

बाह्यानुबन्धाः सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=अकोलामण्डलम्&oldid=458983" इत्यस्माद् प्रतिप्राप्तम्