दशरूपके अङ्कः अष्टमः प्रभेदः । रूपके अवान्तरभागस्यापि अङ्क इति नाम वर्तते । तेन संशयो भवतीति प्रायेण सवेर् एतं प्रभेदम् ’उत्सृष्टिकाङ्कः’ इति वदन्ति । उत्सृष्टिश्च विपरीता सृष्टिः । सात्र वर्तते इति नामास्य सार्थकम् । लोकविरुद्धस्य क्रमस्य इह दर्शनं भवतीति तात्पर्यम् । अभिनवगुप्तस्तु शोकं कुर्वत्यः स्त्रियः बह्व्यः अत्र सन्तीति उत्सृष्टिकाङ्क इति नाम सार्थकमिति वदति । स तावदेवं व्युत्पत्तिं प्रदर्शयति - उत्सृष्टिका उत्क्रमणीया सृष्टिः जीवितं यासां ता इति शोचन्त्यः स्त्रिय उत्सृष्य्यिकाः । तादृशीभिः अङ्कितो भवत्यङ्कः अत्रेति उत्सृष्टिकाङ्कः । अस्य लक्षणं तावदिदम् -

Bana Bhatta

अत्र एक एवाङ्कः । नीचा जना अत्र नायकाः । अत्र करुणो रसः प्रधान इति स्त्रीणां रोदनमधिकं भवति । अत्र प्रसिद्धं कथावस्तु कविः स्वबुद्धिबलेन विस्तारयति, तदुक्तम् -

रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ।
प्रख्यातमितिवृत्तं च कविर्बुद्ध्या प्रपञ्चयेत् ॥

भाणे इवात्रापि मुखं प्रतिमुखं चेति सन्धिद्वयमात्रं भवति । प्रायेण भारती वृत्तिः दृश्यते । दशापि लास्याङ्गानि इह सम्भवन्ति । अत्र वाचा युद्धं भवति न त्वायुधेन । प्रायेण वैराग्यजनकानि वचनानि अधिकानि भवन्ति । अन्यत्सर्वं नाटकवत् बोध्यम् ।

अस्योदाहरणं शर्मिष्ठाययातिः

"https://sa.wikipedia.org/w/index.php?title=अङ्कः_(रूपकम्)&oldid=455344" इत्यस्माद् प्रतिप्राप्तम्