अस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अणुभाष्यम् ३२ श्लोकानां भाष्यार्थसङ्ग्रहः भवति। भाष्यं सर्वशास्त्रार्थम् इत्यतः सर्वशास्त्रार्थसङ्ग्रहः भवति। ब्रह्मसूत्रभाष्यं प्रत्यहं पठनीयम् इति इच्छा अच्युतप्रेक्षकस्य आसीत्। एकवारं साधनद्वादशिदिने अस्य इच्छा न पूरिता। व्रतभङ्गः भविष्यति इति मत्वा तस्मिन् क्षणे एव आचार्यः अणुभाष्यं रचयित्वा दत्तवान् इति केचन व्याख्यानकाराः कथयन्ति। अद्यापि अस्य समग्रभाष्यस्य पारायणकर्तारः सन्ति। भाष्यं ये पाठयन्ति तेषां कृते तथैव भाष्यार्थं ये मननं कर्तुमिच्छन्ति तेषाञ्च उपयुक्तं भवति। एनं विषयं श्रीराघवेन्द्रस्य तत्वमञ्जरी स्पष्टं करोति। नारयणपण्डितस्य एकं व्याख्यान लभ्यते। अस्य पुत्रस्य वामनपण्डितस्य "आनन्दमाला" अस्य प्राचीनटीका ग्रन्थः भवति। नैकानि व्याख्यानानि लभ्यन्ते किन्तु तत्वमञ्जरी एव विस्तृतम् अध्ययनयोग्यञ्च भवतीति। अणुभाष्यं ब्रह्मसूत्रभाष्यस्य अध्यायसारं श्लोकरूपेण प्रपञ्चीकृतटिका भवति। अस्यां समन्वयः, अविरोधः, साधना तथा फलम् इति अध्यायाः सन्ति। एतैः समग्रभाष्यस्यावगमनं सुकरं स्यात्। यथा श्रीकृष्णः मुखे ब्रह्मांडं दर्षियित्वा परमात्मस्वरूपं दर्शितवान् तथैव आचार्योऽपि अणुभाष्यं लिखित्वा वायुदेवस्य अवतारः इति दर्शितवान् इति सुमध्वविजये वर्णितम् अस्ति।

अणुभाष्यम्  
Anubhasyam.jpg
भाषा sanskrit
श्रृङ्खला 4
पृष्ठसङ्ख्या 4 adhaya

मुख्यांशाःसम्पाद्यताम्

  • ब्रह्मसूत्रभाष्यस्य व्याख्यानम्।
  • अणुयाख्यानस्य रचयिता मध्वाचार्यः
  • ३२ श्लोकाः सन्ति।
  • ४ अध्यायाः सन्ति।
  • श्रेष्ठं व्याख्यानम् भवति।
द्वॅत मत प्रवर्तक
 
मध्वाचार्यः
मध्वचार्यस्य देवालयम्
 
मध्वाचार्यः

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=अणुभाष्यम्&oldid=399554" इत्यस्माद् प्रतिप्राप्तम्