सदृशं त्रिषु लिङगेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यद् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्=एकप्रकारमेव भवति, तत् अव्ययम् इति आथर्वणश्रुतिः[१]

अत्र तत्र

विवरणम् सम्पादयतु

अत्र' इत्यव्ययम् अस्मिन् इत्यर्थे प्रयुज्यते । इदं हि विभक्तिप्रतिरूपकम् अव्ययम् । एतत् अव्ययम्, 'इदम्' शब्दात् सप्तम्यास्त्रल् इति सूत्रेण त्रल् प्रत्यये कृते इदम् + त्रल् इति स्थिते इत्संज्ञायां लोपे च इदम् + त्र इति जाते त्यदादीनामः इति सूत्रेण मकारस्य स्थाने अकारादेशे इद अ + त्र इति दशायाम् अतो गुणे इति सूत्रेण पररूपे इद + त्र इति जाते हलि लोपः इति सूत्रेण इद् इत्यस्य लोपे अ + त्र इत्यवस्थायां संयोगे अत्र इति रूपं सिद्ध्यति ।

उदाहरणानि -

  • एष च अत्र समया सरोजिनीमेकतानयति चित्तचक्षुषि । - यादवीयम् (१७-३०)
  • अतोऽत्र भवतीं बहुक्षमाम् | (अस्मिन् विषये इत्यर्थः) - कुमारसम्भवम् (५-४०)
  • अत्र वने बहवः मशकाः सन्ति ।
  • शृङ्गेरी प्रान्तः अध्यात्मं बोधयति, अतः अहम् अत्र एव वसामि ।
  1. अव्ययप्रकरणं सिद्धान्तकौमुदीव्याख्या बालमनोरमा
"https://sa.wikipedia.org/w/index.php?title=अत्र_तत्र&oldid=395073" इत्यस्माद् प्रतिप्राप्तम्