अधियज्ञः कथं कोऽत्र...
श्लोकः
सम्पादयतु- अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
- प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
सम्पादयतुअधियज्ञः कथं कः अत्र देहे अस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयः असि नियतात्मभिः ॥ २ ॥
अन्वयः
सम्पादयतुपुरुषोत्तम ! किं तद् ब्रह्म ? किम् अध्यात्मम् ? किं कर्म ? किम् अधिभूतं च प्रोक्तम् ? अधिदैवं किम् उच्यते ? मधुसूदन ! अत्र अस्मिन् देहे अधियज्ञः कः ? कथम् ? नियतात्मभिः प्रयाणकाले कथं च ज्ञेयः असि ?
शब्दार्थः
सम्पादयतु- पुरुषोत्तम = पुरुषश्रे ! (कृष्ण)
- किं तत् ब्रह्म = ब्रह्मनामकं तत् किम् ?
- अध्यात्मं किम् = अध्यात्मं नाम किम् ?
- कर्म किम् = कर्म नाम किम् ?
- अधिभूतं च = अधिभूतम् इति
- किं प्रोक्तम्=किंस्वरूपं भणितम् ?
- अधिदैवम् = अधिदैवम् इति
- किम् उच्यते = किंस्वरूपं कथ्यते ?
- मधुसूदन = मधुविनाशक कृष्ण !
- अत्र = अत्र
- अस्मिन् देहे = एतस्मिन् शरीरे
- अधियज्ञः = अधियज्ञः इत्येषः
- कः = किंस्वरूपः ?
- कथम् = सः केन प्रकारेण भवति ?
- नियतात्मभिः = संयतचित्तैः योगिभिः
- प्रयाणकाले = मरणसमये
- कथं च =केन प्रकारेण च
- ज्ञेयः असि = ज्ञातुं योग्यः भवसि ?
अर्थः
सम्पादयतुपुरुषोत्तम ! ब्रह्म किम् ? अध्यात्मं किम् ? कर्म किम् ? अधिभूतं किम् ? अधिदैवं किम् ? अधियज्ञः कः ? मानवेन अन्तकाले त्वं कथं स्मरणीयः भवसि ?