इदम् अपामार्गसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं सर्वासु अपि भूमिषु वर्धते । अस्य पुष्पं मयूरपुष्पम् इव भवति । इदम् अपामार्गसस्यं १/२ तः १ मीटर् यावत् उन्नतं भवति । अस्य सस्यस्य मूलं, बीजं, पर्णं च औषधत्वेन उपयुज्यन्ते । अनेन अपामार्गेण क्षारं तैलं चापि निर्मान्ति । अस्य क्षारं ५ ग्रैन्स् यावत्, चूर्णं चेत् ५ – २० ग्रैन्स् यावत् सेवनीयम् । अस्मिन् “पोट्याश्” इत्यंशः विशेषरूपेण अस्ति ।

अपामार्गसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Caryophyllales
कुलम् Amaranthaceae
वंशः Achyranthes
जातिः A. aspera
द्विपदनाम
Achyranthes aspera
L.
अपामार्गसस्यम्

इतरभाषाभिः अस्य अपामार्गस्य नामानि सम्पादयतु

इदम् अपामर्गसस्यम् आङ्ग्लभाषया “प्रिक्लिच्याप् फ्लवर्स्” इति उच्यते । हिन्दीभाषया“चिडि, चिडी, जेचिर, चिटा” इति च, तेलुगुभाषया “अपामार्ग” अथवा “उत्तरेन” इति, तमिळ्भाषया “நாயுருவி nāyuruvi नायुरुवि” इति, मलयाळभाषया“കടലാടി कटलाटि kaṭalāṭi ” इति, बेङ्गालीभाषया “अपाड्” इति, गुजरातिभाषया “आघोडो” इति, कन्नडभाषया “ ఉత్తరేణి उत्तरेणि uttarēṇi” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अपामार्गस्य प्रयोजनानि सम्पादयतु

अस्य अपामर्गस्य रुचिः कटुः, तिक्तः च । इदम् उष्णवीर्ययुक्तं, लघु, वृक्षं चापि । इदम् अपामार्गं विपाके कटुरेव भवति । अस्य पञ्च अङ्गानि औषधत्वेन उपयुज्यन्ते।
१. कफप्रकृतियुक्तानां, कफजन्यरोगैः पीड्यमानानां च अपामार्गस्य उपयोगः हितकरः।
२. अस्य उपयोगः वातरोगाणां निमित्तम् अपि हितकरः भवति।
३. अस्य उपयोगेन शोथः, वेदना च अपगच्छति।
४. व्रणेषु अस्य रसं लेपयन्ति ।
५. वृश्चिकदंशने, सर्पदंशने च दशनस्थाने अस्य रसः एव उपयोगकारी ।
६. कर्णवेदनायां सत्याम् अस्य क्षारेण निर्मितं तैलम् उपयोक्तुं शक्यते ।
७. अस्य अपामार्गस्य उपयोगः अरुचौ, अग्निमान्द्ये, वमने, उदररोगेषु च भवति ।
८. अस्य अपामार्गस्य बीजेभ्यः निर्मितं पायसं “भस्मक” नामके रोगे विशेषतया उपयुज्यते । (भस्मकरोगः नाम अतिबुभुक्षा)
९. इदम् अपामार्गं रक्तहीनतां (पाण्डुरोगः), रक्तविकारं, ह्द्रोगम्, आमवातं च निवारयति ।

बाह्यसम्पर्क्तन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अपामार्गसस्यम्&oldid=457437" इत्यस्माद् प्रतिप्राप्तम्