अपि
अपि इत्यव्ययविचारः
अर्थविवरणम्
सम्पादयतुअपि इत्यव्ययं विविधेषु अर्थेषु प्रयुज्यते । ते च अर्थाः -
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।[१]
अर्थात् - गर्हा = निन्दा, समुच्चयः, प्रश्नः, शङ्का, सम्भावना (शक्त्युत्कर्षमाविष्कर्तुम् अत्युक्तिः)[२] इत्येतेषु अर्थेषु अपि इत्यव्ययं प्रयुज्यते |
पुनश्च -
अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ।
तथा युक्तपदार्थे च कामचारक्रियासु च ॥[३]
उदाहरणानि
सम्पादयतु- गर्हा(निन्दा) = १) धिग्देवदत्तम् अपि स्तुयाद् वृषलम् ।
- समुच्चयः = अपि स्तुहि अपि सिञ्च ।
- प्रश्नः = १)अपि क्रियार्थं सुलभं समित्कुशम् । २) अपि गच्छसि गृहम् ?
- शङ्का = १) अपि प्रसीदेद् रुष्टो नृपतिः ! २) अपि चोरो भवेत् ! ३) अपि देवदत्तो गच्छेत् !
- सम्भावना = १) अपि स्तुयाद् विष्णुम् ।