अभिनन्दननाथः( /ˈəbhɪnəndənənɑːθəhə/) (हिन्दी: अभिनन्दननाथ,आङ्ग्ल: Abhinandananatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु चतुर्थः तीर्थङ्करः अस्ति [१]। अभिनन्दननाथस्य वर्णः सुवर्णः, चिह्नं वानरः च वर्तते । बाल्यकादेव भगवान् दयालुः, प्रकृत्या विनम्रः च आसीत् ।

अभिनन्दननाथः
चतुर्थः जैनतीर्थङ्करः
Thirtankara.jpg
अभिनन्दननाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२२३ वर्षाणि पूर्वम्
परिवारः
पिता संवर
माता सिद्धार्था
वंश इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् वानरः
औन्नत्यम् ३५० धनुर्मात्रात्मकम् (१०५० मीटर्)
आयुः ५०,००,००० पूर्वम् (३५२.८ × १०१८ वर्षाणि)
शासकदेवः
यक्षः यक्षेशः
यक्षिणी काली
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

भगवान् अभिनन्दननाथः इक्ष्वाकुवंशीयः आसीत् । अभिनन्दननाथस्य ११६ गणधराः आसन् । तेषु वज्रनाभः प्रथमः गणधरः आसीत् ।

जन्म, परिवारश्चसम्पाद्यताम्

देवलोकस्य त्रयस्त्रिंशत्सागरावधेः समाप्त्यनन्तरं भगवतः अभिनन्दननाथस्य अवतरणम् अभवत् । भगवतः सम्भवनाथस्य निर्वाणस्य नवलक्षकोटिवर्षाणाम् अनन्तरं माघ-मासस्य शुक्लपक्षस्य द्वितीयायां तिथौ मध्यरात्रौ पुनर्वसुनक्षत्रे भगवान् अभिनन्दननाथः अवतीर्णः [२]। भगवतः काश्यपगोत्रम् आसीत् ।

भगवतः अभिनन्दननाथस्य पिता संवरः, माता च सिद्धार्था आसीत् । भरतक्षेत्रे अयोध्या-नामिका नगरी आसीत् । तस्याः नगर्याः राजा संवरः आसीत् । संवरः अयोध्यानगर्यां सुष्ठुतया शासनं करोति स्म । सिद्धार्था इति नामिका राज्ञः पत्नी आसीत् । एकदा सिद्धार्थया रात्रौ तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः ।

आगामिदिने स्वप्नशास्त्रिभिः चतुर्दश स्वप्नानां फलादेशः कथितः । “कस्यचित् तीर्थङ्करस्य जन्म भवेत् इति लक्षणानि दृश्यन्ते” इति स्वप्नशास्त्रिणः उक्तवन्तः । नवमासानन्तरं मध्यरात्रौ सिद्धार्था एकं पुत्रम् अजीजनत् । त्रिषु लोकेषु वातावरणं शान्तम् अभवत् ।

चतुष्षष्टिः इन्द्राः भगवतः अभिनन्दननाथस्य उत्सवमाचरितवन्तः । राजा संवरः बन्दिभ्यः कारागारात् मुक्तिम् अयच्छत् । तेन याचकेभ्यः दानानि अपि कृतानि ।

पूर्वजन्मसम्पाद्यताम्

जम्बूद्वीपस्य पूर्वमहाविदेहस्य मङ्गलावतीविजये रत्नसञ्चयानामिका एका नगरी आसीत् । तस्याः नगर्याः राजा महाबलः आसीत् । महाबलः एव अभिनन्दननाथस्य पूर्वजन्मनाम आसीत् । महाबलः उदारः आसीत् । यावत् महाबलेन राज्यस्य दायित्वं स्वीकृतम् आसीत्, तावत् सः स्वस्य कर्त्तव्यपालनं करोति स्म ।

तस्य पुत्रः गुरुकुले पठितवान् आसीत् । यदा पुत्रः चतुषष्टिकलाः पठित्वा राज्यम् पुनरागतः, तदा सः सम्यक्तया राज्यं शासितुं समर्थः । अतः महाबलेन सम्पूर्णराज्यस्य दायित्वं पुत्राय प्रदत्तम् । अनन्तरं महाबलः पारिवारिकबन्धनात् मुक्तः जातः । महाबलस्य गुरुः विमलचन्द्रः आसीत् । सः गुरोः दीक्षां प्राप्य साधनां चकार । साधनानन्तरं महाबलः मृत्युलोकात् मुक्तिं सम्प्राप्तवान् [३]

नामकरणम्सम्पाद्यताम्

राज्ञा संवरेण नामकरणमहोत्सवस्य विशालायोजनं कृतम् आसीत् । तस्मिन् महोत्सवे पारिवारिकजनाः, नगरजनाः च सम्मिलिताः आसन् । इन्द्रादयः देवाः अपि तत्र समुपस्थिताः आसन् । बालकं द्रष्ट्वा सर्वे धन्याः अभवन् ।

यदा नामकरणविषयिकी चर्चा जाता, तदा राज्ञा संवरेण उक्तं यत् – “ गतेषु नवमासेषु राज्ये यावत् आनन्दप्राप्तिः जाता, तावत् पूर्वं मे राज्ये कदापि न अभवत् । राज्येषु अपराधाः अपि न्यूनाः जाताः । पारस्परिकविग्रहाः अपि नवमासेषु अल्पमात्रायाम् अभवन् । राज्यस्य प्रत्येकं जनः मानसिकरीत्या प्रसन्नः अस्ति । अतः मे दृष्ट्या आनन्दकारिणः नन्दनस्य नाम अपि अभिनन्दनकुमारः इति भवितव्यम् [४]। सर्वे जनाः राज्ञः संवरस्य निर्णयम् अङ्गीकृतवन्तः ।

विवाहःसम्पाद्यताम्

यदा अभिनन्दननाथः किशोरावस्थां सम्प्राप्तः, तदा संवरः सुयोग्यकन्याभिः सह अभिनन्दननाथस्य विवाहम् अकारयत् । किशोरावस्थायाम् अभिनन्दननाथस्य शरीरस्य दैर्घ्यं पञ्चाशताधिकत्रिशतं धनुर्मात्रात्मकम् (३५० धनुष) आसीत्[५] । समयान्तरे अभिनन्दननाथस्य राज्याभिषेकं कृत्वा संवरेण तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं संवरः शासनात् निवृत्तिं सम्प्राप्तः । राजा संवरः संसारात् मुक्तिं प्राप्य मुनिपदम् अङ्गीकृतवान् ।

राज्यम्सम्पाद्यताम्

राजा अभिनन्दननाथः राज्यस्य नीतिपूर्वकं सञ्चालनं करोति स्म । राज्ये वस्तूनाम् अभावः एव नासीत् । नगरजनाः सुखेन जीवन्ति स्म । यद्यपि अभिनन्दननाथः गृहे निवसति स्म, तथापि तस्य जीवनं मुनिः इव प्रतिभाति स्म । यतः कस्यापि वस्तुनः मोहः एव नासीत् । सः इन्द्रियजन्यवासनया निर्मुक्तः आसीत् ।

राजत्यागः, दीक्षा चसम्पाद्यताम्

अभिनन्दनेन दीर्घकालं यावत् राज्यसञ्चालनं कृतम् आसीत् । तस्य जीवनस्य भोगावलिकर्मावस्थायाः समाप्त्यनन्तरं तेन स्वस्य उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं तेन नियमानुसारं वार्षिकीदानाय व्यवस्था कृता ।

अभिनन्दननाथेन एकवर्षं यावत् वार्षिकीदानं कृतम् । राज्ये सः सर्वेभ्यः जनेभ्यः आवश्यकतानुसारं दानं करोति स्म । अभिनन्दननाथस्य वैराग्यवृत्तिं द्रष्ट्वा बहवः राजानः, राजकुमाराः च प्रभाविताः अभवन् । ते राजानः, राजकुमाराः अपि दीक्षाम् अङ्गीकर्तुम् ऐच्छन् ।

माघ-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ भगवता अभिनन्दननाथः सहस्रजनैः सह दीक्षाम् अङ्गीकृतवान् । सर्वैः सहस्राम्रोद्याने दीक्षा सम्प्राप्ता । दीक्षायाः दिवसे भगवतः षष्ठीतपः आसीत् । किन्तु “तिलोयपन्नत्ति” नामके ग्रन्थे अष्टम्याः तपसः उल्लेखः प्राप्यते ।

राज्ञा इन्द्रदत्तेन भगवते अभिनन्दननाथाय प्रथमाहारः प्रदत्तः आसीत्[६] । इन्द्रदत्तं क्षीरान्नम् अभिनन्दननाथः अभुङ्क्त ।

अष्टादशवर्षाणि यावत् अभिनन्दननाथः कठोरतपस्याञ्चकार । दीक्षावने सः असनवृक्षस्य अधः ध्यानावस्थायाम् अतिष्ठत् । सर्वत्र भ्रमणं कृत्वा अभिनन्दननाथः सहस्राम्रवनं प्राप्तवान् । तत्र भगवता “काउसग्ग” इति अपि कृतम् ।

तपस्यया भगवान् अभिनन्दननाथः पौष-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ अभिजित-नक्षत्रे कैवल्यज्ञानं सम्प्रापत्[७] । यदा सः सर्वज्ञः अभूत्, तदा सः अयोध्यानगर्याम् आसीत् ।

तत्र भगवान् अभिनन्दननाथः प्रथमं प्रवचनम् अकरोत् । प्रथमप्रवचनस्य दिवसे एव तीर्थस्य स्थापना अपि कृता । तस्मिन् दिवसे बहवः जनाः साधुत्वं, श्रावकत्वं च स्वीकृतवन्तः । भगवतः तीर्थे यक्षेश्वरनामकः यक्षः, कालिकानामिका शासनदेवी च आसीत् [८]

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् अभिनन्दननाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां कृतवान्, तदा तेन धार्मिकपरिवारस्य अपि रचना कृता[९]

  1. ११६ गणधराः
  2. १४,००० केवलज्ञानिनः
  3. ११,६५० मनःपर्यवज्ञानिनः
  4. ९,८०० अवधिज्ञानिनः
  5. १९,००० अवैक्रियलब्धिधारिणः
  6. १,५०० चतुर्दशपूर्विणः
  7. ११,००० चर्चावादिनः
  8. ३,००,००० साधवः
  9. ६,३०,००० साध्व्यः
  10. २,८८,००० श्रावकाः
  11. ५,२७,००० श्राविका

निर्वाणम्सम्पाद्यताम्

भगवान् अभिनन्दननाथः दीर्घकालं यावत् आर्यक्षेत्रे विचरणं कुर्वन् आसीत् । ततः परं भगवान् अभिनन्दननाथः स्वस्य अन्तःकालं ज्ञातवान् । अतः अभिनन्दननाथः अनशनं कर्तुं सहस्रमुनिभिः सह सम्मेदशिखरं गतवान् । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्रापत् ।

वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ पुष्यनक्षत्रे प्रातःकाले सम्मेदशिखरे भगवतः निर्वाणम् अभवत् [१०]। भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् ।

अभिनन्दननाथेन कौमारावस्थायां सार्धद्वादशलक्षं वर्षाणां, राज्ये सार्धषड्त्रिंशल्लक्षवर्षाणां, दीक्षायाम् अष्टपूर्वाङ्गः च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चाशत् लक्षं वर्षाणि भुक्तानि आसन् [११]

जैनतीर्थङ्कराः
  पूर्वतनः
सम्भवनाथः
अभिनन्दननाथः अग्रिमः
सुमतिनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 56
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 61
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 60
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 61
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 56
  6. http://jainpuja.com/jain-puja/bhagwan-shree-abhinandannathji1.aspx
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 56
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 56
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 55
  10. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 63
  11. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 56

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=अभिनन्दननाथः&oldid=321861" इत्यस्माद् प्रतिप्राप्तम्